View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.98 युद्धकाण्ड - अष्टनवतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ अष्टनवतितमस्सर्गः ।

हन्यमानेबलेतूर्णमन्योन्यन्तेमहामृथे ।
सरसीवमहाघर्मेसोपक्षीणेबभूवतुः ॥ 1 ॥

स्वबलस्यविघातेनविरूपाक्ष्वधेन च ।
बभूवद्विगुणङ्क्रुद्धोरावणोराक्षसाधिपः ॥ 2 ॥

प्रक्षीणन्तुबलन्दृष्टवावध्यमानंवलीमुखैः ।
बभूवास्यव्यथायुद्धेप्रेक्ष्यदैवविपर्ययम् ॥ 3 ॥

उवाच च समीपस्थम्महोदरमरिन्दमम् ।
अस्मिन्कालेमहाबाहोजयाशात्वयिमेस्थिता ॥ 4 ॥

जहिशत्रुचमूंवीरदर्शयाद्यपराक्रमम् ।
भर्तृपिण्डस्यकालोऽऽयन्निर्देष्टुंसाधुयुध्यताम् ॥ 5 ॥

वेगन् चक्रे महाबाहुः समुद्र इव पर्वणि ।
आयसं परिघन् गृह्य सूर्यरश्मिसमप्रभम् ॥ 6 ॥

ततस्सकदनञ्चक्रेवानराणाम्महाबलः ।
भर्तृवाक्येनतेजस्वीस्वेनवीर्येणचोदितः ॥ 7 ॥

वानराश्चमहासत्त्वाःप्रगृह्वःविपुलाशशिलाः ।
प्रविश्यारिबलम्भीमञ्जघ्नुस्तेरजनीचरान् ॥ 8 ॥

महोदरस्तुसङ्कृद्धश्शरैःकाञ्चनभूषणैः ।
चिच्छेदपाणिपादोरुन्वानराणाम्महाहवे ॥ 9 ॥

ततस्तेवानरास्सर्वेराक्षसैरर्दिताभृशम् ।
दिशोदशद्रुताःकेचित्केचित्सुग्रीवमाश्रिताः ॥ 10 ॥

प्रभग्नांसमरेदृष्टवावानराणाम्महाचमूम् ।
अभिदुद्रावसुग्रीवोमहोदरमनन्तरम् ॥ 11 ॥

प्रगृह्यविपुलाङ्घोराम्महीधरसमांशिलाम् ।
चिक्षेप स महातेजास्तद्वधायहरीश्वरः ॥ 12 ॥

तामापततनींसहसाशिलान्दृष्टवामहोदरः ।
असम्भ्रान्तस्ततोबाणैर्निर्बिभेददुरासदाम् ॥ 13 ॥

रक्षसातेनबाणौघैर्निकृत्तासासहस्रधा ।
निपपातशिलाभूमौगृध्रचक्रमिवाकुलम् ॥ 14 ॥

तान्तुभिन्नांशिलान्दृष्टवासुग्रीवःक्रोधमूर्छितः ।
सालमुत्पाट्यचिक्षेपराक्षसेरणमूर्थनि ॥ 15 ॥

शरैश्चविददारैनंशूरःपरपुरञ्जयः ।
स ददर्शततःक्रुद्धःपरिघम्पतितम्भुवि ॥ 16 ॥

आविध्यतु स तन्दीप्तम्परिघन्तस्यदर्शयन् ।
परिघाग्रेणवेगेनजघानास्यहयोत्तमान् ॥ 17 ॥

तस्माद्धतहयावदीरःसोऽऽवप्लुत्यमहारथात् ।
गदाञ्जग्राहसङ्क्रुद्धोराक्षसोऽऽथमहोदरः ॥ 18 ॥

गदापरिघहस्तौतौयुधिवीरौसमीयतुः ।
नर्दन्तौगोवृषप्रख्यौघनाविवसविद्युतौ ॥ 19 ॥

ततःक्रुद्धोगदान्तस्यैचिक्षेपरजनीचरः ।
ज्वलतनीम्भास्कराभासांसुग्रीवायमहोदरः ॥ 20 ॥

गदान्तांसुमहाघोरामापततनीम्महाबलः ।
सुग्रीवोरोषताम्राक्षस्समुद्यम्यमहाहवे ॥ 21 ॥

आजघानगदान्तस्यपरिघेणहरीश्वर ।
पपात स गदोद्भिन्नःपरिघस्तस्यभूतले ॥ 22 ॥

ततोजग्राहतेजस्वीसुग्रीवोवसुधातलात् ।
आयसम्मुसलङ्घोरंसर्वतोहेमभूषितम् ॥ 23 ॥

स तमुद्यम्यचिक्षेपसोऽऽप्यन्यांव्याक्षिपद्गदाम् ।
भिन्नावन्योन्यमासाद्यपेततुद्दरणीतले ॥ 24 ॥

ततोग्नप्रहरणौमुष्टिभ्यान्तौसमीयतुः ।
तेजोबलसमाविष्टौदीप्ताविवहुताशनौ ॥ 25 ॥

जघ्नतुस्तौतदान्योन्यंवेदतुश्चपुनःपुनः ।
तलैश्चान्योन्यमहत्यपेततुश्चमहीतले ॥ 26 ॥

उत्पेततुस्ततस्तूर्णञ्जघ्नतुश्चपरस्परम् ।
भुजैश्चिक्षिपतुर्वीरावन्योन्यमपराजितौ ॥ 27 ॥

जग्मतुस्तौश्रमंवीरौबाहुयुधेपरन्तपौ ।
अजहारतदाखडगमदूरपरिवर्तिनम् ॥ 28 ॥

राक्षसश्चर्मणासार्धम्महावेगोमहोदरः ।
थैव च महाखडगञ्चर्मणापतितंसह ॥ 29 ॥

जग्राहवानरश्रेष्ठस्सुग्रीवोवेगवत्तरः ।
तौतुरोषपरीताङ्गौनर्दन्तावभ्यधावताम् ॥ 30 ॥

उद्यतासीरणेहृष्टावुभौशस्त्रविशारदौ ।
दक्षिणम्मण्डलञ्चोभौसुतूर्णंसम्परीयतुः ॥ 31 ॥

अन्योन्यमभिसङ्कृद्धौ जये प्रणिहितावुभौ ।
तुशूरोमहावेगोवीर्यश्लाघीमहोदरः ॥ 32 ॥

महाचर्मणितङ्खडगम्पातयामासदुर्मतिः ।
लग्नमुत्कर्षतःखडगङ्खडगेनकपिकुञ्जरः ॥ 33 ॥

जहारसशिरस्त्राणङ्कुण्डलोपहितंशिरः ।
निकृत्तशिरसस्तस्यपतितस्यमहीतले ॥ 34 ॥

तद्बलंराक्षसेन्द्रस्यदृष्टवातत्र न तिष्टते ।
हत्वान्तंवानरैस्सार्धन्ननादमुदितोहरिः ॥ 35 ॥

चुक्रोध च दशग्रीवोबभौहृष्टश्चराघवः ।
विषण्णवदनास्सर्वेराक्षसादीनचेतसः ॥ 36 ॥

विद्रवन्तिततस्सर्वेभयवित्रस्तचेतसः ।
महोदरन्तन्न्वीपात्यभूमौमहागिरेःकीर्णमिवैकदेशम् ।
सूर्यात्मजस्तत्ररराजलक्ष्म्यसूर्यस्स्वतेजोभिरिवाप्रधृष्यः ॥ 37 ॥

अथविजयमवाप्यवानरेन्द्रस्समरमुखेसुरसिद्धयक्षसङ्घै ।
अन्वितलगतैश्चभूतसङ्घैर्हर्षरुषसमाकुलितैस्तुतोमहात्मा ॥ 38 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे अष्टनवतितमस्सर्गः ॥




Browse Related Categories: