श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ चतुर्दशस्सर्गः ।
पुत्रशोकार्दितं पापा विसञ्ज्ञं पतितं भुवि ।
विवेष्टमानमुद्वीक्ष्य सैक्ष्वाकमिदमब्रवीत् ॥ 1 ॥
पापं कृत्वैव किमिदं मम संश्रुत्य संश्रवम् ।
शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि ॥ 2 ॥
आहु स्सत्यं हि परमं धर्मं धर्मविदो जनाः ।
सत्यमाश्रित्य हि मया त्वं च धर्मं प्रबोधितः ॥ 3 ॥
संश्रुत्य शैब्यश्श्येनाय स्वां तनुं जगतीपतिः ।
प्रदाय पक्षिणे राज न्जगाम गतिमुत्तमाम् ॥ 4 ॥
तथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे ।
याचमाने स्वके नेत्रे उद्धृत्याविमना ददौ ॥ 5 ॥
सरितां तु पतिस्स्वल्पां मर्यादां सत्यमन्वितः ।
सत्यानुरोधात्समये स्वां वेलां नातिवर्तते ॥ 6 ॥
सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्टितः ।
सत्यमेवाक्षया वेदा सत्येनैवाप्यते स्परम् ॥ 7 ॥
सत्यं समनुवर्तस्व यदि धर्मे धृता मतिः ।
सफलस्स वरो मेऽस्तु वरदो ह्यसि सत्तम ॥ 8 ॥
धर्मस्यैहाभिकामार्थं मम चैवाभिचोदनात् ।
प्रव्राजय सुतं रामं त्रिःखलु त्वां ब्रवीम्यहम् ॥ 9 ॥
समयं च ममार्येमं यदि त्वं न करिष्यसि ।
अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥ 10 ॥
एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया ।
नाशकत्पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा ॥ 11 ॥
उद्भ्रान्तहृदयश्चापि विवर्णवदनोऽभवत् ।
स धुर्योवैपरिस्पन्दन्युगचक्रान्तरं यथा ॥ 12 ॥
विह्वलाभ्यां च नेत्राभ्यामपश्यन्निव भूपतिः ।
कृच्छ्राद्धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत् ॥ 13 ॥
यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः ।
तं त्यजामि स्वजं चैव तव पुत्रं त्वया सह ॥ 14 ॥
प्रयाता रजनी देवि सूर्यस्योदयनम्प्रति ।
अभिषेकं गुरुजनस्त्वरयिष्यति मां ध्रुवम् ॥ 15 ॥
रामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः ।
रामः कारयितव्यो मे मृतस्य सलिलक्रियाम् ॥ 16 ॥
त्वया सपुत्रया नैव कर्तव्या सलिलक्रिया ।
व्याहन्ताऽस्यशुभाचारे यदि रामाभिषेचनम् ॥ 17 ॥
न च शक्तोऽस्म्यहं द्रष्टुं दृष्ट्वा पूर्वं तथासुखम् ।
हतहर्षं निरानन्दं पुनर्जनमवाङ्मुखम् ॥ 18 ॥
तां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः ।
प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रशालिनी ॥ 19 ॥
ततः पापसमाचारा कैकेयी पार्थिवं पुनः ।
उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्छिता ॥ 20 ॥
किमिदं भाषसे राजन्वाक्यं गररुजोपमम् ।
आनाययितुमक्लिष्टं पुत्रं राममिहार्हसि ॥ 21 ॥
स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम् ।
निस्सपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि ॥ 22 ॥
स नुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः ।
राजा प्रचोदितोऽभीक्ष्णं कैकेयीमिदमब्रवीत् ॥ 23 ॥
धर्मबन्धेन बध्दोऽस्मि नष्टा च मम चेतना ।
ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम् ॥ 24 ॥
ततः प्रभातां रजनीमुदिते च दिवाकरे ।
पुण्ये नक्षत्रयोगे च मुहूर्ते च समाहिते ॥ 25 ॥
वसिष्ठो गुणसम्पन्न श्शिष्यै परिवृतस्तदा ।
उपगृह्याशु सम्भारान्प्रविवेश पुरोत्तमम् ॥ 26 ॥
सिक्तसम्मार्जितपथां पताकोत्तम भूषिताम् ।
विचित्रकुसुमाकीर्णां नानास्रग्भिर्विराजिताम् ॥ 27 ॥
संहृष्टमनुजोपेतां समृद्धविपणापणाम् ।
महोत्सवसमाकीर्णां राघवार्थे समुत्सुकाम् ॥ 28 ॥
चन्दनागरुधूपैश्च सर्वतः प्रतिधूपिताम् ।
तां पुरीं समतिक्रम्य पुरन्दरपुरोपमाम् ॥ 29 ॥
ददर्शान्तःपुरश्रेष्ठं नानाद्विजगणायुतम् ।
पौरजानपदाकीर्णं ब्राह्मणैरुपशोभितम् ॥ 30 ॥
यज्ञविद्भि स्सुसम्पूर्णं सदस्यैः परमद्विजैः ।
तदन्तःपुरमासाद्य व्यतिचक्राम तं जनम् ॥ 31 ॥
वसिष्ठः परमप्रीतः परमर्षिर्विवेश च ।
सत्वपश्यद्विनिष्क्रान्तं सुमन्त्रं नाम सारथिम् ॥ 32 ॥
द्वारे मनुजसिंहस्य सचिवं प्रियदर्शनम् ।
तमुवाच महातेजा स्सूतपुत्रं विशारदम् ॥ 33 ॥
वसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम् ।
इमे गङ्गोदकघटा स्सागरेभ्यश्च काञ्चनाः ॥ 34 ॥
औदुम्बरं भद्रपीठमभिषेकार्थमागतम् ।
सर्वबीजानि गन्धाश्च रत्नानि विविधानि च ॥ 35 ॥
क्षौद्रं दधि घृतं लाजा दर्भास्सुमनसः पयः ।
अष्टौ च कन्या रुचिरा मत्तश्च वरवारणः ॥ 36 ॥
चतुरश्वो रथश्श्रीमान्निस्त्रिंशो धनुरुत्तमम् ।
वाहनं नरसंयुक्तं छत्रं च शशिसन्निभम् ॥ 37 ॥
श्वेते च वालव्यजने भृङ्गारुश्च हिरण्मयः ।
हेमदामपिनध्दश्च ककुद्मान्पाण्डुरो वृषः ॥ 38 ॥
केसरी च चतुर्दंष्ट्रो हरिश्रेष्ठो महाबलः ।
सिंहासनं व्याघ्रतनु स्समिद्धश्च हुताशनः ॥ 39 ॥
सर्ववादित्रसङ्घाश्च वेश्याश्चालङ्कृता स्स्त्रयः ।
आचार्या ब्राह्मणा गावः पुण्याश्च मृगपक्षिणः ॥ 40 ॥
पौरजानपदश्रेष्ठा नैगमाश्च गणै स्सह ।
एते चान्ये च बहवो नीयमानाः प्रियंवदाः ॥ 41 ॥
अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः ।
त्वरयस्व महाराजं यथा समुदितेऽहनि ॥ 42 ॥
पुष्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात् ।
इति तस्य वच श्श्रुत्वा सूतपुत्रो महात्मनः ॥ 43 ॥
स्तुवन्नृपतिशार्दूलं प्रविवेश निवेशनम् ।
तं तु पूर्वोदितं वृध्दं द्वारस्था राज सम्मतम् ॥ 44 ॥
न शेकुरभिसंरोध्दुं राज्ञः प्रियचिकीर्षवः ।
स समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान् ॥ 45 ॥
वाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे ।
तत स्सूतो यथाकालं पार्थिवस्य निवेशने ॥ 46 ॥
सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम् ।
यथा नन्दति तेजस्वी सागरो भास्करोदये ॥ 47 ॥
प्रीतः प्रीतेन मनसा तथाऽनन्दघन स्स्वतः ।
इन्द्रमस्यां तु वेलायामभितुष्टाव मातलिः ॥ 48 ॥
सोऽजयद्दानवान्सर्वांस्तथा त्वां बोधयाम्यहम् ।
वेदास्सहाङ्गविद्याश्च यथाह्यात्मभुवं विभुम् ॥ 49 ॥
ब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम् ।
आदित्यस्सह चन्द्रेण यथा भूतधरां शुभाम् ॥ 50 ॥
बोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम् ।
उत्तिष्ठाशु महाराज कृतकौतुकमङ्गलः ॥ 51 ॥
विराजमानो वपुषा मेरोरिव दिवाकरः ।
सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि ॥ 52 ॥
वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते ।
गता भगवती रात्रिः कृतं कृत्यमिदं तव ॥ 53 ॥
बुद्ध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् ।
उदतिष्ठत रामस्य समग्रमभिषेचनम् ॥ 54 ॥
पौरजानापदैश्चापि नैगमैश्च कृताञ्जलिः ।
स्वयं वशिष्ठो भगवान्ब्राह्मणै स्सह तिष्ठति ॥ 55 ॥
क्षिप्रमाज्ञाप्यतां राजन्राघवस्याभिषेचनम् ।
यथा ह्यपालाः पशवो यथा सेना ह्यनायका ॥ 56 ॥
यथा चन्द्रं विना रात्रिर्यथा गावो विना वृषम् ।
एवं हि भविता राष्ट्रं यत्र राजा न दृश्यते ॥ 57 ॥
इति तस्य वच श्शृत्वा सान्त्वपूर्वमिवार्थवत् ।
अभ्यकीर्यत शोकेन भूय एव महीपतिः ॥ 58 ॥
तत स्सराजा तं सूतं सन्नहर्ष स्सुतं प्रति ।
शोकरक्तेक्षण श्श्रीमानुद्वीक्ष्योवाच धार्मिकः ॥ 59 ॥
वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि ।
सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम् ।
प्रगृहीताञ्जलिः किञ्चित्तस्माद्देशादपाक्रमत् ॥ 60 ॥
यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः ॥ 61 ॥
तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह ।
सुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः ॥ 62 ॥
प्रजागरपरिश्रान्तो निद्राया वशमुपेयिवान् ।
तद्गच्छ त्वरितं सूत राजपुत्रं यशस्विनम् ॥ 63 ॥
राममानय भद्रं ते नात्र कार्या विचारणा ।
स मन्यमानः कल्याणं हृदयेन ननन्द च ॥ 64 ॥
निर्जगाम च सम्प्रीत्या त्वरितो राजशासनात् ।
सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया ॥ 65 ॥
व्यक्तं रामोऽभिषेकार्थमिहायास्यति धर्मवित् ।
इति सूतो मतिं कृत्वा हर्षेण महताऽऽवृतः ॥ 66 ॥
निर्जगाम महाबाहो राघवस्य दिदृक्षया ।
सागरह्रदसङ्काशात्सुमन्त्रोऽन्तःपुराच्छुभात् ॥ 67 ॥
निष्क्रम्य जनसम्बाधं ददर्श द्वारमग्रतः ।
ततः पुरस्तात्सहसा विनिर्गतो महीपतीन्द्वारगतो विलोकयन् ।
ददर्श पौरान्विविधान्महाधना नुपस्थितान्द्वारमुपेत्य विष्ठितान् ॥ 68 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे चतुर्दशस्सर्गः ॥