View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.74 युद्धकाण्ड - चतुःसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ चतुःसप्ततितमस्सर्गः ।

तयोस्तदासादितयोरणाग्रेमुमोहसैन्यंहरिपुङ्गवानाम् ।
सुग्रीवनीलाङ्गदजाम्बवन्तो न चापिकिञ्चित्प्रतिपेदिरेते ॥ 1 ॥

ततोविषण्णंसमवेक्ष्यसैन्यंविभीषणोबुद्धिमतांवरिष्ठः ।
उवाचशाखमृगराजवीरानाश्वासयन्नप्रतिमैर्वचोभिः ॥ 2 ॥

माभैष्टनास्त्यत्रविषादकालोयदार्यपुत्त्रौविवशौविषण्णौ ।
स्वयम्भुवोवाक्यमथोद्वहन्तौयत्सादिताविन्द्रजिदस्त्रजालैः ॥ 3 ॥

तस्मैतुदत्तम्परमास्त्रमेतत्स्वयम्भुवाब्राह्मममोघवेगम् ।
तन्मानयन्तौयुधिराजपुत्रौनिपातितौकोऽत्रविषादकालः ॥ 4 ॥

ब्राह्ममस्त्रन्ततोधीमान्मानयित्वातुमारुतिः ।
विभीषणवचश्श्रुत्वाहनूमांस्तमथाब्रवीत् ॥ 5 ॥

एतस्मिन्निहतेसैन्येवानराणान्तरस्विनाम् ।
योयोधारयतेप्राणांस्तन्तमाश्वासयाव ॥ 6 ॥

तावुभौयुगपवदीरौहनूमद्राक्षसोत्तमौ ।
उल्काहस्तौतदारात्रौरणशीर्षेविचेरतुः ॥ 7 ॥

भिन्नलाङ्गूलहस्तोरुपादाङ्गुलि शिरो धरैः ।
स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिः समन्ततः ॥ 8 ॥

पतितैःपर्वताकारैर्वानरैरभिसङ्कुलाम् ।
शस्सैश्चपतितैर्दीप्तैर्ददृशातेवसुन्धराम् ॥ 9 ॥

सुग्रीवमङ्गदन्नीलंशरभङ्गन्धमादनम् ।
गवाक्षं च सुषेणं च वेगदर्शिनमाहुकम् ॥ 10 ॥

मैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा ।
विभीषणो हनूमांश्च ददृशाते हतान्रणे ॥ 11 ॥

सप्तषष्टिर्हताःकोट्योवानराणान्तरस्विनाम् ।
अह्नःपञ्चमशेषेणवल्लभेनस्वयम्भुवः ॥ 12 ॥

सागरौघनिभम्भीमन्दृष्टवाबाणार्दितम्बलम् ।
मार्गतेजाम्बवन्तंस्मिहनूमान् सविभीषणः ॥ 13 ॥

स्वभावजरयायुक्तंवृद्धंशरशतैश्चितम् ।
प्रजापतिसुतंवीरंशाम्यन्तमिवपावकम् ॥ 14 ॥

दृष्टवातमुपसङ्ग्रम्यपौलस्त्योवाक्यमब्रवीत् ।
च्चिदार्यशरैस्तीक्ष्णैर्नप्राणाध्वंसितास्तव ॥ 15 ॥

विभीषणवचश्श्रुत्वाजाम्बवानृक्षपुङ्गवः ।
कृच्छ्रादभ्युग्दिरन्वाक्यमिदंवचनमब्रवीत् ॥ 16 ॥

नैरृतेन्द्रमहावीर्यस्वरेणत्वाऽभिलक्ष्ये ।
पीड्यमानशशितैर्बाणैर्नत्वापश्यामिचक्षुषा ॥ 17 ॥

अञ्जनासुप्रजायेनमातरिश्वा च नैरृत ।
हनुमान् वानरश्रेष्ठःप्राणान् धारयतेक्वचित् ॥ 18 ॥

श्रुत्वाजाम्बवतोवाक्यमुवाचेदंविभीषणः ।
आर्यपुत्रावतिक्रम्यकस्मात्पृच्छसिमारुतिम् ॥ 19 ॥

नैवराजनिसुग्रीवेनाङ्गदेनापिराघवे ।
आर्यसन्दर्शितस्स्नेहोयथावायुसुतेपरः ॥ 20 ॥

विभीषणवचश्श्रुत्वाजाम्बवान्वाक्यमब्रवीत् ।
शृणुनैरृतशार्दूलयस्मात् पृच्छामिमारुतिम् ॥ 21 ॥

तस्मिन्जीवतिवीरेतुहतमप्यहतम्बलम् ।
हनूमत्युज्झितप्राणेजीवन्तोऽपिवयं हृता ॥ 22 ॥

धरतेमारुतिस्तातमारुतप्रतिमोयदि ।
वैश्वानरसमोवीर्वेजीविताशाततोभवेत् ॥ 23 ॥

ततोवृद्धमुपागम्यनियमेनाभ्यवादयत् ।
गृह्यजाम्बवतःपादौहनूमान्मारुतात्मजः ॥ 24 ॥

श्रुत्वाहनुमतोवाक्यन्तदाऽपिव्यथितेन्द्रियः ।
पुनर्जातमिवात्मानम्मन्यतेप्लवगोत्तमः ॥ 25 ॥

ततोऽब्रवीन्महातेजाहनूमन्तं स जाम्बवान् ।
आगच्छहरिशार्दूल वानरांस्त्रातुमर्हसि ॥ 26 ॥

नान्योवक्रमपर्याप्तस्त्वमेषाम्परमस्सखा ।
त्वत्पराक्रमकालोऽयन्नान्यम्पश्यामिकथञ्चन ॥ 27 ॥

ऋक्ष्वानरवीराणामनीकानिप्रहर्षय ।
शल्यौकुरुचाप्येतासादितौरामलक्ष्मणौ ॥ 28 ॥

गत्वापरममध्वानमुपर्युपरिसागरम् ।
हिमवन्तन्नगश्रेष्ठंहनुमन्गन्तुमर्हसि ॥ 29 ॥

ततःकाञ्चनमत्युच्चमृषभम्पर्वतोत्तमम् ।
कैलासशिखरञ्चापिद्रक्ष्यस्यरिनिषूदन ॥ 30 ॥

तयोशशिखरयोर्मध्येप्रदीप्तमतुलप्रभम् ।
सर्यौषधियुतंवीर द्रक्ष्यस्यौषधिपर्यतम् ॥ 31 ॥

तस्यवानरशार्दूल चतस्रो मूधि सम्भवाः ।
द्रक्ष्यस्योषधयोदीप्तादीपय्नत्योदिशोदश ॥ 32 ॥

मृतसञ्जीवनीञ्चैवविशल्यकरणीमपि ।
सुवर्णकरणीञ्चैवसन्धानकरणीन्तथा ॥ 33 ॥

तास्सर्वाहनुमन्गृह्वक्षिप्रमागन्तुमर्हसि ।
आश्वासयहरीन् प्राणैर्योज्यगन्धवहात्मज ॥ 34 ॥

श्रुत्वाजाम्बवतोवाक्यंहनूमान् हरिपुङ्गवः ।
आपूर्यतबलोद्धर्षैस्तोयवेगैरिवार्णवः ॥ 35 ॥

स पर्वततटाग्रस्थः पीडयन्पर्वतोत्तरम् ।
हनूमान्दृश्यते वीरो द्वितीय इव पर्वतः ॥ 36 ॥

हरिपादविनिर्भग्नोनिषसाद स पर्वतः ।
न शशाकतदात्मानंसोढुम्भृशनिपीडितः ॥ 37 ॥

तस्यपेतुर्नगाभूमौहरिवेगाच्चजज्वलुः ।
शृङ्गाणि च व्यशीर्यन्तपीडितस्यहनूमता ॥ 38 ॥

तस्मिन् सम्पीड्यमानेतुभग्नद्रुमशिलातले ।
न शेकुर्वानरास्स्थातुङ्घूर्णमानेनगोत्तमे ॥ 39 ॥

साघूर्णितमहाद्वाराप्रभग्नगृहगोपुरा ।
लङ्कात्रासाकुलारात्रौप्रवृत्तेवाभवत्तदा ॥ 40 ॥

पृथिवीधरसङ्काशोनिपीड्यधरणीधरम् ।
पृथिवीङ्क्षोभयामाससार्णवाम्मारुतात्मजः ॥ 41 ॥

आरुरोहतदातस्माद्धरिर्मलयपर्वतम् ।
मेरुमन्दरसङ्काशन्नानाप्रस्रवणाकुलम् ॥ 42 ॥

नानाद्रुमलताकीर्णंविकासिकमलोत्पलम् ।
सेवितन्देवगन्धर्वैष्षष्टियोजनमुच्छ्रितम् ॥ 43 ॥

विद्याधरैर्मुनिगणैरप्सरोभिर्निषेवितम् ।
नानामृगगणाकीर्णम्बहुकन्दरशोभितम् ॥ 44 ॥

सर्वानाकुलयंस्तत्रयक्षगन्धर्वकिन्नरान् ।
हनुमान् मेघसङ्काशोववृधेमारुतात्मजः ॥ 45 ॥

पद्भ्यान्तुशैलमापीड्यबडबामुखवन्मुखम् ।
विवृत्योग्रन्ननादोच्चैस्त्रासयन्निवराक्षसान् ॥ 46 ॥

तस्यनानद्यमानस्यश्रुत्वानिनदमद्भुतम् ।
लङ्कास्थाराक्षसास्सर्वे न शेकुस्स्पन्दितुम्भयात् ॥ 47 ॥

नमस्कृत्वाऽथरामायमारुतिर्भीमविक्रमः ।
राघवार्थेपरङ्कर्मसमीहतपरन्तपः ॥ 48 ॥

स पुच्छमुद्यम्यभुजङ्गकल्पंविनम्यपृष्ठंश्रवणेनिकुञ्च्य ।
विवृत्यवक्त्रम्बडबामुखाभमापुफ्लुवेव्योमनिचण्डवेगः ॥ 49 ॥

सवृक्षषण्डांस्तरसाजहारशैलान् शिलाःप्राकृतवानरांश्च ।
बाहूरुवेगोद्धतसम्प्रणुन्नास्तेक्षीणवेगास्सलिलेनिपेतुः ॥ 50 ॥

तौप्रसार्योरगभोगकल्पौभुजौभुजङ्गारिनिकाशवीर्यः ।
जगाममेरुन्नगराजमग्य्रन्दिशःप्रकर्षन्निववायुसूनुः ॥ 51 ॥

स सागरङ्घूर्णितवीचिमालन्तथाभृशम्भ्रामितसर्वसत्त्वम् ।
समीक्षमाणस्सहसाजगामचक्रंयथाविष्णुकराग्रमुक्तम् ॥ 52 ॥

स पर्वतान्वृक्षगवान् सरांसिनदीस्तटाकानिपुरोत्तमानि ।
स्फीतान् जनान्तानपिसम्प्रवीक्ष्यजगामवेगापतितृतुल्यवेगः ॥ 53 ॥

आदित्यपथमाश्रित्यजगाम स गतक्लमः ।
हनूमांस्त्वरितोवीरःपितृतुल्यपराक्रमः ॥ 54 ॥

जवेनमहतायुक्तोमारुतिर्मारुतोयथा ।
जगामहरिशार्दूलोदिशश्शब्देनपूरयन् ॥ 55 ॥

स्म्मरन्जाम्बवतोवाक्यम्मारुतिर्वातरंहसा ।
ददर्शसहसागत्वाहिमवन्तम्महाकपिः ॥ 56 ॥

नानाप्रस्रवणोपेतन्नानाकन्दरनिर्घरम् ।
श्वेताभ्रचयसङ्काशैशशिखरैश्चारुदर्शनैः ॥ 57 ॥

शोभितंविविधैर्वृक्षैरगमत्पर्वतोत्तमम् ।
स तंसमासाद्यमहानगेन्द्रमतिप्रवृद्धोत्तमघोरशृङ्गम् ।
ददर्शपुण्यानिमहाश्रमाणिसुरर्षिसङ्घोत्तमसेवितानि ॥ 58 ॥

स ब्रह्मकोशंरजतालयं च शक्रालयंरुद्रशरप्रमोक्षम् ।
हयाननम्ब्रह्मशिरश्चदीप्तन्ददर्शवैवस्वतकिङ्करांश्च ॥ 59 ॥

वज्रालयं वैश्वरणालयं च ।
सूर्यप्रभं सूर्यनिबन्धनं च ।
ब्रह्मासनं शङ्करकार्मुकं च ।
ददर्श नाभिं च वसुन्धरायाः ॥ 60 ॥

