View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.65 युद्धकाण्ड - पञ्चषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ पञ्चषष्टितमस्सर्गः ।

स तथोक्तस्तुनिर्भर्त्स्यकुम्भकर्णोमहोदरम् ।
अब्रवीद्राक्षसश्रेष्ठम्भ्रातरंरावणन्ततः ॥ 1 ॥

सोऽहन्तवभयङ्घोरंवधात्तस्यदुरात्मनः ।
रामस्याद्यप्रमार्जामिनिर्वैरोहिसुखीभव ॥ 2 ॥

गर्जन्ति न वृथाशूरानिर्जलाइवतोयदाः ।
पश्यसम्पद्यमानन्तुगर्जितंयुधिकर्मणा ॥ 3 ॥

न मर्षयन्तिचात्मानंसम्भावयतिनात्मना ।
अदर्शयित्वाशूरास्तुकर्मकुर्वन्तिदुष्करम् ॥ 4 ॥

विक्लबानामबुद्धीनांराज्ञापण्डितमानिनाम् ।
श्रृण्वतासदितमिदन्त्वाद्विधानाम्महोदर ॥ 5 ॥

युद्धेकापुरुषैर्नित्यम्भवद्भिःप्रियवादिभिः ।
राजानमनुगच्छद्भिःसर्वङ्कृत्यमोद्धिसादितम् ॥ 6 ॥

राजशेषाकृतालङ्काक्षीणःकोशोबलंहतम् ।
राजानमिममासाद्यसुहृचचिह्नममित्रकम् ॥ 7 ॥

एषनिर्याम्यहंयुद्धमुद्यतश्शत्रुनिर्जये ।
दुर्नयम्भवतामद्यसमीकर्तुम्मिहाहवे ॥ 8 ॥

एवमुक्तवतोवाक्यङ्कुम्भकर्णस्यधीमतः ।
प्रत्युवाचततोवाक्यम्प्रहसन्राक्षसाधिपः ॥ 9 ॥

महोदरोऽयंरामात्तुपरित्रस्तो न संशयः ।
न हिरोचयतेतात युद्धंयुद्धविशारद ॥ 10 ॥

कश्चिन्मेत्वत्समोनास्तिसौहृदेनबलेन च ।
गच्छशत्रुवधायत्वङ्कुम्भकर्णजयाय च ॥ 11 ॥

तस्मात्तुशत्रुनाशार्थम्भवान्सम्बोधितोमया ।
अयंहिकालस्सुहृदांराक्षसानामरिन्दम ॥ 12 ॥

तद्गच्छ शूलमादाय पाशहस्त इवान्तकः ।
वानरान् राजपुत्रौ च भक्षयादित्यतेजसौ ॥ 13 ॥

समालोक्यतुतेरूपंविद्रविष्यन्तिवानराः ।
रामलक्ष्मणयोश्चापिहृदयेप्रस्फुटिष्यतः ॥ 14 ॥

एवमुक्त्वामहातेजाःकुम्भकर्णम्महाबलम् ।
पुनर्जातमिवात्मानम्मेनेराक्षसपुङ्गवः ॥ 15 ॥

कुम्भकर्णबलाभिज्ञो जानंस्तस्य पराक्रमम् ।
बभूव मुदितो राजा शशाङ्क इव निर्मलः ॥ 16 ॥

इत्येवमुक्तःसम्हृष्टोनिर्जगाममहाबलः ।
राज्ञस्तुवचनंश्रुत्वाकुम्भकर्णस्समुद्यतः ॥ 17 ॥

आददेनिशितंशूलंवेगाच्छत्रुनिबर्हणम् ।
सर्वकालायसन्दीप्तन्तप्तकाञ्चनभूषणम् ॥ 18 ॥

इन्द्राशनिसमम्भीमंवज्रप्रतिमगौरवम् ।
देवदानवगन्धर्वयक्षपन्नगसूदनम् ॥ 19 ॥

रक्तमाल्यम्महाधामंस्वतश्चोद्गतपावकम् ।
आदायनिशितंशूलंशत्रुशोणितरञ्जितम् ॥ 20 ॥

कुम्भकर्णोमहातेजारावणंवाक्यमब्रवीत् ।
गमिष्याम्यहमेकाकीतिष्ठत्विहबलम्मम ॥ 21 ॥

अद्यतान् क्षुभितान् क्रुद्धोभक्षयिष्यामिवानरान् ।
कुम्भकर्णवचश्श्रुत्वारावणोवाक्यमब्रवीत् ॥ 22 ॥

सैन्यैःपरिवृतोगच्छशूलमुद्गतपाणिभिः ।
वानराहिमहात्मानश्शीघ्रास्सव्यवसायिनः ॥ 23 ॥

एकाकिनम्प्रमत्तंवानयेयुद्धशनैःक्ष्यम् ।
तस्मात्परमदुर्धर्षैः सैन्यैःपरिवृतोव्रज ॥ 24 ॥

रक्षसामहितंसर्वंशत्रुपक्षन्निषूदय ।
अथासनात्समुत्पत्यस्रजं मणिकृतान्तराम् ॥ 25 ॥

आबबन्धमहातेजाःकुम्भकर्णस्यरावणः ।
अङ्गदान्यङ्गुलीवेष्टान्वराण्याभरणानि च ॥ 26 ॥

हारं च श्शिसङ्काशमाबबन्दमहात्मनः ।
दिव्यानि च सुगन्धीनिमाल्यदामानिरावणः ॥ 27 ॥

श्रोत्रिचासञ्जयामासश्रीमतीचास्यकुण्डले ।
काञ्चनाङ्गदकेयूरोनिष्काभरणभूषितः ॥ 28 ॥

कुम्भकर्णोबृहत्कर्णस्सुहुतोऽग्निरिवाबभौ ।
श्रोणीसूत्रेणमहतामेचकेनव्यराजत ॥ 29 ॥

अमृतोत्पादनेनद्धोभुजङ्गेनेवमन्दरः ।
स काञ्चनम्भारसहन्निवातंविद्युत्प्रभन्दीप्तमिवात्मभासा ।
आबध्यमानःकवचंरराजसन्ध्याभ्रसम्वीतराजः ॥ 30 ॥

सर्वाभरणनद्धाङ्गः शूलपाणिः स राक्षसः ।
त्रिविक्रमकृतोत्साहो नारायण इवाबभौ ॥ 31 ॥

भ्रातरंसम्परिष्वज्यकृत्वाचापिप्रदक्षिणम् ।
प्रणम्यशिरसातस्मैसम्प्रतस्थेमहाबलः ॥ 32 ॥

निष्पतन्तम्महाकायम्महानादम्महाबलम् ।
तमाशीर्भिःप्रशस्ताभिःप्रेषयामासरावणः ॥ 33 ॥

शङ्खदुन्दुभिनिर्घोषैस्सैन्यैश्चापिवरायुथैः ।
तङ्गजैश्चतुरङ्गैश्चस्यन्दनैश्चाम्बुदस्वनैः ॥ 34 ॥

अनुजग्मुर्महात्मानं रथिनो रथिनां वरम् ।
सर्पैरुष्ट्रैःखरैरश्वैस्सिम्हद्विपमृगद्विजैः ।
अनुजग्मुश्चतङ्घोरङ्कुम्भकर्णम्महाबलम् ॥ 35 ॥

स पुष्पवर्षैरवकीर्यमाणोधृतातपत्रःशितशूलपाणिः ।
मदोत्कटःशोणितगन्धमत्तोविनिर्ययौदावनदेवशत्रुः ॥ 36 ॥

पदातयश्चबहवोमहानादामहाबलाः ।
अन्वयूराक्षसाभीमाभीमाक्षाश्शस्त्रपाणयः ॥ 37 ॥

रक्ताक्षास्सुमहाकायानीलाञ्चनचयोपमाः ।
शूलानुद्यम्यखडगांश्चनिशितांश्चपरश्वधान् ॥ 38 ॥

बहुव्यामांश्चपरिघान्गदाश्चमुसलानि च ।
तालस्कन्धांश्चविपुलान्क्षेपणीयान्दुरासदान् ॥ 39 ॥

अथान्यद्वपुरादायदारुणंरोमहर्षणम् ।
निष्पपातमहातेजाःकुम्भकर्णोमहाबलः ॥ 40 ॥

धनुःशतपरीणाहः स षट्छत्रसमुच्छ्रितः ।
रौद्रःशकटचक्राक्षोमहापर्वतसन्निभः ॥ 41 ॥

सन्निपत्य च रक्षांसिदग्धशैलोपमामहान् ।
कुम्भकर्णोमहावक्त्रःप्रहसन्निदमब्रवीत् ॥ 42 ॥

अद्यवानरमुख्यानान्तानियूथानिभागश ।
निर्दहिष्यामिसङ्ख्रुद्धश्शलाभानिवपावकः ॥ 43 ॥

नापराध्यन्तिमेकामंवानराः वनचारिणः ।
जातिरस्मद्विधानांसापुरोद्यानविभूषणम् ॥ 44 ॥

पुररोधस्यमूलन्तुराघवस्सहलक्ष्मणः ।
हतेतस्मिन् हतंसर्वन्तंवधिष्यामिसंयुगे ॥ 45 ॥

एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः ।
नादं चक्रुर्महाघोरं कम्पयन्त इवार्णवम् ॥ 46 ॥

तस्यनिष्पततस्तूर्णङ्कुम्भकर्णस्यधीमतः ।
बभूवुर्घोररूपाणिनिमित्तानिसमन्ततः ॥ 47 ॥

उल्काशनियुतामेघाबभूवुर्गर्धभारुणाः ।
ससागरवनाचैववसुधासमकम्पत ॥ 48 ॥

घोररूपाश्शिवानेदुस्सज्वालकबलैर्मुखैः ।
मण्डलान्यपसव्यानिबबन्धुश्चविहङ्गमाः ॥ 49 ॥

निष्पपात च गृध्रोमालेवाऽस्यपथिगच्छतः ।
प्रास्फुरन्नयनञ्चास्यसव्योबाहुश्चकम्पत ॥ 50 ॥

निष्पपाततदाचोल्काज्वलन्तीभीमनिश्श्वना ।
आदित्योनिष्प्रभश्चासीन्नप्रवाति च ऽनिलः ॥ 51 ॥

अचिन्तयन्महोत्पातानुदितान्रोमहर्षणान् ।
निर्ययौकुम्भकर्णस्तुकृतान्तबलचोदितः ॥ 52 ॥

न लङ्घयित्वाप्राकारम्पद्भ्याम्पर्वतसन्निभः ।
ददर्शाभ्रघनप्रख्यंवानरानीकमद्भुतम् ॥ 53 ॥

तेदृष्टवाराक्षसश्रेष्ठंवानराःपर्वतोपमम् ।
वायुनुन्नाइवघनाययुस्सर्वादिशस्तदा ॥ 54 ॥

तद्वानरानीकमतिप्रचण्डन्दिशोद्रवद्भिन्नमवाभ्रजालम् ।
स कुम्भकर्णस्समवेक्ष्यहर्षान्ननादभूयोघनवद्घनाभः ॥ 55 ॥

तेतस्यघोरन्निनदन्निशम्ययथानिनादन्दिविवारिदस्य ।
पेतुर्धरण्याम्बहवःप्लवङ्गानिकृत्तमूलाइवशालवृक्षाः ॥ 56 ॥

विपुलपरिघवान् स कुम्भकर्णोरिपुनिधनायविनिस्पृतोत्मा ।
कपिषणभयमाददत्सुभीमम्प्रभुरिवदण्डवान्युगान्ते ॥ 57 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे पञ्चषष्टितमस्सर्गः ॥




Browse Related Categories: