श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ एकसप्ततितमस्सर्गः ।
स्वबलंव्यथितन्दृष्टवातुमुलंरोमहर्षणम् ।
भ्रातृंश्चनिहतान् दृष्टवाशक्रतुल्यपराक्रमान् ॥ 1 ॥
पितृव्यौचापिसनृदृश्यसमरेसन्निघादितौ ।
युद्धोन्मत्तं च मत्तं च भ्रातरौराक्षसर्षभौ ॥ 2 ॥
चुकोप च महातेजाब्रह्मदत्तवरोयुधि ।
अतिकायोऽद्रिसङ्काशोदेवदानवदर्पहा ॥ 3 ॥
स भास्करसहस्रस्यसङ्घातमिवभास्वरम् ।
रथमास्थायशक्रारिरभिदुद्राववानरान् ॥ 4 ॥
स विस्फार्यमहाचापङ्किरीटीमृष्टकुण्डलः ।
नामविश्रावयामासननाद च महास्वनम् ॥ 5 ॥
तेनसिंहप्रणादेननामविश्रावणेन च ।
ज्याशब्देन च भीमेनत्रासयामासवानरान् ॥ 6 ॥
तेदृष्टवादेहमाहात्म्यङ्कुम्भकर्णोऽयमुथतितः ।
भयार्तावानरास्सर्वेसंश्रयन्तेपरस्परम् ॥ 7 ॥
तेतस्यरूपमालोक्ययथाविष्टोस्त्रिविक्रमे ।
भयाद्वानरयूधास्तेविद्रवन्तिततस्ततः ॥ 8 ॥
तेऽतिकायंसमासाद्यवानरामूढचेतसः ।
शरण्यंशरणञ्जग्मुर्लक्ष्मणाग्रजमाहवे ॥ 9 ॥
तोऽतिकायङ्काकुत्स्थोरथस्थम्पर्वतोपमम् ।
ददर्शधवनिनन्दूराद्गर्जन्तङ्कालमेघवत् ॥ 10 ॥
स तन्दृष्टवामहात्मानंराघवस्तुविसिस्मिये ।
वानरान् सान्त्वयित्वा च विभीषणमुवाच ह ॥ 11 ॥
कोऽसौपर्वतसङ्काशोधनुष्मान्हरिलोचनः ।
युक्तेहयसहस्रेणविशालेस्यन्दनेस्थितः ॥ 12 ॥
य एषनिशितैश्शूलैस्सुतीक्णैःप्रासमुद्गरैः ।
अर्चिष्मद्भिर्वृतोभातिभूतैरिवमहेश्वरः ॥ 13 ॥
कालजिह्वाप्रकाशाभिर्यएषोऽतिविराजते ।
आवृतोरथशक्तीभिर्विद्युद्भिरिवतोयदः ॥ 14 ॥
धनूंषिचास्यसज्जानिहेमपृष्ठानिसर्वशः ।
शोभयन्तिरथश्रेष्ठंशक्रचापमिवाम्बरम् ॥ 15 ॥
क एषरक्षश्शार्दूलोरणभूमिविराजयन् ।
अभ्येतिरथिनांश्रेष्ठोरथेनादित्यतेजसा ॥ 16 ॥
ध्वजशृङ्गप्रतिष्ठेनराहुणाभिविराजते ।
सूर्यरमशिनिभैर्बाणैर्दिशो दश विराजयन् ॥ 17 ॥
त्रिणतम्मेघसन्नादंहेमपृष्ठमलङ्कृतम् ।
शतक्रतुधनुःप्रख्यन्धनुश्चास्यविराजते ॥ 18 ॥
स ध्वजस्सपताकश्चसानुकर्षोमहारथः ।
चतुस्सादिसमायुक्तोमेघस्तनितानि ॥ 19 ॥
विंशतिर्दश चाष्टौ च तूणीररथमास्थिताः ।
कार्मुकाणि च भीमानि ज्याश्च काञ्चनपिङ्गलाः ॥ 20 ॥
