श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ चतुःपञ्चाशस्सर्गः ।
तथा ब्रुवति तारे तु ताराधिपतिवर्चसि ।
अथ मेने हृतं राज्यं हनूमानङ्गदेन तत् ॥ 1 ॥
बुद्ध्या ह्यष्टाङ्गया युक्तं चतुर्बलसमन्वितम् ।
चतुर्दशगुणं मेने हनूमान्वालिनस्सुतम् ॥ 2 ॥
आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैः ।
शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया ॥ 3 ॥
बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः ।
शुश्रूषमाणं तारस्य शक्रस्येव पुरन्दरम् ॥ 4 ॥
भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविदांवरम् ।
अभिसन्धातुमारेभे हनूमानङ्गदं ततः ॥ 5 ॥
स चतुर्णामुपायानां तृतीयमुपवर्णयन् ।
भेदयामास तान्सर्वान् वानरान्वाक्यसम्पदा ॥ 6 ॥
तेषु सर्वेषु भिन्नेषु ततोऽभीषयदङ्गदम् ।
भीषणैर्भहुभिर्वाक्यैः कोपोपायसमन्वितैः ॥ 7 ॥
त्वं समर्थतरः पित्रा युद्धे तारेय वै धुरम् ।
दृढं धारयितुं शक्तः कपिराज्यं यथा पिता ॥ 8 ॥
नित्यमस्थिरचित्ता हि कपयो हरिपुङ्गव ।
नाज्ञाप्यं विषहिष्यन्ति पुत्रदारान्विना त्वया ॥ 9 ॥
त्वां नैतेह्यनुयुञ्जेयुः प्रत्यक्षं प्रवदामि ते ।
यथायं जाम्बवान्नीलस्सुहोत्रश्च महाकपिः ॥ 10 ॥
न ह्यहं ते इमे सर्वे सामदानादिभिर्गुणैः ।
दण्डेन वा त्वया शक्यास्सुग्रीवादपकर्षितम् ॥ 11 ॥
विगृह्यासनमप्याहुर्दुर्बलेन बलीयसः ।
आत्मरक्षाकरस्तस्मान्न विगृह्णीत दुर्बलः ॥ 12 ॥
यां चेमां मन्यसे धात्रीमेतद्बिलमिति श्रुतम् ।
एतल्लक्ष्मणबाणानामीषत्कार्यं विदारणे ॥ 13 ॥
स्वल्पं हि कृतमिन्द्रेण क्षिपता ह्यशनिं पुरा ।
लक्ष्मणो निशितैर्बाणैर्भिन्ध्यात्पत्रपुटं यथा ॥ 14 ॥
लक्ष्मणस्य च नाराचा बहवस्सन्ति तद्विधाः ।
वज्राशनिसमस्पर्शा गिरीणामपि दारणाः ॥ 15 ॥
अवस्थाने यदैव त्वमासिष्यसि परन्तप ।
तदैव हरयस्सर्वे त्यक्ष्यन्ति कृतनिश्चयाः ॥ 16 ॥
स्मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः ।
खेदिता दुःखशय्याभिस्त्वां करिष्यन्ति पृष्ठतः ॥ 17 ॥
स त्वं हीनस्सुहृद्भिश्च हितकामैश्च बन्धुभिः ।
तृणादपि भृशोद्विग्नस्स्पन्दमानाद्भविष्यसि ॥ 18 ॥
न च जातु न हिंस्युस्त्वां घोरा लक्ष्मणसायकाः ।
अपवृत्तं जिघांसन्तो महावेगा दुरासदाः ॥ 19 ॥
न च जातु न हिंस्युस्त्वा घोरा लक्ष्मणसायकाः ।
अपावृत्तं जिघांसन्तो महावेगा दुरासदाः ॥ 20 ॥
अस्माभिस्तु गतं सार्धं विनीतवदुपस्थितम् ।
आनुपूर्व्यात्तु सुग्रीवो राज्ये त्वां स्थापयिष्यति ॥ 21 ॥
धर्मकामः पितृव्यस्ते प्रीतिकामो दृढव्रतः ।
शुचिस्सत्यप्रतिज्ञश्च न त्वां जातु जिघांसति ॥ 22 ॥
प्रियकामश्च ते मातुस्तदर्थं चास्य जीवितम् ।
तस्यापत्यं च नास्त्यन्यत्तस्मादङ्गद गम्यताम् ॥ 23 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे चतुःपञ्चाशस्सर्गः ॥