View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

4.46 किष्किन्धाकाण्ड - षट्चत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ षट्चत्वारिंशस्सर्गः ।

गतेषु वानरेन्द्रेषु रामस्सुग्रीवमब्रवीत् ।
कथं भवान्विजानीते सर्वं वै मण्डलं भुवः ॥ 1 ॥

सुग्रीवस्तु ततो राममुवाच प्रणतात्मवान् ।
श्रूयतां सर्वमाख्यास्ये विस्तरेण नरर्षभ ॥ 2 ॥

यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम् ।
परिकालयते वाली मलयं प्रति पर्वतम् ॥ 3 ॥

तदा विवेश महिषो मलयस्य गुहां प्रति ।
विवेश वाली तत्रापि मलयं तज्जिघांसया ॥ 4 ॥

ततोऽहं तत्र निक्षिप्तो गुहाद्वारि विनीतवत् ।
न च निष्क्रामते वाली तदा संवत्सरे गते ॥ 5 ॥

ततः क्षतजवेगेन आपुपूरे तदा बिलम् ।
तदहं विस्मितो दृष्ट्वा भ्रातृशोकविषार्दितः ॥ 6 ॥

अथाऽहं कृतबुद्धिस्तु सुव्यक्तं निहतो गुरुः ।
शिला पर्वतसङ्काशा बिलद्वारि मया कृता ॥ 7 ॥

अशक्नुव न्निष्क्रमितुं महिषो विनशेदिति ।
ततोऽहमागां किष्किन्धां निराशस्तस्य जीविते ॥ 8 ॥

राज्यं च सुमहत्प्राप्य तारया रुमया सह ।
मित्रैश्च सहितस्तत्र वसामि विगतज्वरः ॥ 9 ॥

आजगाम ततो वाली हत्वा तं दानवर्षभम् ।
ततोऽहमददां राज्यं गौरवाद्भययन्त्रितः ॥ 10 ॥

स मां जिघांसुर्दुष्टात्मा वाली प्रव्यथितेन्द्रियः ।
परिकालयते क्रोधाद्धावन्तं सचिवैस्सह ॥ 11 ॥

ततोऽहं वालिना तेन साऽनुबद्धः प्रधावितः ।
नदीश्च विविधाः पश्यन्वनानि नगराणि च ॥ 12 ॥

आदर्शतलसङ्काशा ततो वै पृथिवी मया ।
अलातचक्रप्रतिमा दृष्टा गोष्पदवत्तदा ॥ 13 ॥

पूर्वां दिशं ततो गत्वा पश्यामि विविधान् द्रुमान् ।
पर्वतन्श्च नदी रम्यास्सरांसि विविधानि च ॥ 14 ॥

उदयं तत्र पश्यामि पर्वतं धातुमण्डितम् ।
क्षीरोदं सागरं चैव नित्यमप्सरसालयम् ॥ 15 ॥

परिकालयमानस्तु वालिनाऽभिद्रुत स्तदा ।
पुनरावृत्य सहसा प्रस्थितोऽहं तदा विभो ॥ 16 ॥

पुनरावर्तमानस्तु वालिनाऽभिद्रुतोद्रुतम् ।
दिशस्तस्यास्ततो भूयः प्रस्थितो दक्षिणां दिशम् ।
विन्ध्यपादपसङ्कीर्णां चन्दनद्रुमशोभिताम् ॥ 17 ॥

द्रुमशैलांस्ततः पश्यन्भूयो दक्षिणतोऽपराम् ।
पश्चिमां च दिशं प्राप्ता वालिना समभिद्रुतः ॥ 18 ॥

सम्पश्यन्विविधान्देशानस्तं च गिरिसत्तमम् ।
प्राप्य चास्तं गिरिश्रेष्ठमुत्तरां सम्प्रधावितः ॥ 19 ॥

हिमवन्तं च मेरुं च समुद्रं च तथोत्तरम् ।
यदा न विन्दं शरणं वालिना समभिद्रुतः ॥ 20 ॥

तदा मां बुद्धिसम्पन्नो हनूमान्वाक्यमब्रवीत् ।
इदानीं मे स्मृतं राजन्यथा वाली हरीश्वरः ॥ 21 ॥

मतङ्गेन तदा शप्तो ह्यस्मिन्नाश्रममण्डले ।
प्रविशेद्यदि वै वाली मूर्धाऽस्य शतधा भवेत् ॥ 22 ॥

तत्र वासस्सुखोऽस्माकं निरुद्विग्नो भविष्यति ।
ततः पर्वतमासाद्य ऋष्यमूकं नृपात्मज ॥ 23 ॥

न विवेश तदा वाली मतङ्गस्य भयात्तदा ।
एवं मया तदा राजन्प्रत्यक्षमुपलक्षितम् ॥ 24 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे षट्चत्वारिंशस्सर्गः ॥




Browse Related Categories: