View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.117 युद्धकांड - सप्तदशाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ सप्तदशाधिकशततमस्सर्गः ।

स उवाचमहाप्रामस्सोऽभिवाद्यप्लवंगमः ।
रामंवचनमर्थज्ञोवरंसर्वधनुष्मताम् ॥ 1 ॥

यन्निमित्तोऽयमारंबःकर्मणांयःफलोदयः ।
तांदेवींशोकसंतप्तांद्रष्टुमर्हसिमैथिलीम् ॥ 2 ॥

साहिशोकसमाविष्टाबाष्पपर्याकुलेक्षणा ।
मैथिलीविजयंश्रुत्वाद्रष्टुंत्वामभिकांक्षति ॥ 3 ॥

पूर्वकात्प्रत्ययाच्चाहमुक्तोविश्वस्तयातया ।
भर्तारंद्रष्टुमिच्छामिकृतार्थंसहलक्ष्मणम् ॥ 4 ॥

एवमुक्तोहनुमतारामोधर्मभृतांवरः ।
आगच्छत्सहसाध्यानमीषद्भाष्पपरिप्लुतः ॥ 5 ॥

दीर्घमुष्णंविनिःश्वस्यजगतीमवलोकयन् ।
उवाचमेघसंकाशंविभीषणमुपस्थितम् ॥ 6 ॥

दिव्यांगरागांवैदेहींदिव्याभरणभूषिताम् ।
इहसीतांशिरःस्नातामुपस्थापयमाचिरम् ॥ 7 ॥

एवमुक्तस्तुरामेणत्वरमाणोविभीषणः ।
प्रविश्यांतःपुरंसीतांस्त्रीभिस्स्वाभिरोचदयत् ॥ 8 ॥

ततस्सीतांमहाभागांदृष्टवोवाचविभीषणः ।
मूर्ध्निबद्धांजलिश्रीमान्विनीतोराक्षसेश्वरः ॥ 9 ॥

दिव्यांगरागावैदेहीदिव्याभरणभूषिता ।
यानमारोहभद्रंतेभर्तात्वांद्रष्टुमिच्छति ॥ 10 ॥

एवमुक्तातुवैदेहीप्रत्युवाचविभीषणम् ।
अस्नात्वाद्रष्टुमिच्छामिभर्तारंराक्षसेश्वर ॥ 11 ॥

तस्यास्तद्वचनंश्रुत्वाप्रत्युवाचविभीषणः ।
यथाहरामोभहर्तातेतत्तथाकर्तुमार्हसिमार्हसि ॥ 12 ॥

तस्यतद्वचनंश्रुत्वामैथिलीपतिदेवता ।
भर्तृभक्त्यावृतासाध्वीतथेतिप्रत्यभाषत ॥ 13 ॥

ततस्सीतांशिरःस्नातांसंयुक्तांप्रतिकर्मणा ।
महार्हाभरणोपेतांमहार्हांबरधारिणीम् ॥ 14 ॥

आरोप्यशिबिकांदीप्तांपरार्घ्यांबरसम्वृताम् ।
राक्षसैर्भहुभिर्गुप्तामाजहारविभीषणः ॥ 15 ॥

सोऽभिगम्यमहात्मानंज्ञातावपिध्यानमास्थितम् ।
प्रणतश्चप्रहृष्टश्चप्राप्तांसीतांन्यवेदयत् ॥ 16 ॥

तामागतामुपश्रुत्यरक्षोगृहचिरोषिताम् ।
हर्षोदैन्यंच रोषश्चत्रयंराघवमाविशत् ॥ 17 ॥

ततःपार्श्वगतंदृष्टवासविमर्शंविचारयन् ।
विभीषणमिदंवाक्यमहृष्टोराघवोऽब्रवीत् ॥ 18 ॥

राक्षसाधिपतेसौम्यनित्यंमद्विजयेरत ।
वैदेहीसंनिकर्षंमेशीघ्रंसमुपगच्छतु ॥ 19 ॥

तस्यतद्वचनंश्रुत्वाराघवस्यविभीषणः ।
तूर्णमुत्सारणंतत्रकारयामासधर्मवित् ॥ 20 ॥

कंचुकोष्णीषिणस्तत्रवेत्रजर्जरपाणयः ।
उत्सारयंतस्तान्योधान्समंतात् परिचक्रमुः ॥ 21 ॥

ऋक्षाणांवानराणां च राक्षसानां च सर्वशः ।
वृंदान्युत्सार्यमाणानिदूरमुत्तस्थुरंततः ॥ 22 ॥

तेषामुत्सार्यमाणानांनिःस्वनःसुमहानभूत् ।
वायुनोद्धूयामानस्यसागरस्येवनिःस्वनः ॥ 23 ॥

उत्सार्यमाणान् दृष्टवाथजगत्यांजातसंभ्रमान् ।
दाक्षिण्यात्तदमर्षाच्चवारयामासराघवः ॥ 24 ॥

संरंबश्चाब्रवीद्रामश्चक्षुषाप्रदहन्निव ।
विभीषणंमहाप्राज्ञंसोपालंबमिदंवचः ॥ 25 ॥

किमर्थंमामनादृत्यक्लिश्यतेऽयंत्वयाजनः ।
निवर्तयैनमुद्योगंजनोऽयंस्वजनोमम ॥ 26 ॥

न गृहाणि न वस्त्राणि न प्राकारास्तिरस्क्रिया ।
नेदृशाराजसत्कारावृत्तमावरणंस्त्रियाः ॥ 27 ॥

व्यसनेषु न कृच्छ्रेषु न युद्धेषुस्वयंवरे ।
न क्रतौनोविवाहेवादर्शनंदूष्यतेस्त्रियाः ॥ 28 ॥

सैषाविपद्गताचैवकृच्छ्रेव च महतिस्थिता ।
दर्शनेनास्तिदोषोऽस्यामत्समीपेविशेषतः ॥ 29 ॥

विसृज्यशिबिकांतस्मात्पद्भ्यामेवोपसर्पतु ।
समीपेममवैदेहींपश्यंत्वेतेवनौकसः ॥ 30 ॥

एवमुक्तस्तुरामेणसविमर्शोविभीषणम् ।
रामस्योपानयसतीतांसन्निकर्षंविनीतवत् ॥ 31 ॥

ततोलक्ष्मणसुग्रीवौहनूमांश्चप्लवंगमः ।
निशम्यवाक्यंरामस्यबभूवुर्व्यथिताभृशम् ॥ 32 ॥

इममार्षं स्तवं दिव्यमितिहासं पुरातनम् ॥ 33 ॥

लज्जयात्ववलीयंतीस्वेषुगात्रेषुमैथिली ।
विभीषणेनानुगताभर्तारंसाभ्यवर्तत ॥ 34 ॥

विस्मयाच्छप्रहर्षाच्चस्नेहाच्चपतिदेवता ।
उदैक्षतमुखंभर्तुःसौम्यंसौम्यतरानना ॥ 35 ॥

अथसमपनुदन्मनःक्लमंसासुचिरमदृष्टमुदीक्ष्यवैप्रियस्य ।
वदनमुदितचंद्रपूर्णकांतंविमलशशांकनिभाननातदानीम् ॥ 36 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे सप्तदशाधिकशततमस्सर्गः ॥




Browse Related Categories: