View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.112 युद्धकाण्ड - द्वादशाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ द्वादशाधिकशततमस्सर्गः ।

भ्रातरन्निहतन्दृष्टवाशयानन्निर्जितंरणे ।
शोकवेगपरीतात्माविललापविभीषणः ॥ 1 ॥

वीर विक्रान्त विख्यात प्रवीण नयकोविद ।
महार्हाशयनोपेतकिंशेषेनिहतोभुवि ॥ 2 ॥

विक्षिप्यदीर्घौनिश्चेष्टौभुजावङ्गभूषितौ ।
मुकुटेनापवृत्तेनभास्कराकारवर्चसा ॥ 3 ॥

दंवीरसम्प्राप्तंयन्मयापूर्वमीरितम् ।
काममोहपरीतस्ययत्तन्नरुचितन्तव ॥ 4 ॥

यन्नदर्पात्प्रहस्तोवानेन्द्रजिन्नापरेजनाः ।
न कुम्बकर्णोऽतिरथोनातिकायोनरान्तकः ॥ 5 ॥

न स्वयन्त्वममन्येथास्तस्योदर्कोऽयमागतः ।
गतस्सेतुस्सुनीतीनाङ्गतोधर्मस्यविग्रहः ॥ 6 ॥

गतस्सत्त्वस्यसङ्क्षेपःप्रस्तावानाङ्गतिर्गता ।
आदित्यःपतितोभूमौमग्नस्तमसिचन्द्रमाः ॥ 7 ॥

चित्रभानुःप्रशान्तार्चिर्व्यवसायोनिरुद्यमः ।
अस्मिन्निपतितेवीरे भूमौशस्त्रभृतांवरे ॥ 8 ॥

सौमित्रिं सत्त्वसम्पन्नं लक्ष्मणं शुभलक्षणम् ।
विभीषणमिमं सौम्य लङ्कायामभिषेचय ॥ 9 ॥

धृतिप्रवालःप्रसह्याग्य्रपुष्पस्तपोबलश्शौर्यनिबद्धमूलः ।
रणेमहान्राक्षसराजवृक्षःसम्मर्दितोराघवमारुतेन ॥ 10 ॥

तेजोविषाणःकुलवंशवंशःकोपप्रसादापरगात्रहस्तः ।
इक्ष्वाकुसिंहावगृहीतदेहःसुप्तःक्षितौरावणगन्धहस्ती ॥ 11 ॥

पराक्रमोत्साहविजृम्भितार्चिर्निःश्वासधूमस्स्वबलप्रतापः ।
प्रतापवान्सम्यतिराक्षसाग्निर्विर्वापितोरामपयोधरेण ॥ 12 ॥

सिंहरक्षलाङ्गूलककुद्विषाणःपराभिजिद्गन्धनगन्धहस्ती ।
रक्षोवृषश्चापलकर्णचक्षुःक्षितीश्वरव्याघ्रहतोऽवसन्नः ॥ 13 ॥

वदन्तंहेतुमद्वाक्यम्परिदृष्टार्थनिश्चयम् ।
रामःशोकसमाविष्टमित्युवाचविभीषणम् ॥ 14 ॥

नायंविनष्टोनिश्चेष्टस्समरेचण्डविक्रमः ।
अत्युन्नतमहोत्साहःपतितोऽयमशङ्कितः ॥ 15 ॥

नैवंविनष्टाःशोच्यन्तेक्षत्रधर्मव्यवस्थिताः ।
वृधदिमाशंसमानायेनिपतन्तिरणाजिरे ॥ 16 ॥

येनसेन्द्रास्त्रयोलोकास्त्रासितायुधिधीमता ।
तस्मिन्कालसमायुक्ते न कालःपरिशोचितुम् ॥ 17 ॥

नैकान्तविजयोयुद्धेभूतपूर्वःकदाचन ।
परैराहन्यतेवीरःपरान्वाहन्तिसंयुगे ॥ 18 ॥

स तद्राज्यं महत्प्राप्य रामदत्तं विभीषणः ।
प्रकृतीः सान्त्ययित्वा च ततो राममुपागमत् ॥ 19 ॥

तदेवन्निश्चयन्दृष्टवातत्त्वमास्थायविज्वरः ।
यदिहानन्तरङ्कार्यङ्कल्प्यन्तदनुचिन्तय ॥ 20 ॥

मुक्तवाक्यंविक्रान्तंराजपुत्रंविभीषणः ।
उवाचशोकसन्तप्तोभ्रातुर्हितमनन्तरम् ॥ 21 ॥

योऽयंविमर्देष्वविभग्नपूर्वःसुरैस्समस्थेरपिवासवेन ।
भवन्तमासाद्यरणेविभग्नोवेलामिवासाद्ययथासमुद्रः ॥ 22 ॥

अनेनदत्तानिवनीपकेषुभुक्ताश्चभोगानिभृताश्चभृत्याः ।
धनानिमित्रेषुसमर्पितानिवैराण्यमित्रेषुनिपातितानि ॥ 23 ॥

एषोहिताग्निश्चःमहातपाश्चवेदान्तगःकर्मसुचाग्य्रशूरः ।
एतस्ययत्प्रेतगतस्यकृत्यन्तत्कर्तुमिच्छामितवप्रसादात् ॥ 24 ॥

मरणान्तानिवैराणिनिर्वृत्तंवःप्रयोजनम् ।
क्रियतामस्यसंस्कारोममाप्येषयथातव ॥ 25 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे द्वादशाधिकशततमस्सर्गः ॥




Browse Related Categories: