श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ दशमस्सर्गः ।
ततः क्रोधसमाविष्टं सम्रब्धं तमुपागतम् ।
अहं प्रसादयाञ्चक्रे भ्रातरं प्रियकाम्यया ॥ 1 ॥
दिष्ट्यासि कुशली प्राप्तो निहतश्च त्वया रिपुः ।
अनाथस्य हि मे नाथस्त्वमेकोऽनाथनन्दनः ॥ 2 ॥
इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम् ।
छत्रं सवालव्यजनं प्रतीच्छस्व मया धृतम् ॥ 3 ॥
आर्तश्चाथ बिलद्वारि स्थितस्संवत्सरं नृप ।
दृष्ट्वाऽहं शोणितं द्वारि बिलाच्चापि समुत्थितम् ॥ 4 ॥
शोकसंविग्नहृदयो भृशं व्याकुलितेन्द्रियः ।
अपिधाय बिलद्वारं शैलशृङ्गेण तत्तथा ॥ 5 ॥
तस्माद्देशादपाक्रम्य किष्किन्धां प्राविशं पुनः ।
विषादात्विह मां दृष्ट्वा पौरैर्मन्त्रिभिरेव च ॥ 6 ॥
अभिषिक्तो न कामेन तन्मेत्वं क्षन्तुमर्हसि ।
त्वमेव राजा मानार्हस्सदा चाहं यथा पुरम् ॥ 7 ॥
राजभावनियोगोऽयं मम त्वद्विरहात्कृतः ।
सामात्यपौरनगरं स्थितं निहतकण्टकम् ॥ 8 ॥
न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम् ।
मा च रोषं कृथास्सौम्य मयि शत्रुनिबर्हण ॥ 9 ॥
याचे त्वां शिरसा राजन्मया बद्धोऽयमञ्जलिः ।
बलादस्मिन् समागम्य मन्त्रिभिः पुरवासिभिः ॥ 10 ॥
राजभावे नियुक्तोऽहं शून्यदेशजिगीषया ।
स्निग्धमेवं ब्रुवाणं मां स तु निर्भर्त्स्य वानरः ॥ 11 ॥
धिक्त्वामिति च मा मुक्त्वा बहु तत्तदुवाच ह ।
प्रकृतीश्च समानीय मुन्त्रिणश्चैव सम्मतान् ॥ 12 ॥
मामाह सुहृदां मध्ये वाक्यं परमगर्हितम् ।
विदितं वो यथा रात्रौ मायावी स महासुरः ॥ 13 ॥
मां समाह्वयत क्रूरो युद्धाकाङ्क्षी सुदुर्मतिः ।
तस्य तद्वचनं श्रुत्वा निस्सृतोऽहं नृपालयात् ॥ 14 ॥
अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः ।
स तु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः ॥ 15 ॥
प्राद्रवद्भयसन्त्रस्तो वीक्ष्यावां समुपागतौ ।
अनुद्रुतश्च वेगेन प्रविवेश महाबिलम् ॥ 16 ॥
तं प्रविष्टं विदित्वा सुघोरं सुमहद्बिलम् ।
अयमुक्तोऽथ मे भ्राता मया तु क्रूरदर्शनः ॥ 17 ॥
अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम् ।
बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम् ॥ 18 ॥
स्थितोऽयमिति मत्वा तु प्रविष्टोऽहं दुरासदम् ।
तं च मे मार्गमाणस्य गतस्संवत्सरस्तदा ॥ 19 ॥
स तु दृष्टो मया शत्रुरनिर्वेदाद्भयावहः ।
निहतश्च मया तत्र सोऽसुरो बन्धुभिस्सह ॥ 20 ॥
तस्यास्यात्तु प्रवृत्तेन रुधिरौघेण तद्बिलम् ।
पूर्णमासीद्दुराक्रामं स्तनतस्तस्य भूतले ॥ 21 ॥
सूदयित्वा तु तं शत्रुं विक्रान्तं दुन्दुभेस्सुतम् ।
निष्क्रामन्नेव पश्यामि बिलस्य पिहितं मुखम् ॥ 22 ॥
विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः ।
यदा प्रतिवचो नास्ति ततोऽहं भृशदुःखितः ॥ 23 ॥
पादप्रहारैस्तु मया बहुभिस्तद्विदारितम् ।
ततोऽहं तेन निष्क्रम्य यथा पुरमुपागतः ॥ 24 ॥
अत्रानेनास्मि संरुद्धो राज्यं प्रार्थयताऽत्मनः ।
सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम् ॥ 25 ॥
एवमुक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः ।
निर्वासयामास तदा वाली विगतसाध्वसः ॥ 26 ॥
तेनाहमपविद्धश्च हृतदारश्च राघव ।
तद्भयाच्छ महीकृत्स्ना क्रान्तेयं सवनार्णवा ॥ 27 ॥
ऋष्यमूकं गिरिवरं भार्याहरणदुःखितः ।
प्रविष्टोऽस्मि दुराधर्षं वालिनः कारणान्तरे ॥ 28 ॥
एतत्ते सर्वमाख्यातं वैरानुकथनं महत् ।
अनागसा मया प्राप्तं व्यसनं पश्य राघव ॥ 29 ॥
वालिनस्तु भयार्तस्य सर्वलोकभयङ्कर ।
कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात् ॥ 30 ॥
एवमुक्तस्स तेजस्वी धर्मज्ञो धर्मसंहितम् ।
वचनं वक्तुमारेभे सुग्रीवं प्रहसन्निव ॥ 31 ॥
अमोघास्सूर्यसङ्काशा ममैते निशिता श्शराः ।
तस्मिन्वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः ॥ 32 ॥
यावत्तं नाभिपश्यामि तव भार्यापहारिणम् ।
तावत्स जीवेत्पापात्मा वाली चारित्रदूषकः ॥ 33 ॥
आत्मानुमानात्पश्यामि मग्नं त्वां शोकसागरे ।
त्वामहं तारयिष्यामि कामं प्राप्स्यसि पुष्कलम् ॥ 34 ॥
तस्य तद्वचनं श्रुत्वा हर्षपौरुषवर्धनम् ।
सुग्रीवः परमप्रीतस्सुमहद्वाक्यमब्रवीत् ॥ 35 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे दशमस्सर्गः ॥