View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.36 युद्धकाण्ड - षट्त्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ षट्त्रिंशस्सर्गः ।

तत्तुमाल्यवतोवाक्यंहितमुक्तन्दशाननः ।
नमर्षयतिदुष्टात्माकालस्यवशमागतः ॥ 1 ॥

नबद् ध्वाभ्रुकुटींवक्त्रेक्रोधस्यवशमागतः ।
अमर्षात्परिवृत्ताक्षोमाल्यवन्तमथाब्रवीत् ॥ 2 ॥

हितबुध्यायदहितंवचःपरुषमुच्यते ।
परपक्षम्प्रनिश्यैवनैतच्च्रोत्रगतम्मम ॥ 3 ॥

मानुषङ्कृपणंराममेकंशाखामृगाश्रयम् ।
समर्थम्मन्यसेकेनत्यक्तम्पित्रावनालयम् ॥ 4 ॥

रक्षसामीश्वरम्माञ्चदेवानाञ्चभयङ्करम् ।
हीनम्माम्मन्यसेकेनह्यहीनंसर्वविक्रमैः ॥ 5 ॥

वीरद्वेषेणवाशङ्केपक्षपातेनवारिपोः ।
त्वयाहम्परुषाण्युक्तःपरप्रोत्साहनेनवा ॥ 6 ॥

प्रभवन्तम्पदस्थंहिपरुषङ्कोऽभिभाषते ।
पण्डितश्शास्त्रतत्त्वज्ञोविनाप्रोत्साहनाद्रिपोः ॥ 7 ॥

आनीयचवनासतीताम्पद्महीनामिवश्रियम् ।
किमर्थम्प्रतिदास्यामिराघवस्यभयादहम् ॥ 8 ॥

वृतंवानरकोटीभिस्ससुग्रीवंसलक्ष्मणम् ।
पश्यकैश्चिदहोभिस्त्वंराघवन्निहतम्मया ॥ 9 ॥

द्वन्द्वेयस्यनतिष्ठन्तिदैवतान्यपिसंयुगे ।
सकस्माद्रावणोयुद्धेभयमाहारयिष्यति ॥ 10 ॥

द्विधाभज्येयमप्येवन्ननमेयन्तुकस्यचित् ।
एषमेसहजोदोषस्स्वभावोदुरतिक्रमः ॥ 11 ॥

यदितावत्समुद्रेतुसेतुर्बद्धोयदृच्छया ।
रामेणविस्मयःकोऽत्रयेवमेभयमागतम् ॥ 12 ॥

सतुतीर्त्वार्णवंरामस्सहवानरसेनया ।
प्रतिजानामितेसत्यन्नजीवन्प्रतियास्यति ॥ 13 ॥

एवं ब्रुवाणं सम्रब्धं रुष्टं विज्नाय रावणम् ।
व्रीडितो माल्यवान् वाक्यं न उत्तरं प्रत्यपद्यत ॥ 14 ॥

जयाशिषाचराजानंवर्धयित्वायथोचितम् ।
माल्यवानभ्यनुज्ञातोजगामस्वन्निवेशनम् ॥ 15 ॥

रावणस्तुसहामात्योमन्त्रयित्वाविमृश्यच ।
लङ्कायामतुलाङ्गुप्तिङ्कारयामासराक्षसः ॥ 16 ॥

व्यादिदेशसपूर्वस्याम्प्रहस्तन्द्वारिराक्षसम् ।
दक्षिणस्याम्महावीर्यौमहापार्श्वमहादरौ ॥ 17 ॥

पश्चिमायामथोद्वारिपुत्रमिन्द्रजितन्तदा ।
व्यादिदेशमयामायम्बहूभीराक्षसैर्भहुभिर्वृतम् ॥ 18 ॥

उतरस्याम्पुरद्वारिव्यादिश्यशुकसारणौ ।
स्वयञ्चात्रगमिष्यामिमन्त्रिणस्तानुवाचह ॥ 19 ॥

राक्षसान्तुविरूपाक्षम्महावीर्यपराक्रमम् ।
मध्यमेऽस्थापयद्गुल्मेबहुभिस्सहराक्षसैः ॥ 20 ॥

एवंविधानंलङ्कायाङ्कृत्वाराक्षसपुङ्गवः ।
कृतकृत्यमिवात्मानम्मन्यतेकालचोदितः ॥ 21 ॥

विसर्जयामासततस्समन्त्रिणोविधानमाज्ञाप्यपुरस्यपुष्कलम् ।
जयाशिषामन्त्रिगणेनपूजितोविवेशचाऽन्तःपुरमृद्धिमन्महत् ॥ 22 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे षट्त्रिंशस्सर्गः ॥




Browse Related Categories: