श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ विंशत्यधिकशततमस्सर्गः ।
ततोहिदुर्मनाराम्श्रुत्वैवंवदताङ्गिरः ।
दध्यौमुहूर्तन्धर्मात्माबाष्पव्याकुललोचनः ॥ 1 ॥
ततोवैश्रवणोराजायमश्चपितृभिःसह ।
सहस्राक्षश्चदेवेशोवरुणश्चजलेश्वरः ॥ 2 ॥
षडर्धनयन्श्रीमान्महादेवोवृषध्वजः ।
कर्तासर्वस्यलोकस्यब्रह्माब्रह्मविदांवरः ॥ 3 ॥
एतेसर्वेसमागम्यविमानैस्सूर्यसन्निभैः ।
आगम्यनगरींलङ्कामभिजग्मुश्चराघवम् ॥ 4 ॥
ततःसहस्ताभरणान्प्रगृह्यविपुलान्भुजान् ।
अब्रुवंस्त्रिदशश्रेष्ठाराघवम्प्राञ्जलिंस्थितम् ॥ 5 ॥
कर्तासर्वस्यलोकस्यश्रेष्ठोज्ञानवताम्प्रभुः ।
उपेक्षसेकथंसीताम्पतन्तींहव्यवाहने ॥ 6 ॥
कथन्देवगणश्रेष्ठमात्मानन्नावबुद्ध्यसे ।
ऋतधामावसुःपूर्वंवसूनां च प्रजापतिः ॥ 7 ॥
त्रयाणामपिलोकानामादिकर्तास्वयम्प्रभुः ।
रुद्राणामष्टमोरुद्रस्साध्यानामपिपञ्चमः ॥ 8 ॥
अश्विनौचापिकर्णौतेसूर्यचन्द्रामसौदृशौ ।
अन्तेचादौ च लोकानान्दृश्यसे च परन्तप ॥ 9 ॥
उपेक्षसे च वैदेहीम्मानुषःप्राकृतोयथा ।
इत्युक्तोलोकपालैस्तैस्स्वामीलोकस्यराघवः ॥ 10 ॥
अब्रवीत्त्रिदशश्रेष्ठान्रामधर्मभृतांवरः ।
आत्मानम्मानुषम्मन्येरामन्दशरथात्मजम् ॥ 11 ॥
सोऽहंयस्ययतश्चाहम्भगववंस्तद्भ्रवीतुमे ।
इतिब्रुवाणङ्काकुत्स्थम्ब्रह्माब्रह्मविदांवरः ॥ 12 ॥
अब्रवीच्छ्रुणुमेवाक्यंसत्यंसत्यपराक्रम ।
भवान्नारायणोदेवःश्रीमांश्चक्रायुधःप्रभुः ॥ 13 ॥
एकशृङ्गोवराहस्त्वम्भूतभव्यसपत्नजित् ।
अक्षरम्ब्रह्मसत्यं च मध्येचान्ते च राघव ॥ 14 ॥
लोकानान्त्वम्परोधर्मोविष्वक्सेनश्चतुर्भुजः ।
शार्ङ्गधन्वाहृषीकेशःपुरुषःपुरुषोत्तमः ॥ 15 ॥
अजितःखङ्गदृग्विष्णुःकृष्णश्चैवमहाबलः ।
सेनानीर्ग्रामणीश्चत्वन्त्वम्बुद्धिस्त्वङ्क्षमादमः ॥ 16 ॥
प्रभवश्चाप्ययश्चत्वमुपेन्द्रोमधुसूदनः ।
इन्द्रकर्मामहेन्द्रस्त्वम्पद्मनाभोरणान्तकृत् ॥ 17 ॥
शरण्यंशरणं च त्वामाहुर्दिव्यामहर्षयः ।
सहस्रशृङ्गोवेदात्माशरशीर्षोमहर्षभः ॥ 18 ॥
त्वन्त्रयाणांहिलोकानामादिकर्तास्वयम्प्रभुः ।
सिद्धानामपिसाध्यानामाश्रयश्चासिपूर्वजः ॥ 19 ॥
त्वम्यज्ञस्त्वंवषटकारस्त्वमोङ्कारःपरात्परः ॥ 20 ॥
प्रभवन्निधनंवातेनोविदुःकोभवानिति ।
दृश्यसेसर्वभूतेषुगोषु च ब्राह्मणेषु च ॥ 21 ॥
दिक्षुसर्वासुगगनेपर्वतेषुनदीषु च ।
सहस्रचरण्श्रीमान् शतशीर्षस्सहस्रदृक् ॥ 22 ॥
त्वन्धारयसिभूतानिपृथिवीं च सपर्वताम् ।
अन्तेपृथिव्याःसलिलेदृश्यसेत्वम्महोरगः ॥ 23 ॥
त्रीन्लोकान्धारयन् राम देवगन्धर्वदानवान् ।
अहन्तेहृदयंरामजिह्वादेवीसरस्वती ॥ 24 ॥
देवारोमाणिगात्रेषुब्रह्मणानिर्मिताःप्रभो ।
निमेषस्तेस्मृतारात्रिरुन्मेषोदिवसस्तथा ॥ 25 ॥
संस्कारास्त्वभवन्वेदानैतदस्तित्वयाविना ।
जगत्सर्वंशरीरन्तेस्थैर्यन्तेवसुथातलम् ॥ 26 ॥
अग्निःकोपःप्रसादस्तेसोम्श्रीवत्सलक्षणः ।
त्वयालोकास्त्रयःक्रान्ताःपुरास्वैर्विक्रमैस्त्रिभिः ॥ 27 ॥
महेन्ध्रश्चकृतोराजाबलिम्बद्ध्वासुदारुणम् ।
सीतालक्ष्मीर्भवान् विष्णुर्देवःकृष्णःप्रजापतिः ॥ 28 ॥
वधार्थंरावणस्येहप्रविष्टोमानुषीन्तनुम् ।
तदिदन्नस्त्वयाकार्यङ्कृतन्धर्मभृतांवर ॥ 29 ॥
निहतोरावणोरामप्रहृष्टोदिवमाक्रम ।
अमोघन्देववीर्यन्ते न तेमोघाःपराक्रमाः ॥ 30 ॥
अमोघन्दर्शनंरामामोघस्तवसंस्तवः ।
अमोघास्तेभविष्यन्तिभक्तिमन्तोनराभुवि ॥ 31 ॥
येत्वान्देवन्ध्रुवम्भक्ताःपुराणम्पुरुषोत्तमम् ।
प्राप्नुवन्तिसदाकामनिहलोकेपरत्र च ॥ 32 ॥
इममार्षंस्तवन्दिव्यमितिहासम्पुरातनम् ॥ 33 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे विंशत्यधिकशततमस्सर्गः ॥