श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ चतुःपञ्चाशस्सर्गः ।
ह्रियमाणा तु वैदेही कञ्चिन्नाथमपश्यती ।
ददर्श गिरिशृङ्गस्थान्पञ्च वानरपुङ्गवान् ॥ 1 ॥
तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् ।
उत्तरीयं वरारोहा शुभान्याभरणानि च ॥ 2 ॥
मुमोच यदि रामाय शंसेयुरिति मैथिली ।
वस्त्रमुत्सृज्य तन्मध्ये निक्षिप्तं सहभूषणम् ॥ 3 ॥
सम्भ्रमात्तु दशग्रीवस्तत्कर्म न स बुद्धवान् ।
पिङ्गाक्षास्तां विशालाक्षीं नेत्रैरनिमिषैरिव ॥ 4 ॥
विक्रोशन्तीं तथा सीतां ददृशुर्वानरर्षभाः ।
स च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम् ॥ 5 ॥
जगाम रुदतीं गृह्य वैदेहीं राक्षसेश्वरः ।
तां जहार सुसंहृष्टो रावणो मृत्युमात्मनः ॥ 6 ॥
उत्सङ्गेनेव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम् ।
वनानि सरितश्शैलान्त्सरांसि च विहायसा ॥ 7 ॥
स क्षिप्रं समतीयाय शरश्चापादिव च्युतः ।
तिमिनक्रनिकेतं तु वरुणालयमक्षयम् ॥ 8 ॥
सरितां शरणं गत्वा समतीयाय सागरम् ।
सम्भ्रमात्परिवृत्तोर्मी रुद्धमीनमहोरगः ॥ 9 ॥
वैदेह्यां ह्रियमाणायां बभूव वरुणालयः ।
अन्तरिक्षगता वाचस्ससृजुश्चारणास्तदा ॥ 10 ॥
एतदन्तो दशग्रीव इति सिद्धास्तदाब्रुवन् ।
स तु सीतां विवेष्टन्तीमङ्केनादाय रावणः ॥ 11 ॥
प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः ।
सोऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम् ॥ 12 ॥
संरूढकक्ष्याबहुलं स्वमन्तःपुरमाविशत् ।
तत्र तामसितापाङ्गां शोकमोहपरायणाम् ॥ 13 ॥
निदधे रावणस्सीतां मयो मायामिवस्त्रियम् ।
अब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः ॥ 14 ॥
यथा नेमां पुमान् स्त्री वा सीतां पश्यत्यसम्मतः ।
मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च ॥ 15 ॥
यद्यदिच्छेत्तदेवास्या देयं मच्छन्दतो यथा ।
या च वक्ष्यति वैदेहीं वचनं किञ्चिदप्रियम् ॥ 16 ॥
अज्ञानाद्यदि वा ज्ञानान्न तस्या जीवितं प्रियम् ।
तथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान् ॥ 17 ॥
निष्क्रम्यान्तः पुरात्तस्मात्किङ्कृत्यमिति चिन्तयन् ।
ददर्शाष्टौ महावीर्यान्राक्षसान्पिशिताशनान् ॥ 18 ॥
स तान्दृष्ट्वा महावीर्यो वरदानेन मोहितः ।
उवाचैतानिदं वाक्यं प्रशस्य बलवीर्यतः ॥ 19 ॥
नानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः ।
जनस्थानं हतस्थानं भूतपूर्वं खरालयम् ॥ 20 ॥
तत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे ।
पौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः ॥ 21 ॥
बलं हि सुमहद्यन्मे जनस्थाने निवेशितम् ।
सदूषणखरं युद्धे हतं रामेण सायकैः ॥ 22 ॥
तत क्रोधो ममामर्षाद्धैर्यस्योपरि वर्तते ।
वैरं च सुमहज्जातं रामं प्रति सुदारुणम् ॥ 23 ॥
निर्यातयितुमिच्छामि तच्च वैरमहं रिपोः ।
न हि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम् ॥ 24 ॥
तं त्विदानीमहं हत्वा खरदूषणघातिनम् ।
रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः ॥ 25 ॥
जनस्थाने वसद्भिस्तु भवद्भीराममाश्रिता ।
प्रवृत्तिरुपनेतव्या किञ्करोतीति तत्त्वतः ॥ 26 ॥
अप्रमादाच्च गन्तव्यं सर्वैरपि निशाचरैः ।
कर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति ॥ 27 ॥
युष्माकं च बलज्ञोऽहं बहुशो रणमूर्धनि ।
अतश्चास्मिन् जनस्थाने मया यूयं नियोजिताः ॥ 28 ॥
ततः प्रियं वाक्यमुपेत्य राक्षसा महार्थमष्टावभिवाद्य रावणम् ।
विहाय लङ्कां सहिताः प्रतस्थिरे यतो जनस्थानमलक्ष्यदर्शनाः ॥ 29 ॥
ततस्तु सीतामुपलभ्य रावणः सुसम्प्रहृष्टः परिगृह्य मैथिलीम् ।
प्रसज्य रामेण च वैरमुत्तमं बभूव मोहान्मुदितस्सराक्षसः ॥ 30 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे चतुःपञ्चाशस्सर्गः ॥