श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ एकोनत्रिंशस्सर्गः ।
एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिता ।
प्रसक्ताश्रुमुखी मन्दमिदं वचनमब्रवीत् ॥ 1 ॥
ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति ।
गुणानित्येव तान्विद्धि तव स्नेहपुरस्कृतान् ॥ 2 ॥
मृगा स्सिंहा गजाश्चैव शार्दूला श्शरभास्तथा ।
पक्षिण स्सृमराश्चैव ये चान्ये वनचारिणः ॥ 3 ॥
अदृष्टपूर्वरूपत्वात्सर्वे ते तव राघव ।
रूपं दृष्ट्वाऽपसर्पेयुर्भये सर्वे हि बिभ्यति ॥ 4 ॥
त्वया च सह गन्तव्यं मया गुरुजनाज्ञया ।
त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम् ॥ 5 ॥
न हि मां त्वत्समीपस्थामपि शक्नोतिराघव ।
सुराणामीश्वर श्शक्रः प्रधर्षयितुमोजसा ॥ 6 ॥
पतिहीना तु या नारी न सा शक्ष्यति जीवितुम् ।
काममेवं विधं राम त्वया मम निदर्शितम् ॥ 7 ॥
अथ चापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम् ।
पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने ॥ 8 ॥
लक्षणिभ्यो द्विजातिभ्य श्शृत्वाऽहं वचनं पुरा ।
वनवासकृतोत्साहा नित्यमेव महाबल ॥ 9 ॥
आदेशो वनवासस्य प्राप्तव्य स्स मया किल ।
सा त्वया सह तत्राहं यास्यामि प्रिय नान्यथा ॥ 10 ॥
कृतादेशा भविष्यामि गमिष्यामि सह त्वया ।
कालश्चायं समुत्पन्न स्सत्यवाग्भवतु द्विजः ॥ 11 ॥
वनवासेऽभिजानामि दुःखानि बहुथा किल ।
प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः ॥ 12 ॥
कन्यया च पितुर्गेहे वनवास श्शृतो मया ।
भिक्षिण्या स्साधुवृत्ताया मम मातुरिहाग्रतः ॥ 13 ॥
प्रसादितश्च वै पूर्वं त्वं मे बहुतिथं प्रभो ।
गमनं वनवासस्य काङ्क्षितं हि सह त्वया ॥ 14 ॥
कृतक्षणाऽहं भद्रं ते गमनं प्रति राघव ।
वनवासस्य शूरस्य चर्या हि मम रोचते ॥ 15 ॥
शुद्धात्मन्प्रेमभावाध्दि भविष्यामि विकल्मषा ।
भर्तारमनुगच्छन्ती भर्ता हि मम दैवतम् ॥ 16 ॥
प्रेत्यभावे हि कल्याण स्सङ्गमो मे सह त्वया ।
श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम् ॥ 17 ॥
इहलोके च पितृभिर्या स्त्री यस्य महामते ।
अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा ॥ 18 ॥
एवमस्मात्स्वकां नारीं सुवृत्तां हि पतिव्रताम् ।
नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना ॥ 19 ॥
भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः ।
नेतुमर्हसि काकुत्स्थ समान सुखदुःखिनीम् ॥ 20 ॥
ययदि मां दुःखितामेवं वनं नेतुं न चेच्छसि ।
विषमग्निं जलं वाऽहमास्थास्ये मृत्युकारणात् ॥ 21 ॥
एवं बहुविधं तं सा याचते गमनं प्रति ।
नानुमेने महाबाहुस्तां नेतुं विजनं वनम् ॥ 22 ॥
एवमुक्ता तु सा चिन्तां मैथिली समुपागता ।
स्नापयन्तीव गामुष्णैरश्रुभिर्नयनच्युतैः ॥ 23 ॥
चिन्तयन्तीं तथा तां तु निवर्तयितुमात्मवान् ।
ताम्रोष्ठीं स तदा सीतां काकुत्स्थो बह्वसान्त्वयत् ॥ 24 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे एकोनत्रिंशस्सर्गः ॥