श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ सप्तदशाधिकशततमस्सर्गः ।
स उवाचमहाप्रामस्सोऽभिवाद्यप्लवङ्गमः ।
रामंवचनमर्थज्ञोवरंसर्वधनुष्मताम् ॥ 1 ॥
यन्निमित्तोऽयमारम्बःकर्मणांयःफलोदयः ।
तान्देवींशोकसन्तप्तान्द्रष्टुमर्हसिमैथिलीम् ॥ 2 ॥
साहिशोकसमाविष्टाबाष्पपर्याकुलेक्षणा ।
मैथिलीविजयंश्रुत्वाद्रष्टुन्त्वामभिकाङ्क्षति ॥ 3 ॥
पूर्वकात्प्रत्ययाच्चाहमुक्तोविश्वस्तयातया ।
भर्तारन्द्रष्टुमिच्छामिकृतार्थंसहलक्ष्मणम् ॥ 4 ॥
एवमुक्तोहनुमतारामोधर्मभृतांवरः ।
आगच्छत्सहसाध्यानमीषद्भाष्पपरिप्लुतः ॥ 5 ॥
दीर्घमुष्णंविनिःश्वस्यजगतीमवलोकयन् ।
उवाचमेघसङ्काशंविभीषणमुपस्थितम् ॥ 6 ॥
दिव्याङ्गरागांवैदेहीन्दिव्याभरणभूषिताम् ।
इहसीतांशिरःस्नातामुपस्थापयमाचिरम् ॥ 7 ॥
एवमुक्तस्तुरामेणत्वरमाणोविभीषणः ।
प्रविश्यान्तःपुरंसीतांस्त्रीभिस्स्वाभिरोचदयत् ॥ 8 ॥
ततस्सीताम्महाभागान्दृष्टवोवाचविभीषणः ।
मूर्ध्निबद्धाञ्जलिश्रीमान्विनीतोराक्षसेश्वरः ॥ 9 ॥
दिव्याङ्गरागावैदेहीदिव्याभरणभूषिता ।
यानमारोहभद्रन्तेभर्तात्वान्द्रष्टुमिच्छति ॥ 10 ॥
एवमुक्तातुवैदेहीप्रत्युवाचविभीषणम् ।
अस्नात्वाद्रष्टुमिच्छामिभर्तारंराक्षसेश्वर ॥ 11 ॥
तस्यास्तद्वचनंश्रुत्वाप्रत्युवाचविभीषणः ।
यथाहरामोभहर्तातेतत्तथाकर्तुमार्हसिमार्हसि ॥ 12 ॥
तस्यतद्वचनंश्रुत्वामैथिलीपतिदेवता ।
भर्तृभक्त्यावृतासाध्वीतथेतिप्रत्यभाषत ॥ 13 ॥
ततस्सीतांशिरःस्नातांसंयुक्ताम्प्रतिकर्मणा ।
महार्हाभरणोपेताम्महार्हाम्बरधारिणीम् ॥ 14 ॥
आरोप्यशिबिकान्दीप्ताम्परार्घ्याम्बरसम्वृताम् ।
राक्षसैर्भहुभिर्गुप्तामाजहारविभीषणः ॥ 15 ॥
सोऽभिगम्यमहात्मानञ्ज्ञातावपिध्यानमास्थितम् ।
प्रणतश्चप्रहृष्टश्चप्राप्तांसीतान्न्यवेदयत् ॥ 16 ॥
तामागतामुपश्रुत्यरक्षोगृहचिरोषिताम् ।
हर्षोदैन्यञ्च रोषश्चत्रयंराघवमाविशत् ॥ 17 ॥
ततःपार्श्वगतन्दृष्टवासविमर्शंविचारयन् ।
विभीषणमिदंवाक्यमहृष्टोराघवोऽब्रवीत् ॥ 18 ॥
राक्षसाधिपतेसौम्यनित्यम्मद्विजयेरत ।
वैदेहीसन्निकर्षम्मेशीघ्रंसमुपगच्छतु ॥ 19 ॥
तस्यतद्वचनंश्रुत्वाराघवस्यविभीषणः ।
तूर्णमुत्सारणन्तत्रकारयामासधर्मवित् ॥ 20 ॥
कञ्चुकोष्णीषिणस्तत्रवेत्रजर्जरपाणयः ।
उत्सारयन्तस्तान्योधान्समन्तात् परिचक्रमुः ॥ 21 ॥
ऋक्षाणांवानराणां च राक्षसानां च सर्वशः ।
वृन्दान्युत्सार्यमाणानिदूरमुत्तस्थुरन्ततः ॥ 22 ॥
तेषामुत्सार्यमाणानान्निःस्वनःसुमहानभूत् ।
वायुनोद्धूयामानस्यसागरस्येवनिःस्वनः ॥ 23 ॥
उत्सार्यमाणान् दृष्टवाथजगत्याञ्जातसम्भ्रमान् ।
दाक्षिण्यात्तदमर्षाच्चवारयामासराघवः ॥ 24 ॥
संरम्बश्चाब्रवीद्रामश्चक्षुषाप्रदहन्निव ।
विभीषणम्महाप्राज्ञंसोपालम्बमिदंवचः ॥ 25 ॥
किमर्थम्मामनादृत्यक्लिश्यतेऽयन्त्वयाजनः ।
निवर्तयैनमुद्योगञ्जनोऽयंस्वजनोमम ॥ 26 ॥
न गृहाणि न वस्त्राणि न प्राकारास्तिरस्क्रिया ।
नेदृशाराजसत्कारावृत्तमावरणंस्त्रियाः ॥ 27 ॥
व्यसनेषु न कृच्छ्रेषु न युद्धेषुस्वयंवरे ।
न क्रतौनोविवाहेवादर्शनन्दूष्यतेस्त्रियाः ॥ 28 ॥
सैषाविपद्गताचैवकृच्छ्रेव च महतिस्थिता ।
दर्शनेनास्तिदोषोऽस्यामत्समीपेविशेषतः ॥ 29 ॥
विसृज्यशिबिकान्तस्मात्पद्भ्यामेवोपसर्पतु ।
समीपेममवैदेहीम्पश्यन्त्वेतेवनौकसः ॥ 30 ॥
एवमुक्तस्तुरामेणसविमर्शोविभीषणम् ।
रामस्योपानयसतीतांसन्निकर्षंविनीतवत् ॥ 31 ॥
ततोलक्ष्मणसुग्रीवौहनूमांश्चप्लवङ्गमः ।
निशम्यवाक्यंरामस्यबभूवुर्व्यथिताभृशम् ॥ 32 ॥
इममार्षं स्तवं दिव्यमितिहासं पुरातनम् ॥ 33 ॥
लज्जयात्ववलीयन्तीस्वेषुगात्रेषुमैथिली ।
विभीषणेनानुगताभर्तारंसाभ्यवर्तत ॥ 34 ॥
विस्मयाच्छप्रहर्षाच्चस्नेहाच्चपतिदेवता ।
उदैक्षतमुखम्भर्तुःसौम्यंसौम्यतरानना ॥ 35 ॥
अथसमपनुदन्मनःक्लमंसासुचिरमदृष्टमुदीक्ष्यवैप्रियस्य ।
वदनमुदितचन्द्रपूर्णकान्तंविमलशशाङ्कनिभाननातदानीम् ॥ 36 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे सप्तदशाधिकशततमस्सर्गः ॥