View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

1.11 बालकाण्ड - एकादश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ एकादशस्सर्गः ।

भूय एव हि राजेन्द्र शृणु मे वचनं हितम् ।
यथा स देवप्रवरः कथायामेवमब्रवीत् ॥ 1 ॥

इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः ।
राजा दशरथो नाम्ना श्रीमान्सत्यप्रतिश्रवः ॥ 2 ॥

अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति ।
कन्या चास्य महाभागा शान्ता नाम भविष्यति ॥ 3 ॥

पुत्रस्तु सोऽङ्गराजस्य रोमपाद इति श्रुतः ।
तं स राजा दशरथो गमिष्यति महायशाः ॥ 4 ॥

अनपत्योऽस्मि धर्मात्मन् शान्ताभर्ता मम क्रतुम् ।
आहरेत त्वयाज्ञप्तस्सन्तानार्थं कुलस्य च ॥ 5 ॥

श्रुत्वा राज्ञोऽथ तद्वाक्यं मनसा स विचिन्त्य च ।
प्रदास्यते पुत्रवन्तं शान्ताभर्तारमात्मवान् ॥ 6 ॥

प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः ।
आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना ॥ 7 ॥

तं च राजा दशरथो यष्टुकामः कृताञ्जलिः ।
ऋश्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् ॥ 8 ॥

यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः ।
लभते च स तं कामं द्विजमुख्याद्विशाम्पतिः ॥ 9 ॥

पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः ।
वंशप्रतिष्ठानकरास्सर्वलोकेषु विश्रुताः ॥ 10 ॥

एवं स देवप्रवरः पूर्वं कथितवान्कथाम् ।
सनत्कुमारो भगवान्पुरा देवयुगे प्रभुः ॥ 11 ॥

स त्वं पुरुषशार्दूल तमानय सुसत्कृतम् ।
स्वयमेव महाराज गत्वा सबलवाहनः ॥ 12 ॥

अनुमान्य वसिष्ठं च सूतवाक्यं निशम्य च ।
सान्तःपुरस्सहामात्यः प्रययौ यत्र स द्विजः ॥ 13 ॥

वनानि सरितश्चैव व्यतिक्रम्य शनैश्शनैः ।
अभिचक्राम तं देशं यत्र वै मुनिपुङ्गवः ॥ 14 ॥

आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम् ।
ऋषिपुत्रं ददर्शादौ दीप्यमानमिवानलम् ॥ 15 ॥

ततो राजा यथान्यायं पूजां चक्रे विशेषतः ।
सखित्वात्तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना ॥ 16 ॥

रोमपादेन चाख्यातमृषिपुत्राय धीमते ।
सख्यं सम्बन्धकं चैव तदा तं प्रत्यपूजयत् ॥ 17 ॥

एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः ।
सप्ताष्टदिवसान्राजा राजानमिदमब्रवीत् ॥ 18 ॥

शान्ता तव सुता राजन् सह भर्त्रा विशाम्पते ।
मदीयनगरं यातु कार्यं हि महदुद्यतम् ॥ 19 ॥

तथेति राजा संश्रुत्य गमनं तस्य धीमतः ।
उवाच वचनं विप्रं गच्छ त्वं सह भार्यया ॥ 20 ॥

ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा ।
स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया ॥ 21 ॥

तावन्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसा ।
ननन्दतुर्दशरथो रोमपादश्च वीर्यवान् ॥ 22 ॥

ततस्सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः ।
पौरेभ्यः प्रेषयामास दूतान्वै शीघ्रगामिनः ॥ 23 ॥

क्रियतां नगरं सर्वं क्षिप्रमेव स्वलङ्कृतम् ।
धूपितं सिक्तसम्मृष्टं पताकाभिरलङ्कृतम् ॥ 24 ॥

ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम् ।
तथा प्रचक्रुस्तत्सर्वं राज्ञा यत्प्रेषितं तदा ॥ 25 ॥

ततस्स्वलङ्कृतं राजा नगरं प्रविवेश ह ।
शङ्खदुन्दुभिनिर्घोषैः पुरस्कृत्य द्विजर्षभम् ॥ 26 ॥

ततः प्रमुदितास्सर्वे दृष्ट्वा तं नागरा द्विजम् ।
प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा ॥ 27 ॥

अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा च शास्त्रतः ।
कृतकृत्यं तदात्मानं मेने तस्योपवाहनात् ॥ 28 ॥

अन्तःपुरस्त्रियस्सर्वाश्शान्तां दृष्ट्वा तथागताम् ।
सह भर्त्रा विशालाक्षीं प्रीत्यानन्दमुपागमन् ॥ 29 ॥

पूज्यमाना च ताभिस्सा राज्ञा चैव विशेषतः ।
उवास तत्र सुखिता कञ्चित्कालं सहर्त्विजा ॥ 30 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे एकादशस्सर्गः ॥




Browse Related Categories: