View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.60 युद्धकाण्ड - षष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ षष्टितमस्सर्गः ।

सप्रविश्यपुरींलङ्कांरामबाणभयार्धितः ।
भग्नदर्पस्तदाराजाबभूवव्यथितेन्द्रियः ॥ 1 ॥

मातङ्ग इव सिम्हेन गरुडेनेव पन्नगः ।
अभिभूतोऽभवद्राजा राघवेण महात्मना ॥ 2 ॥

ब्रह्मदण्डप्रतीकानांविद्युत्सदृशवर्चसाम् ।
स्मरन्राघवबाणानांविव्यथेराक्षसेश्वरः ॥ 3 ॥

नकाञ्चनमयन्दिव्यमाश्रित्यपरमासनम् ।
विप्रेक्षमाणोरक्षांसिरावणोवाक्यमब्रवीत् ॥ 4 ॥

सर्वन्तत्खलुमेमोघंयत्तप्तम्परमन्तपः ।
यत्समानोमहेन्द्रेणमानुषेणास्मिर्जितः ॥ 5 ॥

इदन्तद्ब्रह्मणोघोरंवाक्यम्मामभ्युपस्थितम् ।
मानुषेभ्योविजानीहिभयन्त्वमितितत्तथा ॥ 6 ॥

देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः ।
अवध्यत्वम्मयाप्राप्तम्मानुषेभ्योनयाचितम् ॥ 7 ॥

विदितं मानुषं मन्ये रामं दशरथात्मजम् ।
इक्ष्वाकुकुलजातेन अनर्ण्येन यत् पुरा ॥ 8 ॥

उत्पत्स्यतेहिमद्वंशेपुरुषोराक्षसाधनु ।
यस्त्वांसपुत्रंसामात्यंसबलंसाश्वसारथिम् ॥ 9 ॥

निहनिष्यतिसङ्ग्रामेत्वाङ्कुलाधम दुर्मते ।
शप्तोऽहंवेदवत्याचयदासाधर्षितापुरा ॥ 10 ॥

सेयंसीतामहाभागाजाताजनकनन्दिनी ।
उमानन्दीश्वरश्चापिरम्भावरुणकन्यका ॥ 11 ॥

यथोक्तास्तन्मयाप्राप्तन्नमिथ्याऋषिभाषितं एतदेवाभ्युपागम्ययत्नङ्कर्तुमहार्हथ ॥ 12 ॥

राक्षसाश्चापितिष्ठन्तुचर्यागोपुरमूर्थसु ।
सचाप्रतिमगाम्भीर्योदेवदानवदर्पहा ॥ 13 ॥

ब्रह्मशापाभिभूतस्तुकुम्भकर्णोविबोध्यताम् ।
सपराजितमात्मानम्प्रहस्तञ्चनिषूदितम् ॥ 14 ॥

ज्ञात्वारक्षोबलम्भीममादिदेशमहाबलः ।
द्वारेषुयत्नःक्रियताम्प्राकारश्चाधिरुह्यताम् ॥ 15 ॥

निद्रावशसमाविष्टःकुम्भकर्णोविबोद्यताम् ।
सुखंस्वपितिनिश्चिन्तःकालोपहतचेतनः ॥ 16 ॥

नवषट् सप्तचाष्टौचमासान् स्वपितिराक्षसः ।
मन्त्रयित्वाप्रसुप्तोऽयमितस्तुनवमेऽहनि ॥ 17 ॥

तन्तुबोधयतक्षिप्रङ्कुम्भकर्णम्महाबलम् ।
सतुसङ् ख्येमहाबाहुःककुदस्सर्वरक्षसाम् ॥ 18 ॥

वानरान् राजपुत्रौचक्षिप्रमेवहनिष्यति एषःकेतुःपरंसङ् ख्येमुख्योवैसर्वरक्षसाम् ॥ 19 ॥

कुम्भकर्णःसदाशेतेमूढोग्राम्यसुखेरतः ।
रामेणहिनिरस्तस्यसङ्ग्रामेऽस्मिन् सुदारुणे ॥ 20 ॥

भविष्यतिनमेशोकःकुम्भकर्णेविबोधिते ।
किङ्करिष्याम्यहन्तेनशक्रतुल्यबलेनहि ॥ 21 ॥

ईदृशेव्यसनेघोरेयोनसाह्यायकल्पते ।
तेतुतद्वचनंश्रुत्वाराक्षसेन्द्रस्यराक्षसाः ॥ 22 ॥

जग्मुःपरमसम्भ्रान्ताःकुम्भकर्णनिवेशनम् ।
ताम्प्रविश्यमहाद्वारंसर्वतोयोजनायताम् ॥ 23 ॥

कुम्भकर्णगुहांरम्यांसर्वगन्धप्रवाहिनीम् ।
कुम्भकर्णस्यनिःश्वासादवधूतामहाबलाः ॥ 24 ॥

प्रतिष्ठमानाःकृच्छ्रेणयत्नात्प्रविविशुर्गुहाम् ।
ताम्प्रविश्यगुहांरम्यांशुभाङ्काञ्चनकुट्टिमाम् ॥ 25 ॥

ददृशुर्नैरृतव्याघ्रंशयानम्भीमविदर्शनम् ।
तेतुतंविकृतंसुप्तंविकीर्णमिवपर्वतम् ॥ 26 ॥

कुम्भकर्णम्महानिद्रंसहिताःप्रत्यबोधयन् ।
ऊर्ध्वरोमाञ्चिततनुंश्वसन्तमिवपन्नगम् ।
भ्रामयन्तं न्विश्श्वसैःशयानं भीमविदर्शमम् ॥ 27 ॥

भीमनासापुटन्तन्तुपातालोविपुलाननम् ।
शयनेन्यस्तसर्वाङ्गम्मेदोरुधिरगन्धिनम् ॥ 28 ॥

काञ्चनाङ्गदनद्धाङ्गङ्किरीटिनमरिन्दमम् ।
ददृशुर्नैरृतव्याघ्रङ्कुम्भकर्णमरिन्दमम् ॥ 29 ॥

ततश्चक्रुर्महात्मानङ्कुम्भकर्णाग्रतस्तदाचाग्रतः ॥ 30 ॥

मांसानाम्मेरुसङ्काशंराशिम्परमतर्पणम् ।
मृगाणाम्महिषाणाञ्चवराहाणाञ्चसञ्चयान् ॥ 31 ॥

चक्रुर्नैरृतशार्दूलाराशिमन्नस्यचाद्भुतम् ।
ततश्शोणितकुम्भांश्चमद्यानिविविधानिच ॥ 32 ॥

पुरस्तात्कुम्भकर्णस्यचक्रुस्त्रिदशशत्रवः ।
लिलिपुश्चपरार्ध्येनचन्दनेनपरन्तपम् ॥ 33 ॥

दिव्यैराश्वासयामामासुर्माल्यैर्गन्धैस्सुगन्धिभिः ।
धूपंसुगन्धांश्चससृजुस्तुष्टवुश्चपरन्ततम् ॥ 34 ॥

जलदाइवचानेदुर्यातुधानास्ततस्ततः ।
शङ्खान्नापूरयामासुश्शशाङ्कसदृशप्रभान् ॥ 35 ॥

तुमुलंयुगपच्छापिविनेदुश्चाप्यमर्षिताः ।
नेदुरास्फोटयामासुश्चिक्षिपुस्तेनिशाचराः ॥ 36 ॥

कुम्भकर्णविबोधार्थं चक्रुस्तेविपुलं स्वनम् ।
सशङ्खभेरीपणवप्रणाद ।
मास्फोटितक्ष्वेलितसिम्हनादम् ।
दिशो द्रवन्तस्त्रिदिवं किरन्तः ।
श्रुत्वा विहम्गाः सहसा निपेतुः ॥ 37 ॥

यदाभृशन्तैर्निनदैर्महात्मानकुम्बकर्णोबुबुधेप्रसुप्तः ।
ततोमुसुण्ठीर्मुसलानिसर्वेरक्षोगणास्तेजगृहुर्गदाश्च ॥ 38 ॥

तंशैलशृङ्गैर्मुसलैर्गदाभिर्वृक्षैस्तरैर्मुद्गरमुष्टिभिश्च ।
सुखप्रसुप्तम्भुविकुम्भकर्णंरक्षांस्युदग्राणितदानिजघ्नुः ॥ 39 ॥

तस्यनिःश्वासवातेनकुम्भकर्णस्यरक्षसः ।
राक्षसाबलवन्तोऽपिस्थातुनाशक्नुवन्पुरः ॥ 40 ॥

ततःपरिहितागाढंराक्षसाभीमविक्रमाः ।
मृदङ्गपणवान् भेरीश्शङ्खकुम्भगणांस्तथा ॥ 41 ॥

दशराक्षससाहस्रंयुगपत्पर्यवारयन् ।
नीलाञ्जनचयाकारन्तेतुतम्प्रत्यबोधयन् ॥ 42 ॥

अभिघ्नन्तोनदन्तश्चनैवसंविविदेतुसः ।
यदाचैनन्नशेकुस्तेप्रतिबोधयितुन्तदा ॥ 43 ॥

ततोगुरुतरंयत्नन्दारुणंसमुपाक्रमन् ।
आश्वानुष्ट्रान् खरन्नागान् जघ्नुर्दण्डकशाङ्कुशैः ॥ 44 ॥

भेरीशङ्खमृदङ्गांश्चसर्वप्राणैरवादयन् ।
निजघ्नुश्चास्यगात्राणिमहाकाष्ठकङ्करैः ॥ 45 ॥

मुद्गरैर्मुसलैश्चापिसर्वप्राणसमुद्यतैः ।
तेननादेवमहतालङ्कासमभिपूरिता ॥ 46 ॥

सपर्वतवनासर्वासोऽपिनैवप्रबुध्यते ।
ततस्सहस्रम्भेरीणांयुगसत्समहन्यत ॥ 47 ॥

मृष्टकाञ्चनकोणानामासक्तानांसमन्ततः ।
एवमप्यन्तिद्रिस्तुयदानैवप्रबुध्यत ॥ 48 ॥

शापस्यवशमापन्नस्ततःक्रुद्धानिशाचराः ।
महाक्रोधसमाविष्टास्सर्वेभीमपराक्रमाः ॥ 49 ॥

तद्रक्षोबोधयिष्यन्तश्चक्रुरन्येपराक्रमम् ।
अन्येभेरीस्समाजघ्नुरन्येचक्रुर्महास्वनम् ॥ 50 ॥

केशानन्येप्रलुलुपुःकर्णावन्येदशन्तिच ।
उदकुम्बशतान्यन्येसमसिञ्चन्तकर्णयोः ॥ 51 ॥

नकुम्भकर्णःपस्पन्देमहानिद्रावशङ्गतः ।
अन्येचबलिनस्तस्यकूटमुद्गरपाणयः ॥ 52 ॥

मूर्ध्निवक्षसिगात्रेषुपातन् कूटमुद्गरान् ।
रज्जुबन्धनबद्धाभिश्शतघ्नीभिश्चसर्वशः ॥ 53 ॥

वध्यमानोमहाकायोनप्राबुध्यतराक्षसः ।
वारणानांसहस्रञ्चशरीरेऽस्यप्रधावितम् ॥ 54 ॥

कुम्बकर्णस्तदाबुद् ध्वास्पर्शम्परमबुध्यत ।
सपात्यमानैर्गिरिशृङ्गवृक्षैरचिन्तयंस्तान्विपुलान् प्रहारान् ।
निद्राक्ष्यात् क्षुद्भयपीडितश्चविजृम्भमाणस्सहसोत्पपाप ॥ 55 ॥

सनागभोगाचलशृङ्गकल्पौविक्षिप्यबाहूगिरशृङ्गसारौ ।
निवृत्यवक्त्रंवडवामुखाभन्निशाचरोऽसौविकृतञ्जजृम्भे ॥ 56 ॥

तस्य जाजृम्भमाणस्य वक्त्रं पातालसम्निभम् ।
दद्R​उशे मेरुशृङ्गाग्रे दिवाकर इवोदितः ॥ 57 ॥

सजृम्भमाणोऽतिबलःप्रद्धोनिशाचरः ।
निःश्वासश्चास्यसञ्जज्ञेपर्वतादिवमारुतः ॥ 58 ॥

रूपमुत्तिष्ठतस्तस्यकुम्भकर्णस्यतद्बभौ ।
तपान्तेसबलाकस्यमेघस्येवविवर्षतः ॥ 59 ॥

तस्यदीप्ताग्निसदृशेविद्युत्सदृशवर्चसी ।
ददृशातेमहानेत्रेदीप्ताविवमहाग्रहौ ॥ 60 ॥

ततस्त्वदर्शयन् सर्वान्भक्ष्यांश्चविविधान् बहून् ।
वराहान्महिषांश्चैवबभक्षसमहाबलः ॥ 61 ॥

आददुन्भुक्षितोमांसंशोणितन्तृषितःपिबन् ।
मेदःकुम्भांश्चमद्यांश्चपपौशक्ररिपुस्तदा ॥ 62 ॥

ततस्तृप्त इति ज्ञात्वा समुत्पेरुर्निशाचराः ।
शिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन् ॥ 63 ॥

निद्राविशदनेत्रस्तुकलुषीकृतलोचनः ।
चारयन् सर्वतोदृष्टिन्तान् ददर्शनिशाचरान् ॥ 64 ॥

ससर्वान् सान्त्वयामासनैरृतान् नैरृतर्षभः ।
बोधनाद्विस्मितश्चापिराक्षसानिदमब्रवीत् ॥ 65 ॥

किमर्थमहमादृत्यभवद्भिःप्रतिबोधितः ।
कच्छित्सुकुशलंराज्ञोभयंवानेषनकिम् ॥ 66 ॥

अथवाध्रुवमन्येभ्योभयम्परमुपस्थितम् ।
यदर्थमेवत्वरितैर्भवद्भिःप्रतिबोधितः ॥ 67 ॥

अद्यराक्षसराजस्यभयमुत्पाटयाम्यहम् ।
दारयिष्येमहेन्द्रंवाशातयिष्येतथानलम् ॥ 68 ॥

नह्यल्पकारणेसुप्तम्बोधयिष्यतिमाङ्गुरुः ।
तदाख्यातार्थतत्त्वेनमत्प्रबोधनकारणम् ॥ 69 ॥

एवम्ब्रुवाणंसम्रब्धङ्कुम्भकर्णमरिन्दमम् ।
यूपाक्षःसचिवोराज्ञःकृताञ्जलिरभाषत ॥ 70 ॥

ननोदेवकृतङ्किञ्चिद्भयमस्तिकदाचन ।
मानुषान्नोभयंराजंस्तुमुलंसम्प्रबाधते ॥ 71 ॥

नदैत्यदानवेभ्योवाभयमस्तिहितादृशम् ।
यादृशम्मानुषंराजन् भयमस्मानुपस्थितम् ॥ 72 ॥

वानरैःपर्वताकारैर्लङ्केयम्परिवारिता ।
सीताहरणसन्तप्ताद्रामान्नस्तुमुलम्भयम् ॥ 73 ॥

एकेनवानरेणेयम्पूर्वन्दग्धामहापुरी ।
कुमारोनिहतश्चाक्षस्सानुयात्रःसकुञ्जरः ॥ 74 ॥

स्वयंरक्षोधिपश्चापिपौलस्त्योदेवकण्टकः ।
मृतेतिसंयुगेमुक्तोरामेणादित्यतेजसा ॥ 75 ॥

यन्न देवैः कृतो राजा नापि दैत्यैर्न दानवैः ।
कृतः स इह रामेण विमुक्तः प्राणसंशयात् ॥ 76 ॥

सयूपाक्ष्वचश्श्रुत्वाभ्रातुर्युधिपराभवम् ।
कुम्भकर्णोविवृत्ताक्षोयूपाक्षमिदमब्रवीत् ॥ 77 ॥

सर्वमद्यैवयूपाक्षहरिसैन्यंसलक्ष्मणम् ।
राघवञ्चरणेजित्वाततोद्रक्ष्यामिरावणम् ॥ 78 ॥

राक्षसांस्तर्पयिष्यामिहरीणाम्मांसशोणितैः ।
रामलक्ष्मणयोश्चापिस्वयम्पास्यामिशोणितम् ॥ 79 ॥

तत्तस्यवाक्यम्ब्रुवतोनिशम्यसगर्वितंरोषविवृद्धदोषम् ।
महोदरोनैरृतयोधमुख्यःकृताञ्जलिर्वाक्यमिदम्बभाषे ॥ 80 ॥

रावणस्यवचःश्रुत्वागुणदोषौविमृश्यच ।
पश्चादपिमहाबाहो शत्रून्युधिविजेष्यसि ॥ 81 ॥

महोदरवचश्श्रुत्वाराक्षसैःपरिवारितः ।
कुम्भकर्णोमहातेजास्सम्प्रतस्थेमहाबलः ॥ 82 ॥

सुप्तमुत्थाप्यभीमाक्षम्भीमरूपपराक्रमम् ।
राक्षसास्त्वरिताजुग्मर्दशग्रीन्विवेशनम् ॥ 83 ॥

ततोगत्वादशग्रीवमासीनम्परमासने ।
ऊचुर्बद्धाञ्जलिपुटास्सर्वएवनिशाचराः ॥ 84 ॥

प्रबुद्धोऽयङ्कुम्भकर्णभ्रातातेराक्षसेश्वर ।
कथन्तत्रैवनिर्यातुद्रक्ष्यसेतमिहागतम् ॥ 85 ॥

रावणस्त्वब्रवीद्धृष्टोराक्षसांस्तानुपस्थितान् ।
द्रष्टुमेनमिहेच्छामियथान्यायञ्चपूज्यताम् ॥ 86 ॥

तथेत्युक्त्वातुतेसर्वेपुनरागम्यराक्षसाः ।
कुम्भकर्णमिदंवाक्यमूचूरावणचोदिताः ॥ 87 ॥

द्रष्टुन्त्वाङ्काङ्क्षतेराजासर्वराक्षसपुङ्गवः ।
गमनेक्रियताम्बुद्धिर्भ्रातरंसम्प्रहर्षयः ॥ 88 ॥

कुम्भकर्णस्तुदुर्धर्षोभ्रातुराज्ञायशासनम् ।
तथेत्युक्त्वामहावीर्यश्शयनादुत्पपातह ॥ 89 ॥

प्रक्षाल्य वदनं ह्R​ष्टः स्नातः परमभूषितः ।
पिपासुस्त्वरयामास पानं बलसमीरणम् ॥ 90 ॥

ततस्तेत्वरितास्तत्रराक्षसारावणाज्ञया ।
मद्यकुम्भांश्चविविधान् क्षिप्रमेवोपहारयन् ॥ 91 ॥

पीत्वाघटसहस्रेद्वेगमनायोपचक्रमे ।
ईषत्समुत्कटोमत्तस्तेजोबलसमन्वितः ॥ 92 ॥

कुम्भकर्णोबभौहृष्टःकालान्तकयमोपमः ।
भ्रातुस्सभवनङ्गच्छन्रक्षोबलसमन्वितः ॥ 93 ॥

कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ।
स राजमार्गं वपुषा प्रकाशयन् ।
सहस्ररस्मिर्धरणीमिवांशुभिः ।
जगाम तत्राञ्जलिमालया वृतः ।
शतक्रतुर्गेहमिव स्वयम्भुवः ॥ 94 ॥

तंराजमार्गस्थममित्रघातिनंवनौकसस्तेसहसाबहिस्स्थिताः ।
दृष्टवाऽप्रमेयङ्गिरिशृङ्गकल्पंवितत्रसुस्तेहरियूथपालाः ॥ 95 ॥

केचिच्छरण्यंशरणंस्मरामंव्रजन्तिकेचिद् व्यथिताःपतन्ति ।
केचिद्धशस्मव्यथिताःपतन्तिकेचिद्भयार्ताभुविशेरतेस्म ॥ 96 ॥

तमद्रिशृङ्गप्रतिमङ्किरीटिनंस्पृशन्तमादित्यमिवाऽत्मतेजसा ।
वनौकसःप्रेक्ष्यविवृद्धमद्भुतं 3 भयार्धितादुद्रुविरेततस्ततः ॥ 97 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे षष्टितमस्सर्गः ॥




Browse Related Categories: