श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ एकोनत्रिंशस्सर्गः ।
शुकेनतुसमाख्यातान्दृष्ट्वासहरियूथपान् ।
समीपस्थञ्चरामस्यभ्रातरंस्वंविभीषणम् ॥ 1 ॥
लक्ष्मणञ्चमहावीर्यम्भुजंरामस्यदक्षिणम् ।
सर्ववानरराजञ्चसुग्रीवम्भीमविक्रमम् ॥ 2 ॥
अङ्गदञ्चापिबलिनंवज्रहस्तात्मजात्मजम् ।
हनूमन्तञ्चविक्रान्तञ्जाम्बवन्तञ्चदुर्जयम् ॥ 3 ॥
सुषेणङ्कुमुदन्नीलन्नलञ्चप्लवगर्षभम् ।
गजङ्गवाक्षंशरभम्मैन्दञ्चद्विविदन्तथा ॥ 4 ॥
किञ्चिदाविग्नहृदयोजातक्रोधश्चरावणः ।
भर्त्सयामासतौवीरौकथान्तेशुकसारणौ ॥ 5 ॥
अधोमुखौतौप्रणतावब्रवीच्छुकसारणौ ।
रोषगद्गदयावाचासंरब्धम्परुषंवचः ॥ 6 ॥
नतावत्सदृशन्नामसचिवैरुपजीविभिः ।
विप्रियन्नृपतेर्वक्तुन्निग्रहेप्रग्रहेप्रभोः ॥ 7 ॥
रिपूणाम्प्रतिकूलानांयुद्धार्थमभिवर्तताम् ।
उभाभ्यांसदृशन्नामवक्तुमप्रस्तवेस्तवम् ॥ 8 ॥
आचार्यागुरवोवृद्धावृथावाम्पर्युपासिताः ।
सारंयद्राजशास्त्राणामनुजीव्यन्नगृह्यते ॥ 9 ॥
गृहीतोवानविज्ञातोभारोऽज्ञानस्यवाह्यते ।
ईदृशैः सचिवैर्युक्तोमूर्खैर्दिष्ट्यधराम्यहम् ॥ 10 ॥
किन्नुमृत्योर्भयन्नास्तिवक्तुम्माम्परुषंवचः ।
यस्यमेशासतोजिह्वाप्रयच्छतिशुभाशुभम् ॥ 11 ॥
अप्येवदहनंस्पृष्टवावनेतिष्ठन्तिपादपाः ।
राजदोषपरामृष्टास्तिष्ठन्तेनापराधिनः ॥ 12 ॥
हन्यामहन्त्विमौपापौशत्रुपक्षप्रशंसकौ ।
यदिपूर्वोपकारैस्तुनक्रोधोमृदुतांव्रजेत् ॥ 13 ॥
अपध्वंसत गच्चध्वं सम्निकर्षाद् इतो मम ।
न हि वां हन्तुं इच्चामि स्मरन्न् उपकृतानि वाम् ॥ 14 ॥
हताव् एव कृतघ्नौ तौ मयि स्नेह परान् मुखौ ।
एवं उक्तौ तु सव्रीडौ ताव् उभौ शुक सारणौ ॥ 15 ॥
अब्रवीत्सदशग्रीवः समीपस्थम्महोदरम् ।
उपस्तापयमेशीघ्रञ्चारान्नीतिविशारदान् ॥ 16 ॥
महोदरस्तथोक्तस्तुशीघ्रमाज्ञापयच्चरान् ॥ 17 ॥
ततश्चारास्सन्त्वरिताःप्राप्ताःपार्थिवशासनात् ।
उपस्थिताःप्राञ्जलयोवर्धयित्वाजयशिषाः ॥ 18 ॥
तानब्रवीत्ततोवाक्यंरावणोराक्षसाधिपः ।
चारान्प्रत्यायितान् शूरान्भक्तान्विगतसाध्वसान् ॥ 19 ॥
इतोगच्छतरामस्यव्यवसायम्परीक्षथ ।
मन्त्रिष्वभ्यन्तरायेऽस्यप्रीत्यातेनसमागताः ॥ 20 ॥
कथंस्वपितिजागर्तिकिमन्यच्चकरिष्यति ।
विज्ञायनिपुणंसर्वमागन्तव्यमशेषतः ॥ 21 ॥
चारेणविदितश्शत्रुःपण्डितैर्वसुधाधिपैः ।
युद्धेस्वल्पेनयत्नेनसमासाद्यनिरस्यते ॥ 22 ॥
चारास्तुतेतथेत्युक्त्वाप्रहृष्टाराक्षसेश्वरम् ।
शार्दूलमग्रतःकृत्वाततश्चक्रुःप्रदक्षिणम् ॥ 23 ॥
ततस्तेतम्महात्मानञ्चाराराक्षससत्तमम् ।
कृत्वाप्रदक्षिणञ्जग्मुर्यत्ररामस्सलक्ष्मणः ॥ 24 ॥
तेसुवेलस्यशैलस्यसमीपेरामलक्ष्मणौ ।
प्रच्छन्नाददृशुर्गत्वाससुग्रीवविभीषणौ ॥ 25 ॥
प्रेक्षमाणाश्चमून्तान्तुबभूवुर्भयविक्लबाः ।
तेतुधर्मात्मनादृष्टाराक्षसेन्द्रेणराक्षसा ॥ 26 ॥
विभीषणेनतत्रस्थानिगृहीतायदृच्छया ।
शार्दूलोग्राहितस्त्वेकःपापोऽयमितिराक्षसः ॥ 27 ॥
मोचितस्सोऽपिरामेणवध्यमानःप्लवङ्गमैः ।
अनृशंस्येनरामेणमोचिताराक्षसाःपरे ॥ 28 ॥
वानरैरर्दितास्तेतुविक्रान्तैर्लघुविक्रमैः ।
पुनर्लङ्कामनुप्राप्ताश्वसन्तोनष्टचेतसः ॥ 29 ॥
ततोदशग्रीवमुपस्थितास्तेचाराबहिर्नित्यचरानिशाचराः ।
गिरेस्सुवेलस्यसमीपवासिनन्न्यवेदयन्भीमबलम्महाबलाः ॥ 30 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे एकोनत्रिंशस्सर्गः ॥