View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

6.125 युद्धकांड - पंचविंशत्यधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ पंचविंशत्यधिकशततमस्सर्गः ।

उपस्थितंतुतंकृत्वापुष्पकंपुष्पभूषितम् ।
अविदूरेस्थितोराममित्युवाचविभीषणः ॥ 1 ॥

स तुबद्धांजलिः प्रह्वोविनीतोराक्षसेश्वरः ।
अब्रवीत्त्वरयोपेतःकिंकरोमीतिराघवम् ॥ 2 ॥

तमब्रवीन्महातेजालक्ष्मणस्योपशृण्वतः ।
विमृश्यराघवोवाक्यमिदंस्नेहपुरस्कृतम् ॥ 3 ॥

कृतप्रयत्नकर्माणःसर्वएववनेचराः ।
रत्नैरर्थैश्चविविधैस्संपूज्यंतांविभीषण ॥ 4 ॥

सहामीभिस्त्वयालंकानिर्जिताराक्षसेश्वर ।
हृष्टैःप्राणभयंत्यक्त्वासंग्रामेष्वनिवर्तिभिः ॥ 5 ॥

त इमेकृतकर्माणस्सर्वएववनौकसः ।
धनरत्नप्रदानेनकर्मैषांसफलंकुरु ॥ 6 ॥

एवंसम्मानिताश्चेतेमानार्हमानदात्वया ।
भविष्यंतिकृतज्ञेननिर्वृताहरियूथपाः ॥ 7 ॥

त्यागिनंसंग्रहीतारंसानुक्रोशंजितेंद्रियम् ।
सर्वेततःअवगच्छंतिसंबोधयामिते ॥ 8 ॥

हीनंरतिगुणैस्सर्वैरभिहंतारमाहवे ।
सेनात्यजतिसम्विग्नानृपतिंतंनरेश्वरा ॥ 9 ॥

एवमुक्तस्तुरामेणवानरांस्तान्विभीषणः ।
रत्नार्थसंविभागेनसर्वानेवाभ्यपूजयत् ॥ 10 ॥

ततस्तान्पूजितांदृष्टवारत्नार्थैर्हरियूथपान् ।
आरुरोहतदारामस्तद्विमानमनुत्तमम् ॥ 11 ॥

अंकेनादायवैदेहींलज्जमानांयशस्विनीम् ।
लक्ष्मणेनसहभ्रात्राविक्रांतेवधनुष्मता ॥ 12 ॥

अब्रवीत्सविमानस्थःपूजयन्सर्वावानरान् ।
सुग्रीवं च महावीर्यंकाकुत्स्थसविभीषणम् ॥ 13 ॥

मित्रकार्यंकृतमिदंभवद्भिद्वानरर्षभाः ।
अनुज्ञातामयासर्वेयथेष्टंप्रतिगच्छत ॥ 14 ॥

यत्तुकार्यंवयस्येनस्निग्धेन च हितेन च ।
कृतंसुग्रीवतत्सर्वंभवताधर्मभीरुणा ॥ 15 ॥

किष्किंधांप्रतियाह्यावुस्वसैन्येनाभिसम्वृतः ।
स्वराज्येवसलंकायांमयादत्तेविभीषण ॥ 16 ॥

न त्वांधर्षयितुंशक्तास्सेंद्राअपिदिवौकसः ।
योध्यांप्रतियास्यामिराजधानींपितुर्मम ॥ 17 ॥

अभ्यनुज्ञातुमिच्छामिसर्वानामंत्रयामिवः ।
वमुक्तास्तुरामेणहरींद्राहरयस्तथा ॥ 18 ॥

ऊचुःप्रांजलयस्सर्वेराक्षसश्चविभीषणः ।
अयोध्यांगंतुमिच्छामःसर्वन्नयतुनोभवान् ॥ 19 ॥

मुद्युक्ताविचरिष्यामोवनान्युपननानि च ।
दृष्टवात्वामभिषेकार्ध्रंकौसल्यामभिवाद्य च ॥ 20 ॥

अचिरादगमिष्यामःस्वगृहान्नृपसत्तम ।
एवमुक्तस्सधर्मात्मावानरैस्सविभीषणैः ॥ 21 ॥

अब्रवीद्वानरान्रामस्ससुग्रीवविभीषणान् ।
प्रिययतरंलब्दंयदहंससुहृज्जनः ॥ 22 ॥

सर्वैर्भवद्भिःसहितःप्रीतिंलप्स्येपुरींगतः ।
क्षिप्रं सुग्रीवविमानंवानरैस्सह ॥ 23 ॥

त्वमप्यारोहसामात्योराक्षसेंद्रविभीषण ।
ततः स पुष्पकंदिव्यंसुग्रीवस्सहवानरैः ॥ 24 ॥

आरुरोहमुदायुक्तःसामात्यश्चविभीषणः ।
तेष्वारूढेषुसर्वेषुकौबेरंपरमासनम् ॥ 25 ॥

राघवणाभ्यनुज्ञातमुत्पपातविहायसम् ।
गतेनविमानेनहंसयुक्तेनभास्वता ॥ 26 ॥

प्रहृष्टश्चप्रतीतश्चबभौरामःकुबेरवत् ।
तेसर्वेवानरर्र्क्षश्चराक्षसाश्चमहाबलाः ॥ 27 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे पंचविंशत्यधिकशततमस्सर्गः ॥




Browse Related Categories: