View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.26 अरण्यकांड - षड्विंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ षड्विंशस्सर्गः ।

दूषणस्तु स्वकं सैन्यं हन्यमानं निरीक्ष्य सः ।
संदिदेश महाबाहुर्भीमवेगांदुरासदान् ॥ 1 ॥

राक्षसान्पंचसहस्रान्समरेष्वनिवर्तिनः ।
ते शूलैः पट्टिशैः खंगै शिलावर्षैर्द्रुमैरपि ॥ 2 ॥

शरवर्षैरविच्छिन्नं ववर्षुस्तं समंततः ।
स दृमाणां शिलानां च वर्षं प्राणहरं महत् ॥ 3 ॥

प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः ।
प्रतिगृह्य च तद्वर्षं निमीलित इवर्षभः ॥ 4 ॥

रामः क्रोधं परं भेजे वधार्थं सर्वरक्षसाम् ।
ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा ॥ 5 ॥

शरैरवाकिरत्सैन्यं सर्वतस्सहदूषणम् ।
ततस्सेनापतिः क्रुद्धो दूषणश्शत्रुदूषणः ॥ 6 ॥

शरैरशनिकल्पैस्तं राघवं समवाकिरत् ।
ततो रामस्सुसंकृद्धः क्षुरेणास्य महद्धनुः ॥ 7 ॥

चिच्छेद समरे वीरश्चतुर्भिश्चतुरो हयान् ।
हत्वा चाश्वान्शरैस्तीक्ष्णैरर्धचंद्रेण सारथेः ॥ 8 ॥

शिरो जहार तद्रक्षस्त्रिभिर्विव्याध वक्षसि ।
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ॥ 9 ॥

जग्राह गिरिशृंगाभं परिघं रोमहर्षणम् ।
वेष्टितं कांचनैः पट्टैर्देवसैन्यप्रमर्दनम् ॥ 10 ॥

आयसैश्शंकुभिस्तीक्ष्णैः कीर्णं परवसोक्षितम् ।
वज्राशनिसमस्पर्शं परगोपुरदारणम् ॥ 11 ॥

तं महोरगसंकाशं प्रगृह्य परिघं रणे ।
दूषणोऽभ्यद्रवद्रामं क्रूरकर्मा निशाचरः ॥ 12 ॥

तस्याभिपतमानस्य दूषणस्य स राघवः ।
द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ ॥ 13 ॥

भ्रष्टस्तस्य महाकायः पपात रणमूर्धनि ।
परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः ॥ 14 ॥

स कराभ्यां विकीर्णाभ्यां पपात भुवि दूषणः ।
विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः ॥ 15 ॥

तं दृष्ट्वा पतितं भूमौ दूषणं निहतं रणे ।
साधुसाध्विति काकुत्स्थं सर्वभूतान्यपूजयन् ॥ 16 ॥

एतस्मिन्नंतरे क्रुद्धास्त्रयः सेनाग्रयायिनः ।
संहृत्याभ्यद्रवन् रामं मृत्युपाशावपाशिताः ॥ 17 ॥

महाकपालः स्थूलाक्षः प्रमाथी च महाबलः ।
महाकपालो विपुलं शूलमुद्यम्य राक्षसः ॥ 18 ॥

स्थूलाक्षः पट्टिसं गृह्य प्रमाथी च परश्वधम् ।
दृष्ट्वैवापततस्तूर्णं राघवस्सायकैश्शितैः ॥ 19 ॥

तीक्ष्णाग्रैः प्रतिजग्राह संप्राप्तानतिथीनिव ।
महाकपालस्य शिरश्चिच्छेद परमेषुभिः ॥ 20 ॥

असंख्येयैस्तु बाणौघैः प्रममाथ प्रमाथिनम् ।
स पपात हतो भूमौ विटपीव महाद्रुमः ॥ 21 ॥

स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयामास सायकैः ।
दूषणस्यानुगान्पंचसहस्रान्कुपितः क्षणात् ॥ 22 ॥

बाणौघैः पंचसाहस्रैरनयद्यमसादनम् ।
दूषणं निहतं दृष्ट्वा तस्य चैव पदानुगान् ॥ 23 ॥

व्यादिदेश खरः क्रुद्धः सेनाध्यक्षान्महाबलान् ।
अयं विनिहतस्संख्ये दूषणस्सपदानुगः ॥ 24 ॥

महत्या सेनया सार्धं युद्ध्वा रामं कुमानुषम् ।
शस्त्रैर्नानाविधाकारैर्हनध्वं सर्वराक्षसाः ॥ 25 ॥

एवमुक्त्वा खरः क्रुद्धो राममेवाभिदुद्रुवे ।
श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहंगमः ॥ 26 ॥

दुर्जयः करवीराक्षः परुषः कालकार्मुकः ।
मेघमाली महामाली सर्पास्यो रुधिराशनः ॥ 27 ॥

द्वादशैते महावीर्या बलाध्यक्षास्ससैनिकाः ।
राममेवाभ्यधावंत विसृजंतश्शरोत्तमान् ॥ 28 ॥

ततः पावकसंकाशैर्हेमवज्रविभूषितैः ।
जघान शेषं तेजस्वी तस्य सैन्यस्य सायकैः ॥ 29 ॥

ते रुक्मपुंखा विशिखास्सधूमा इव पावकाः ।
निजघ्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान् ॥ 30 ॥

रक्षसां तु शतं रामश्शतेनैकेन कर्णिना ।
सहस्रं च सहस्रेण जघान रणमूर्धनि ॥ 31 ॥

तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः ।
निपेतुश्शोणितादिग्धा धरण्यां रजनीचराः ॥ 32 ॥

तैर्मुक्तकेशैस्समरे पतितैश्शोणितोक्षितैः ।
आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव ॥ 33 ॥

क्षणेन तु महाघोरं वनं निहतराक्षसम् ।
बभूव निरयप्रख्यं मांसशोणितकर्दमम् ॥ 34 ॥

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ।
हतान्येकेन रामेण मानुषेण पदातिना ॥ 35 ॥

तस्य सैन्यस्य सर्वस्य खरश्शेषो महारथः ।
राक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः ॥ 36 ॥

शेषा हता महासत्वा राक्षसा रणमूर्धनि ।
घोरा दुर्विषहाः सर्वे लक्ष्मणस्याग्रजेन ते ॥ 37 ॥

ततस्तु तद्भीमबलं महाहवे समीक्ष्य रामेण हतं बलीयसा ।
रथेन रामं महता खरस्तदा समाससादेंद्र इवोद्यताशनिः ॥ 38 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे षड्विंशस्सर्गः ॥




Browse Related Categories: