श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ विंशत्यधिकशततमस्सर्गः ।
ततोहिदुर्मनाराम्श्रुत्वैवंवदतांगिरः ।
दध्यौमुहूर्तंधर्मात्माबाष्पव्याकुललोचनः ॥ 1 ॥
ततोवैश्रवणोराजायमश्चपितृभिःसह ।
सहस्राक्षश्चदेवेशोवरुणश्चजलेश्वरः ॥ 2 ॥
षडर्धनयन्श्रीमान्महादेवोवृषध्वजः ।
कर्तासर्वस्यलोकस्यब्रह्माब्रह्मविदांवरः ॥ 3 ॥
एतेसर्वेसमागम्यविमानैस्सूर्यसन्निभैः ।
आगम्यनगरींलंकामभिजग्मुश्चराघवम् ॥ 4 ॥
ततःसहस्ताभरणान्प्रगृह्यविपुलान्भुजान् ।
अब्रुवंस्त्रिदशश्रेष्ठाराघवंप्रांजलिंस्थितम् ॥ 5 ॥
कर्तासर्वस्यलोकस्यश्रेष्ठोज्ञानवतांप्रभुः ।
उपेक्षसेकथंसीतांपतंतींहव्यवाहने ॥ 6 ॥
कथंदेवगणश्रेष्ठमात्मानंनावबुद्ध्यसे ।
ऋतधामावसुःपूर्वंवसूनां च प्रजापतिः ॥ 7 ॥
त्रयाणामपिलोकानामादिकर्तास्वयंप्रभुः ।
रुद्राणामष्टमोरुद्रस्साध्यानामपिपंचमः ॥ 8 ॥
अश्विनौचापिकर्णौतेसूर्यचंद्रामसौदृशौ ।
अंतेचादौ च लोकानांदृश्यसे च परंतप ॥ 9 ॥
उपेक्षसे च वैदेहींमानुषःप्राकृतोयथा ।
इत्युक्तोलोकपालैस्तैस्स्वामीलोकस्यराघवः ॥ 10 ॥
अब्रवीत्त्रिदशश्रेष्ठान्रामधर्मभृतांवरः ।
आत्मानंमानुषंमन्येरामंदशरथात्मजम् ॥ 11 ॥
सोऽहंयस्ययतश्चाहंभगववंस्तद्भ्रवीतुमे ।
इतिब्रुवाणंकाकुत्स्थंब्रह्माब्रह्मविदांवरः ॥ 12 ॥
अब्रवीच्छ्रुणुमेवाक्यंसत्यंसत्यपराक्रम ।
भवान्नारायणोदेवःश्रीमांश्चक्रायुधःप्रभुः ॥ 13 ॥
एकशृंगोवराहस्त्वंभूतभव्यसपत्नजित् ।
अक्षरंब्रह्मसत्यं च मध्येचांते च राघव ॥ 14 ॥
लोकानांत्वंपरोधर्मोविष्वक्सेनश्चतुर्भुजः ।
शार्ङ्गधन्वाहृषीकेशःपुरुषःपुरुषोत्तमः ॥ 15 ॥
अजितःखंगदृग्विष्णुःकृष्णश्चैवमहाबलः ।
सेनानीर्ग्रामणीश्चत्वंत्वंबुद्धिस्त्वंक्षमादमः ॥ 16 ॥
प्रभवश्चाप्ययश्चत्वमुपेंद्रोमधुसूदनः ।
इंद्रकर्मामहेंद्रस्त्वंपद्मनाभोरणांतकृत् ॥ 17 ॥
शरण्यंशरणं च त्वामाहुर्दिव्यामहर्षयः ।
सहस्रशृंगोवेदात्माशरशीर्षोमहर्षभः ॥ 18 ॥
त्वंत्रयाणांहिलोकानामादिकर्तास्वयंप्रभुः ।
सिद्धानामपिसाध्यानामाश्रयश्चासिपूर्वजः ॥ 19 ॥
त्वम्यज्ञस्त्वंवषटकारस्त्वमोंकारःपरात्परः ॥ 20 ॥
प्रभवंनिधनंवातेनोविदुःकोभवानिति ।
दृश्यसेसर्वभूतेषुगोषु च ब्राह्मणेषु च ॥ 21 ॥
दिक्षुसर्वासुगगनेपर्वतेषुनदीषु च ।
सहस्रचरण्श्रीमान् शतशीर्षस्सहस्रदृक् ॥ 22 ॥
त्वंधारयसिभूतानिपृथिवीं च सपर्वताम् ।
अंतेपृथिव्याःसलिलेदृश्यसेत्वंमहोरगः ॥ 23 ॥
त्रीन्लोकांधारयन् राम देवगंधर्वदानवान् ।
अहंतेहृदयंरामजिह्वादेवीसरस्वती ॥ 24 ॥
देवारोमाणिगात्रेषुब्रह्मणानिर्मिताःप्रभो ।
निमेषस्तेस्मृतारात्रिरुन्मेषोदिवसस्तथा ॥ 25 ॥
संस्कारास्त्वभवन्वेदानैतदस्तित्वयाविना ।
जगत्सर्वंशरीरंतेस्थैर्यंतेवसुथातलम् ॥ 26 ॥
अग्निःकोपःप्रसादस्तेसोम्श्रीवत्सलक्षणः ।
त्वयालोकास्त्रयःक्रांताःपुरास्वैर्विक्रमैस्त्रिभिः ॥ 27 ॥
महेंध्रश्चकृतोराजाबलिंबद्ध्वासुदारुणम् ।
सीतालक्ष्मीर्भवान् विष्णुर्देवःकृष्णःप्रजापतिः ॥ 28 ॥
वधार्थंरावणस्येहप्रविष्टोमानुषींतनुम् ।
तदिदंनस्त्वयाकार्यंकृतंधर्मभृतांवर ॥ 29 ॥
निहतोरावणोरामप्रहृष्टोदिवमाक्रम ।
अमोघंदेववीर्यंते न तेमोघाःपराक्रमाः ॥ 30 ॥
अमोघंदर्शनंरामामोघस्तवसंस्तवः ।
अमोघास्तेभविष्यंतिभक्तिमंतोनराभुवि ॥ 31 ॥
येत्वांदेवंध्रुवंभक्ताःपुराणंपुरुषोत्तमम् ।
प्राप्नुवंतिसदाकामनिहलोकेपरत्र च ॥ 32 ॥
इममार्षंस्तवंदिव्यमितिहासंपुरातनम् ॥ 33 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे विंशत्यधिकशततमस्सर्गः ॥