कैलासमग्य्रंहिमवच्छिलां च तथर्षभङ्काञ्चनशैलमग्य्रम् ।
सन्दीप्तसर्वौषधिसन्प्रदीप्तन्ददर्शसर्वौषधिपर्वतेन्द्रम् ॥ 61 ॥

स तंसमीक्ष्यानलरश्मिदीप्तंविसिष्मियेवासवदूतसूनुः ।
आवृत्यतञ्चौषधिपर्वतेन्द्रन्तत्रौषधीनांविचयञ्चकार ॥ 62 ॥

सयोजनसहस्राणिसमतीत्यमहाकपिः ।
दिव्यौषधिधरंशैलंव्यचरन्मारुतात्मजः ॥ 63 ॥

महौषध्यस्ततस्सर्वास्तस्मिन् पर्वतसत्तमे ।
विज्ञायार्थिनमायान्तन्ततोजग्मुरदर्शनम् ॥ 64 ॥

स तामहात्माहनुमानपश्यंश्चुकोपकोपाच्चभृशन्ननाद ।
अमृष्यमाणोऽनगिनिकाशचक्षुर्महीधरेन्द्रन्तमुवाचवाक्यम् ॥ 65 ॥

कीमेतदेवंसुविनिश्चितन्तेयद्राघवेनासिकृतानुकम्प ।
पश्याद्यमद्बाहुबलाभिभूतोविकीर्णमात्मानमथोनगेन्द्र ॥ 66 ॥

स तस्यशृङ्गंसनगंसनागंसकाञ्चनन्धातुसहस्रजुष्टम् ।
विकीर्णकूटञ्ज्वलिताग्रसानुम्प्रगृह्यवेगात्सहसोन्ममाथ ॥ 67 ॥

सतसमुत्पाट्यखमुत्पपातवित्रास्यलोकान् ससुरासुरेन्द्रान् ।
संस्तूयमानःखचरैरनेकैर्जगामवेगाद्गरुडोग्रवेगः ॥ 68 ॥

स भास्कराध्वानमनुप्रपन्नस्तम्भास्कराभंशिखरम्प्रगृह्य ।
बभौतदाभास्करसन्निकाशोरवेस्समीपेप्रतिभास्कराभः ॥ 69 ॥

स तेनशैलेनभृशंरराजशैलोपमोगन्धवहात्मजस्तु ।
सहस्रधारेणसपावकेनचक्रेणखेविष्णुरिवार्पितेन ॥ 70 ॥

तंवानराःप्रेक्ष्यविनेदुरुच्चैस्सतानपिप्रेक्ष्यमुदाननाद ।
तेषांसमुध्घुष्टरवन्निशम्यलङ्कालयाभीमतरंविनेदुः ॥ 71 ॥

ततोमहात्मानिपपाततस्मिन् शैलोत्तमेवानरसैन्यमथ्ये ।
हर्युत्तमेभ्यशशिरसाऽभिवाद्यविभीषणन्तत्र स सस्वजे च ॥ 72 ॥

तावप्युभौमानुषराजपुत्रौतङ्गन्धमाघ्रायमहौषधीनाम् ।
बभूवतुस्तत्रतदाविशल्यावुत्तस्थुरन्ये च हरिप्रवीराः ॥ 73 ॥

सर्वेविशल्याविरुजाःक्षणेनहरिप्रवीराश्चहताश्चयेस्युः ।
गन्धेनतासाम्प्रवरौषधीनांसुप्तानिशान्तेष्विवसम्प्रबुद्धाः ॥ 74 ॥

दाप्रभृतिलङ्कायांयुध्यन्तेहरिराक्षसाः ।
तदाप्रभृतिमानार्थमाज्ञयारावणस्य च ॥ 75 ॥

येहन्यन्तेरणेतत्रराक्षसाःकपिकुञ्जरैः ।
हताहतास्तुक्षिप्यन्तेसर्वएवतुसागरे ॥ 76 ॥

ततोहरिर्गन्धवहात्मजस्तुतमोषधीशैलमुदग्रवेगः ।
निनायवेगाद्धिमवन्तमेवपुनश्चरामेणसमाजगाम ॥ 77 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे चतुःसप्ततितमस्सर्गः ॥




Browse Related Categories: