श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ पञ्चदशस्सर्गः ।
अथ तस्य निनादं तं सुग्रीवस्य महात्मनः ।
शुश्रावान्तः पुर गतो वाली भ्रातुरमर्षणः ॥ 1 ॥
श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम् ।
मदश्चैकपदे नष्टः क्रोधश्चापतितो महान् ॥ 2 ॥
स तु रोषपरीताङ्गो वाली सन्ध्याकनकप्रभः ।
उपरक्त इवादित्यस्सद्यो निष्प्रभतां गतः ॥ 3 ॥
वाली दंष्ट्रा करालः तु क्रोधाद् दीप्त अग्नि लोचनः ।
भाति उत्पतित पद्माभः समृणाल इव ह्रदः ॥ 4 ॥
शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः ।
वेगेन चरणन्यासैर्दारयन्निव मेदिनीम् ॥ 5 ॥
तं तु तारा परिष्वज्य स्नेहाद्दर्शितसौहृदाः ।
उवाच त्रस्तसम्भ्रान्ता हितोदर्कमिदं वचः ॥ 6 ॥
साधु क्रोधमिमं वीर नदीवेगमिवागतम् ।
शयनादुत्थितः काल्यं त्यज भुक्तामिव स्रजम् ॥ 7 ॥
काल्यमेतेन सङ्ग्रामं करिष्यसि च वानर ।
वीर ते शत्रुबाहुल्यं फल्गुता वा न विद्यते ॥ 8 ॥
सहसा तव निष्क्रामो मम तावन्न रोचते ।
श्रूयतां चाभिधास्यामि यन्निमित्तं निवार्यसे ॥ 9 ॥
पूर्वमापतितः क्रोधात्स त्वामाह्वयते युधि ।
निष्पत्य च निरस्तस्ते हन्यमानो दिशो गतः ॥ 10 ॥
त्वया तस्य निरस्तस्य पीडितस्य विशेषतः ।
इहैत्य पुनराह्वानं शङ्कां जनयतीव मे ॥ 11 ॥
दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः ।
निनादश्चापि संरम्भो नैतदल्पं हि कारणम् ॥ 12 ॥
नासहायमहं मन्ये सुग्रीवं तमिहागतम् ।
अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति ॥ 13 ॥
प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः ।
अपरीक्षितवीर्येण सुग्रीवस्सहनैष्यति ॥ 14 ॥
पूर्वमेव मया वीर श्रुतं कथयतो वचः ।
अङ्गदस्य कुमारस्य वक्ष्यामित्वा हितं वचः ॥ 15 ॥
अङ्गदस्तु कुमारोऽयं वनान्तमुपनिर्गतः ।
प्रवृत्तिस्तेन कथिता चारै राप्तैर्निवेदिता ॥ 16 ॥
अयोध्याधिपतेः पुत्रौ शूरौ समरदुर्जयौ ।
इक्ष्वाकूणां कुले जातौ प्रथितौ रामलक्ष्मणौ ॥ 17 ॥
सुग्रीवप्रियकामार्थं प्राप्तौ तत्र दुरासदौ ।
तव भ्रातुर्हि विख्यातस्सहायो रणकर्कशः ।
रामः परबलामर्दी युगान्ताग्निरिवोत्थितः ॥ 18 ॥
निवासवृक्षः साधूनामापन्नानां परा गतिः ।
आर्तानां संश्रयश्चैव यशसश्चैकभाजनम् ॥ 19 ॥
ज्ञानविज्ञानसम्पन्नो निदेशे निरतः पितुः ।
धातूनामिव शैलेन्द्रो गुणानामाकरो महान् ॥ 20 ॥
तत्क्षमं न विरोधस्ते सह तेन महात्मना ।
दुर्जयेनाप्रमेयेन रामेण रणकर्मसु ॥ 21 ॥
शूर वक्ष्यामि ते किञ्चिन्न चेच्छाम्यभ्यसूयितुम् ।
श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम् ॥ 22 ॥
यौवराज्येन सुग्रीवं तूर्णं साध्वभिषेचय ।
विग्रहं मा कृथा वीर भ्रात्रा राजन्बलीयसा ॥ 23 ॥
अहं हि ते क्षमं मन्ये तेन रामेण सौहृदम् ।
सुग्रीवेण च सम्प्रीतिं वैरमुत्सृज्य दूरतः ॥ 24 ॥
लालनीयो हि ते भ्राता यवीयानेष वानरः ।
तत्र वा सन्निहस्थो वा सर्वथा बन्धुरेव ते ॥ 25 ॥
न हि तेन समं बन्धुं भुवि पश्यामि कञ्चन ॥ 26 ॥
दानमानादिसत्कारैः कुरुष्व प्रत्यनन्तरम् ।
वैरमेतत्समुत्सृज्य तव पार्श्वे स तिष्ठतु ॥ 27 ॥
सुग्रीवो विपुलग्रीवस्तवबन्धुस्सदा मतः ।
भ्रातृस्सौहृदमालम्ब नान्या गतिरिहास्ति ते ॥ 28 ॥
यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम् ।
याच्यमानः प्रयत्नेन साधु वाक्यं कुरुष्व मे ॥ 29 ॥
प्रसीद पथ्यं शृणु जल्पितं हि मे न रोष मेवानुविधातुमर्हसि ।
क्षमो हि ते कोसलराजसूनुना न विग्रहश्शक्रसमानतेजसा ॥ 30 ॥
तदा हि तारा हितमेव वाक्यं तं वालिनं पथ्यमिदं बभाषे ।
न रोचते तद्वचनं हि तस्य कालाभिपन्नस्य विनाशकाले ॥ 31 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे पञ्चदशस्सर्गः ॥