View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

3.26 अरण्यकाण्ड - षड्विंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ षड्विंशस्सर्गः ।

दूषणस्तु स्वकं सैन्यं हन्यमानं निरीक्ष्य सः ।
सन्दिदेश महाबाहुर्भीमवेगान्दुरासदान् ॥ 1 ॥

राक्षसान्पञ्चसहस्रान्समरेष्वनिवर्तिनः ।
ते शूलैः पट्टिशैः खङ्गै शिलावर्षैर्द्रुमैरपि ॥ 2 ॥

शरवर्षैरविच्छिन्नं ववर्षुस्तं समन्ततः ।
स दृमाणां शिलानां च वर्षं प्राणहरं महत् ॥ 3 ॥

प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः ।
प्रतिगृह्य च तद्वर्षं निमीलित इवर्षभः ॥ 4 ॥

रामः क्रोधं परं भेजे वधार्थं सर्वरक्षसाम् ।
ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा ॥ 5 ॥

शरैरवाकिरत्सैन्यं सर्वतस्सहदूषणम् ।
ततस्सेनापतिः क्रुद्धो दूषणश्शत्रुदूषणः ॥ 6 ॥

शरैरशनिकल्पैस्तं राघवं समवाकिरत् ।
ततो रामस्सुसङ्कृद्धः क्षुरेणास्य महद्धनुः ॥ 7 ॥

चिच्छेद समरे वीरश्चतुर्भिश्चतुरो हयान् ।
हत्वा चाश्वान्शरैस्तीक्ष्णैरर्धचन्द्रेण सारथेः ॥ 8 ॥

शिरो जहार तद्रक्षस्त्रिभिर्विव्याध वक्षसि ।
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ॥ 9 ॥

जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम् ।
वेष्टितं काञ्चनैः पट्टैर्देवसैन्यप्रमर्दनम् ॥ 10 ॥

आयसैश्शङ्कुभिस्तीक्ष्णैः कीर्णं परवसोक्षितम् ।
वज्राशनिसमस्पर्शं परगोपुरदारणम् ॥ 11 ॥

तं महोरगसङ्काशं प्रगृह्य परिघं रणे ।
दूषणोऽभ्यद्रवद्रामं क्रूरकर्मा निशाचरः ॥ 12 ॥

तस्याभिपतमानस्य दूषणस्य स राघवः ।
द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ ॥ 13 ॥

भ्रष्टस्तस्य महाकायः पपात रणमूर्धनि ।
परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः ॥ 14 ॥

स कराभ्यां विकीर्णाभ्यां पपात भुवि दूषणः ।
विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः ॥ 15 ॥

तं दृष्ट्वा पतितं भूमौ दूषणं निहतं रणे ।
साधुसाध्विति काकुत्स्थं सर्वभूतान्यपूजयन् ॥ 16 ॥

एतस्मिन्नन्तरे क्रुद्धास्त्रयः सेनाग्रयायिनः ।
संहृत्याभ्यद्रवन् रामं मृत्युपाशावपाशिताः ॥ 17 ॥

महाकपालः स्थूलाक्षः प्रमाथी च महाबलः ।
महाकपालो विपुलं शूलमुद्यम्य राक्षसः ॥ 18 ॥

स्थूलाक्षः पट्टिसं गृह्य प्रमाथी च परश्वधम् ।
दृष्ट्वैवापततस्तूर्णं राघवस्सायकैश्शितैः ॥ 19 ॥

तीक्ष्णाग्रैः प्रतिजग्राह सम्प्राप्तानतिथीनिव ।
महाकपालस्य शिरश्चिच्छेद परमेषुभिः ॥ 20 ॥

असङ्ख्येयैस्तु बाणौघैः प्रममाथ प्रमाथिनम् ।
स पपात हतो भूमौ विटपीव महाद्रुमः ॥ 21 ॥

स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयामास सायकैः ।
दूषणस्यानुगान्पञ्चसहस्रान्कुपितः क्षणात् ॥ 22 ॥

बाणौघैः पञ्चसाहस्रैरनयद्यमसादनम् ।
दूषणं निहतं दृष्ट्वा तस्य चैव पदानुगान् ॥ 23 ॥

व्यादिदेश खरः क्रुद्धः सेनाध्यक्षान्महाबलान् ।
अयं विनिहतस्सङ्ख्ये दूषणस्सपदानुगः ॥ 24 ॥

महत्या सेनया सार्धं युद्ध्वा रामं कुमानुषम् ।
शस्त्रैर्नानाविधाकारैर्हनध्वं सर्वराक्षसाः ॥ 25 ॥

एवमुक्त्वा खरः क्रुद्धो राममेवाभिदुद्रुवे ।
श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहङ्गमः ॥ 26 ॥

दुर्जयः करवीराक्षः परुषः कालकार्मुकः ।
मेघमाली महामाली सर्पास्यो रुधिराशनः ॥ 27 ॥

द्वादशैते महावीर्या बलाध्यक्षास्ससैनिकाः ।
राममेवाभ्यधावन्त विसृजन्तश्शरोत्तमान् ॥ 28 ॥

ततः पावकसङ्काशैर्हेमवज्रविभूषितैः ।
जघान शेषं तेजस्वी तस्य सैन्यस्य सायकैः ॥ 29 ॥

ते रुक्मपुङ्खा विशिखास्सधूमा इव पावकाः ।
निजघ्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान् ॥ 30 ॥

रक्षसां तु शतं रामश्शतेनैकेन कर्णिना ।
सहस्रं च सहस्रेण जघान रणमूर्धनि ॥ 31 ॥

तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः ।
निपेतुश्शोणितादिग्धा धरण्यां रजनीचराः ॥ 32 ॥

तैर्मुक्तकेशैस्समरे पतितैश्शोणितोक्षितैः ।
आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव ॥ 33 ॥

क्षणेन तु महाघोरं वनं निहतराक्षसम् ।
बभूव निरयप्रख्यं मांसशोणितकर्दमम् ॥ 34 ॥

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ।
हतान्येकेन रामेण मानुषेण पदातिना ॥ 35 ॥

तस्य सैन्यस्य सर्वस्य खरश्शेषो महारथः ।
राक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः ॥ 36 ॥

शेषा हता महासत्वा राक्षसा रणमूर्धनि ।
घोरा दुर्विषहाः सर्वे लक्ष्मणस्याग्रजेन ते ॥ 37 ॥

ततस्तु तद्भीमबलं महाहवे समीक्ष्य रामेण हतं बलीयसा ।
रथेन रामं महता खरस्तदा समाससादेन्द्र इवोद्यताशनिः ॥ 38 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे षड्विंशस्सर्गः ॥




Browse Related Categories: