श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ नवाधिकशततमस्सर्गः ।
ततःप्रवृत्तंसुक्रूरंरामरावणयोस्तदा ।
सुमहदद्वैरथंयुद्धंसर्वलोकभयावहम् ॥ 1 ॥
ततोराक्षससैन्यं च हरीणां च महद्बलम् ।
प्रगृहीतप्रहरणन्निश्चेष्टंसमवर्तत ॥ 2 ॥
सम्प्रयुद्धेतुतौदृष्टवाबलवन्नरराक्षसौ ।
व्याक्षिप्तहदृयास्सर्वेपरंविस्मयमागताः ॥ 3 ॥
नाप्रहरणैर्व्यग्रैर्भुजैर्विस्मितबुद्धयः ।
तस्थुःप्रेक्षय च सर्वेतेनाभिजग्मुःपरस्परम् ॥ 4 ॥
रक्षसांरावणञ्चापिवानराणां च राघवम् ।
पश्यतांविस्मिताक्षाणांसैन्यञ्चित्रमिवाबभौ ॥ 5 ॥
तौतुतत्रनिमित्तानिदृष्टवाराघवरावणौ ।
कृतबुद्धीस्थिरामर्षौयुयुधातेह्यभीतवत् ॥ 6 ॥
जेतव्यमितिकाकुत्स्थोमर्तव्यमितिरावणः ।
धृतौस्ववीर्यसर्वस्वंयुद्धेऽदर्शयतान्तदा ॥ 7 ॥
ततःक्रोधाद्धशग्रीवश्शरान्सन्धायवीर्यवान् ।
मुमोचध्वजमुद्धिस्यराघवस्यरथेस्थितम् ॥ 8 ॥
तेशरास्तमनासाद्यपुरन्दररथध्वजम् ।
रथशक्तिम्परामृश्यनिपेतुर्धरणीतले ॥ 9 ॥
ततोरामोऽपिसङ्क्रुद्धश्चपमाकृष्यवीर्यवान् ।
कृतप्रतिकृतङ्कर्तुम्मनसस्सम्प्रचक्रमे ॥ 10 ॥
रावणध्वजमुद्दिस्यमुमोचनिशितंशरम् ।
महासर्पमिवासह्यञ्ज्वलन्तंस्वेनतेजसा ॥ 11 ॥
रामश्चिक्षेपतेजस्वीकेतुमुद्धिश्यसायकम् ।
जगाम स महीञ्छित्त्वादशग्रीवध्वजंशरः ॥ 12 ॥
स निकृत्तोऽपतद्भूमौरावणस्यन्दनध्वजः ।
ध्वजस्योन्मथनन्दृष्टवारावणस्समहाबलः ॥ 13 ॥
सम्प्रदीप्तोऽभवत्क्रोधादमर्षात्प्रहसन्निव ।
स रोषवशमापन्नश्शरवर्षंववर्ष ह ॥ 14 ॥
रामस्यतुरगान्दीप्तैः शरैर्विव्याथरावणः ।
तेदिव्याहरयस्तत्रनास्खलन्नापिबभ्रमुः ॥ 15 ॥
बभूवुःस्वस्थहृदयाःपद्मनालैरिवाहताः ।
तेषामसम्भ्रमन्दृष्टवावाजिनांरावणस्तदा ॥ 16 ॥
भूयएवसुसङ्क्रुद्धश्शरवर्षम्मुमोच ह ।
गदाश्चपरिघांश्चैवचक्राणिमुसलानि च ॥ 17 ॥
गिरिशृङ्गाणिवृक्षांश्चतथाशूलपरश्वधान् ।
मायाविहितमेतत्तुशस्त्रवर्षमपातयत् ॥ 18 ॥
सहस्रशस्तदाबाणानश्रान्तहृदयोद्यमः ।
तुमुलन्त्रासजननम्भीमम्भीमप्रतिस्वनम् ॥ 19 ॥
तद्वर्षमभवद्युद्धेनैकशस्त्रमयम्महत् ।
राघवरथंसमन्ताद्वानरेबले ॥ 20 ॥
सायकैरन्तरिक्षं च चकारसुनिरन्तरम् ।
मुमोच ह दशग्रीवोनिःसङ्गेनान्तरात्मना ॥ 21 ॥
व्यायच्छमानन्तन्दृष्टवासत्वरमरावणंरणे ।
प्रहसन्निवकाकुत्स्थसन्दधेनिशितान्शरान् ॥ 22 ॥
स मुमो च ततोबाणान्शतशोऽथसहस्रशः ।
तान् दृष्टवारावणश्चक्रेस्वशरैःखन्निरन्तरम् ॥ 23 ॥
ततस्थाभ्याम्प्रमुक्तेनशरवर्षेणभास्वता ।
शरबद्धमिवाभातिद्वितीयम्भास्वदम्भरम् ॥ 24 ॥
नानिमित्तोऽभवद्भाणोनानिर्भेत्ता न निष्फलः ।
अन्योन्यमभिसम्हत्यनिपेतुर्धरणीतले ॥ 25 ॥
तथाविसृजतोर्भाणान् रामरावणयोर्मृथे ।
प्रायुध्येतामविच्छिन्नमस्यन्तौसव्यदक्षिणम् ॥ 26 ॥
चक्रतुश्चशरैर्घोरैर्निरुच्छवासमिवाम्बरम् ।
रावणस्यहयान्रामोहयान्रामस्यरावणः ॥ 27 ॥
जघ्नतुस्तौतदान्योन्यङ्कृतानुकृतकारिणौ ।
एवन्तुतौसुसङ्क्रुद्धौचक्रतुर्युद्धमुत्तमम् ॥ 28 ॥
मुहूर्तमभवद्युद्धन्तुमुलंरोमहर्षणम् ।
प्रयुध्यमानौसमरेमहाबलौ शितैःशरैरावणलक्ष्मणाग्रजौ ।
ध्वजावपातेन स राक्षसाधिपो भृशम्प्रचुक्रोधतदारघूत्तमे ॥ 29 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे नवाधिकशततमस्सर्गः ॥