द्वौ च खडगौरथगतौपार्श्वस्थौपार्श्वशोभितौ ।
चतुर्हस्तत्सरुयुतौव्यक्तहस्तदशायतौ ॥ 21 ॥
रक्तकण्ठगुणो धीरो महापर्वतसन्निभः ।
कालः कालमहावक्त्रो मेघस्थ इव भास्करः ॥ 22 ॥
काञ्चनाङ्गदनद्धाभ्याम्भूजाभ्यामेषशोभते ।
शृङ्गाभ्यामिवतुङ्गाभ्यांहिमवान् पर्वतोत्तमः ॥ 23 ॥
कुण्डलाभ्यान्तुयस्यैतद्भतध्भातिशुभेक्ष ।
पुनर्वस्वन्तरगतम्पूर्णम्भिम्बमिवैन्दवम् ॥ 24 ॥
आचक्ष्वमेमहाबाहोत्वमेनंराक्षसोत्तमम् ।
यन्दृष्टवावानरास्सर्वेभयार्ताविद्रुतादिशः ॥ 25 ॥
स पृष्टोराजपुत्रेणरामेणामिततेजसा ।
आचचक्षेमहातेजारघवायविभीषणः ॥ 26 ॥
दशग्रीवोमहातेजाराजावैश्रवणानुजः ।
भीमकर्मामहोत्साहोरावणोराक्षसाधिपः ॥ 27 ॥
तस्यासीद्वीर्यवान्पुत्रोरावणप्रतिमोरणे ।
वृद्धसेवीश्रुतिधरस्सर्वास्त्रविदुषांवरः ॥ 28 ॥
अश्वपृष्ठेरथेनागेखडगेधनुषिकर्षणे ।
भेदेसान्त्वे च दाने च नयेमन्त्रे च सम्मतः ॥ 29 ॥
यस्यबाहूसमाश्रित्यलङ्कावसतिनिर्भया ।
तनयन्धान्यमालिन्याअतिकायमिमंविदुः ॥ 30 ॥
एतेनाराधितोब्रह्मोतपसाभावितात्मना ।
अस्त्राणिचाप्यवाप्तानिरिपवश्चपराजिताः ॥ 31 ॥
सुरासुरैरवध्यत्वन्दत्तमस्मैस्वयम्भुवा ।
एतच्चकवचन्दिव्यंरधश्चैषोऽरभास्वरः ॥ 32 ॥
एतेनशतशोदेवादानवाश्चपराजिताः ।
रक्षितानि च रक्षांसियक्षाश्चापिनिषूदिताः ॥ 33 ॥
वज्रंविष्टम्भितंयेनबाणैरिन्द्रस्यधीमतः ।
पाशस्सलिलराजस्यरणेप्रतिहतस्तथा ॥ 34 ॥
एषोऽतिकायोबलवान्राक्षसानामथर्षभः ।
रावणस्यतोधीमान्देवदानवदर्पहा ॥ 35 ॥
तदस्मिन्क्रियतांयत्नःक्षिप्रम्पुरुषपुङ्गव ।
पुरावानरसैन्यानिक्ष्यन्नयतिसायकैः ॥ 36 ॥
ततोतिकायोबलवान्प्रविश्यहरिवाहिनीम् ।
विष्फारयामासधनुर्ननाद च पुनःपुनः ॥ 37 ॥
तम्भीमवपुषन्दृष्टवारथस्थंरथिनांवरम् ।
अभिपेतुर्महात्मानोयेप्रधानावनौकसः ॥ 38 ॥
कुमुदोद्विविदोमैन्दोनीलश्शरभएव च ।
पादपैर्गिरिशृङ्गैश्चयुगपत्समभिद्रवन् ॥ 39 ॥
तेषांवृक्षांश्चशैलांश्चशरैःकाञ्चनभूषणैः ।
अतिकायोमहातेजाश्चिच्छेदास्त्रविदांवरः ॥ 40 ॥
तांश्चैवसर्वान् स हरीन् शरैस्सर्वायसैर्बली ।
विव्याथाभिमुखस्सङ्ख्येभीमकायोनिशाचर ॥ 41 ॥
तेऽर्दिताम्बाणवर्षेणभिन्नगात्राःप्लवङ्गमाः ।
न शेकुरतिकायस्यप्रतिकर्तुम्महारणे ॥ 42 ॥
तत् त्सैन्यंहरिवीराणान्त्रासयामासराक्षसः ।
मृगयूथमिवक्रुद्धोहरिर्यौवनदर्पितः ॥ 43 ॥
सराक्षसेन्द्रोहरिसैन्यमध्येनायुध्यमानन्निजघानकञ्चित् ।
उपेत्यरामंसधमः कलापी स गर्वितंवाक्यमिदम्बभाषे ॥ 44 ॥
रथेस्थितोहंशरचापपाणिर्नप्राकृतङ्कञ्चनयोधयामि ।
यस्यास्तिकश्चिद्व्यवसाययुक्तोददातुमेक्षिप्रमिहाद्ययुद्धम् ॥ 45 ॥
तत्तस्यवाक्यम्ब्रुवतोनिशम्यचुकोपसौमित्रिरमित्रहन्ता ।
अमृष्यमाणश्चसमुत्पपातजग्राहचापं च ततस्स्मयित्वा ॥ 46 ॥
क्रुद्धस्सौमित्रिरुत्पत्यतूणादाक्षिप्यसायकम् ।
पुरस्तादतिकायस्यविचकर्षमहद्धनुः ॥ 47 ॥
पूरयन् स महींशैलानाकाशंसागरन्दिशः ।
ज्याशब्दोलक्ष्मणस्योग्रस्त्रासयन् रजनीचरान् ॥ 48 ॥
सौमित्रेश्चापनिर्घोषंश्रुत्वाप्रतिभयन्तदा ।
विसिष्मियेमहातेजाराक्षसेन्द्रात्मजोबली ॥ 49 ॥
अथातिकायःकुपितोदृष्टवालक्ष्मणमुत्थितम् ।
आदायनिशितम्बाणमिदंवचनमब्रवीत् ॥ 50 ॥
बालस्त्वमसिसौमित्रेविक्रमेष्वविचक्षणः ।
गच्छकिङ्कालसदृशम्मांयोधयतुमिच्छसि ॥ 51 ॥
न हिमद्बाहुसृष्टानामस्त्राणाहिमवानपि ।
सोढुमुत्सहतेवेगमन्तरिक्षमथोमही ॥ 52 ॥
सुखप्रसुप्तङ्कालाग्निंविबोधयितुमिच्छसि ।
न्यस्यचापन्निवर्तस्वमाप्राणान् जहिमद्गतः ॥ 53 ॥
अथवात्वम्प्रतिष्टब्धो न निवर्तितुमिच्छसि ।
तिष्ठप्राणान् परित्यज्यगमिष्यसियमक्ष्यम् ॥ 54 ॥
पश्यमेनिशितान्बाणानरिदर्पनिषूदनान् ।
ईश्वरायुधसङ्काशांस्तप्तकाञ्चनभूषणान् ॥ 55 ॥
एष ते सर्पसङ्काशो बाणः पास्यति शोणितम् ।
मृगराज इव क्रुद्धो नागराजस्य शोणितम् ॥ 56 ॥
इत्येवमुक्त्वासङ्क्रुद्धश्शरन्धनुषिसन्दधे ।
श्रुत्वातिकायस्यवचस्सरोषंसगर्वितंसम्यतिराजपुत्रः ।
स सञ्चुकोपातिबलोमनस्वीरुवाचवाक्यं च ततोमहार्थम् ॥ 57 ॥
न वाक्यमात्रेणभवान् प्रधानो न कत्थनात्सत्पुरुषाभवन्ति ।
मयिस्थितेधन्विनिबाणपाणौनिदर्शयस्वात्मबलन्दुरात्मन् ॥ 58 ॥
कर्मणा सूचयात्मानं न विकत्थितुमर्हसि ।
पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः ॥ 59 ॥
सर्वायुधसमायुक्तोधन्वीत्वंरथमास्थितः ।
शरैर्वायदिवाप्यस्त्रैर्दर्शयस्वपराक्रमम् ॥ 60 ॥
ततः शिरस्ते निशितैः पातयिष्याम्यहं शरैः ।
मारुतः कालसम्पक्वं वृन्तात्तालफलं यथा ॥ 61 ॥
अद्यतेमामकाबाणास्तप्तकाञ्चनभूषणाः ।
पास्यन्तिरुधिरङ्गात्राद्बाणशल्यान्तरोत्थितम् ॥ 62 ॥
बालोऽयमितिविज्ञाय न मावज्ञातुमर्हसि ।
बालोवायदिवावृद्धोमृत्युञ्जानीहिसंयुगे ॥ 63 ॥
बालेनविष्णुनालोकास्त्रयःक्रान्तास्त्रिविक्रमैः ।
लक्ष्मणस्यवचश्श्रुत्वाहेतुमत्परमार्थवत् ॥ 64 ॥
अतिकायःप्रचुक्रोधबाणञ्चोत्तममाददे ।
ततोविद्याधराभूतादेवादैत्यामहर्षयः ॥ 65 ॥
गुह्यकाश्चमहात्मानस्तद्युद्धन्द्रष्टुमागमन् ।
तोऽतिकायःकुपितश्चापमारोप्यसायकम् ॥ 66 ॥
लक्ष्मणायप्रचिक्षेपसङ्क्षिपन्निवचाम्बरम् ।
तमापतन्तन्निशितंशरमाशीविषोपमम् ॥ 67 ॥
अर्धचन्द्रेणचिच्छेदलक्ष्मणःपरवीरहा ।
तन्निकृत्तंशरन्दृष्टवाकृत्तभोगमिवोरगम् ॥ 68 ॥
अतिकायोभृशङ्क्रुद्धःपञ्चबाणान् समाददे ।
तान्शरान् सम्प्रचिक्षेपलक्ष्मणायनिशाचरः ॥ 69 ॥
तानप्राप्तान् शरैस्तीक्ष्णैश्चिच्छेदभरतानुजः ।
सतान् छित्त्वाशितैर्बाणैर्लक्ष्मणःपरवीरहा ॥ 70 ॥
आददेनिशितम्बाणञ्ज्वलन्तमिवतेजसा ।
तमादायधनुश्श्रेष्ठेयोजयामासलक्ष्मणः ॥ 71 ॥
विचकर्ष च वेगेनविससर्ज च वीर्यवान् ।
पूर्णायतविसृषेनशरेणनतपर्वणा ॥ 72 ॥
ललाटेराक्षसश्रेष्ठमाजघान स वीर्यवान् ।
सललाटेशरोमग्नस्तस्यभीमस्यरक्षसः ॥ 73 ॥
ददृशे शोणितेनाक्तः पन्नगेन्द्र इवाहवे ।
राक्षसः प्रचकम्पे च लक्ष्मणेषु प्रकम्पितः ॥ 74 ॥
रुद्रबाणहतङ्घोरंयथात्रिपुरगोपुरम् ।
चिन्तयामासचाश्वास्यविमृश्य च महाबलः ॥ 75 ॥
साधुबाणनिपातेनश्लाघनीयोऽसिमेरिपुः ।
विधायैवंविनम्यास्यन्नियम्य च भुजावुभौ ॥ 76 ॥
स रथोपस्थमास्थायरथेनप्रचचार ह ।
कन्त्रीन्पञ्चसप्तेतिसायन्राक्षसर्षभः ॥ 77 ॥
आददेसन्दधेचापिविचकर्षोत्ससर्ज च ।
तेबाणाःकालसङ्काशाराक्षसेन्द्रधुनुश्च्युताः ॥ 78 ॥
हेमपुङ्खारविप्रख्याश्चक्रुर्दीप्तमिवाम्बरम् ।
तस्तान्राक्षसोत्सृष्टान्शरौघान्राघवानुजः ॥ 79 ॥
असम्ब्रान्तःप्रचिच्छेदनिशितैर्बहुभिश्शरैः ।
तान् शरान्युधिसम्प्रेक्ष्यनिकृत्तान्रावणात्मजः ॥ 80 ॥
चुकोपत्रिदशेन्द्रारिर्जग्राहनिशितंशरम् ।
ससन्धायमहातेजास्तम्बाणंसहसोत्सृजत् ॥ 81 ॥
तेनस्सौमित्रिमायान्तमाजघानस्तनान्तरे ।
अतिकायेनसौमित्रिस्ताडितोयुधिवक्षसि ॥ 82 ॥
सुस्राव रुधिरं तीव्रं मदं मत्त इव द्विपः ।
स चकार तदात्मानं विशल्यं सहसा विभुः ॥ 83 ॥
जग्राह च शरन्तीक्ष्णमस्त्रेणापिचसन्दधे ।
आग्नेयेनतदाऽस्त्रेणयोजयामाससायकम् ॥ 84 ॥
स जज्वालतदाबाणोधनुष्यस्यमहात्मनः ।
अतिकायोतितेजस्वीसौरमस्त्रंसमादधे ॥ 85 ॥
तेनबाणम्भुजङ्गाभंहेमपुङ्खमयोजयत् ।
तदस्त्रञ्ज्वलितङ्घोरंलक्ष्मणश्शरमाहितम् ॥ 86 ॥
अतिकायायचिक्षेपकालदण्डमिवान्तकः ।
आग्नेयेनाभिसंयुक्तन्दृष्टवाबाणन्निशाचरः ॥ 87 ॥
उत्ससर्जतदाबाणन्दीप्तंसूर्यास्त्रयोजितम् ।
तावुभावम्बरेबाणावन्योन्यमभिजघ्नतुः ॥ 88 ॥
तेजसासम्प्रदीप्ताग्रौक्रुद्धाविवभुजङ्गमौ ।
तावन्योन्यंविनिर्दह्यपेततुर्धरणीतले ॥ 89 ॥
निरर्चिषौभस्मकृतौ न भ्राजेतेशरोत्तमौ ।
तावुभौदीप्यमानौस्म न भ्राजेतेमहीतले ॥ 90 ॥
ततोऽतिकायस्सङ्कृद्धस्त्वस्त्रमैषीकमुत्सृजत् ।
तत्प्रचिच्छेदसौमित्रिरस्त्रमैन्द्रेणवीर्यवान् ॥ 91 ॥
ऐषीकन्निहतन्दृष्टवारुषितोरावणात्मजः ।
याम्येनार्स्तेणसङ्कृद्धोयोजयामाससायकम् ॥ 92 ॥
ततस्तदस्त्रञ्चिक्षेपलक्ष्मणायनिशाचरः ।
वायव्येनतदस्त्रेणनिजघान स लक्ष्मणः ॥ 93 ॥
अथैनंशरधाराभिर्धाराभिरिवतोयदः ।
अभ्यवर्षत्सुसङ्कृद्धोलक्ष्मणोरावणात्मजम् ॥ 94 ॥
तेऽतिकायंसमासाद्यकवचेवज्रभूषिते ।
भग्नाग्रशल्यास्सहसापेतुर्बाणामहीतले ॥ 95 ॥
तान्मोघानभिसम्प्रेक्ष्यलक्ष्मणःपरवीरहा ।
अभ्यवर्षन्महेषूणांसहस्रेणमहायशाः ॥ 96 ॥
स वृष्यमाणोबाणौघैरतिकायोमहाबलः ।
अवध्यकवचस्सङ्ख्येराक्षसोनैवविव्यथे ॥ 97 ॥
शरञ्चाशीविषाकारंलक्ष्मणायव्यपासृजत् ।
स तेनविद्धस्सौमित्रिर्मर्मदेशेशरेण ह ॥ 98 ॥
मुहूर्तमात्रन्निस्सञ्ज्ञोह्यभवच्छत्रुतापनः ।
ततःस्सञ्ज्ञामुपालभ्यचतुर्भिस्सायकोत्तमैः ॥ 99 ॥
निजघानहयान्सङ्ख्येसारथिं च महाबलः ।
ध्वजस्योन्मथनङ्कृत्वाशरवर्षैररिन्दमः ॥ 100 ॥
असम्भ्रान्तस्ससौमित्रिस्तान्शरानभिलक्षितान् ।
मुमोचलक्ष्मणोबाणान्वधार्थन्तस्यरक्षसः ॥ 101 ॥
न शशाकरुजङ्कर्तुंयुधितस्यनरोत्तमः ।
अथैनमभ्युपागम्यवायुर्वाक्यमुवाच ह ॥ 102 ॥
ब्रह्मदत्तवरो ह्येष अवध्य कवचावृतः ।
ब्राह्मेणास्त्रेण भिन्ध्येनमेष वध्यो हि नान्यथा ॥ 103 ॥
अवध्यएषह्यन्येषामस्त्राणाङ्कवचीबली ।
ततस्तुवायोर्वचनन्निशम्यसौमित्रिरिन्द्रप्रतिमानवीर्यः ।
समाददेबाणममोघवेगन्तद्ब्राह्ममस्त्रंसहसानियोज्य ॥ 104 ॥
नियुज्यमानेसौमित्रिणाबाणवरेशिताग्रे ।
दिशश्चचन्द्रर्कमहाग्रहाश्चनभश्चतत्रासचचालचोर्वी ॥ 105 ॥
तम्ब्रह्मणोऽस्त्रेणनियुज्यचापेशरंसुपुङ्खंयमदूतकल्पम् ।
सौमित्रिरिन्द्रारिसुतस्यतस्यससर्जबाणंयुधिवज्रकल्पम् ॥ 106 ॥
तंलक्ष्मणोत्सृष्टममोघवेगंसमापतन्तञ्ज्यलनप्रकाशम् ।
सुपर्णवज्रोत्तमचित्रपुङ्खन्तदाऽतिकायस्समरेददर्श ॥ 107 ॥
तम्प्रेक्षमाणस्सहसाऽतिकायोजघानबाणैर्निशितैरनेकैः ।
स सायकस्तस्यसुपर्णवेगस्तदातिकायस्यजगामपार्श्वम् ॥ 108 ॥
तमागतम्प्रेक्ष्यतदातिकायोबाणम्प्रदीप्तान्तककालकल्पम् ।
जघानक्त्यृष्टिगदाकुठारैशूलैर्हुलैश्चाप्यविपन्नचेता ॥ 109 ॥
तान्यायुधान्यद्भुतविग्रहाणिमोघानिकृत्वा स शरोऽग्निदीप्तः ।
प्रगृह्यतस्यैवकिरीटजुष्टं ततोऽतिकायस्यशिरोजहार ॥ 110 ॥
तछचिरस्सशिरस्त्राणंलक्ष्मणेषुप्रपीडितम् ।
पपातसहसाभूमौशृङ्गंहिमवतोयथा ॥ 111 ॥
तम्भूमौनिपतितन्दृष्टवाविक्षिप्तभूषणं बभूवुर्व्यथितास्सर्वेहतशेषानिशाचराः ॥ 112 ॥
तेविषण्णमुखादीनाःप्रहारजनितश्रमाः ।
विनेदुरुच्चैर्बहवस्सहसाविस्वरैस्स्वरैः ॥ 113 ॥
ततस्तेत्वरितंयातानिरपेक्षानिशाचराः ।
पुरीमभिमुखाभीताद्रवन्तोनायकेहते ॥ 114 ॥
प्रहर्षयुक्ताबहवस्तुवानराःप्रबुद्दपद्मप्रतिमाननास्तदा ।
अपूजयन्लक्ष्मणविष्टभागिनंहतेरिपौभीमबलेदुरासदे ॥ 115 ॥
अतिबलमतिकायमभ्रकल्पंयुधिविनिपात्य स लक्ष्मणःप्रहृष्टः ।
त्वरितमथतदा स रामपार्श्वङ्कपिनिवहैश्चसुपूजितोजगाम ॥ 116 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे एकसप्ततितमस्सर्गः ॥