श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ दशाधिकशततमस्सर्गः ।
तौतथायुध्यमानौतुसमरेरामरावणौ ।
ददृशुस्सर्वभूतानिविस्मितेनान्तरात्मना ॥ 1 ॥
अर्धयन्तौतुसमरेतयोस्तौस्यन्दनोत्तमौ ।
परस्परमभिक्रुद्धौपरस्परमभिद्रुतौ ॥ 2 ॥
परस्परवधेयुक्तौघोररूपौबभूवतुः ।
मण्डलानि च वीधीश्चगतप्रत्यागतानि च ॥ 3 ॥
दर्शयन्तौबहुविधांसूतसामर्थ्यजाङ्गतिम् ।
अर्धयन्रावणंरामोराघवञ्चापिरावणः ॥ 4 ॥
गतिवेगंसमापन्नौप्रतिवेगप्रवर्तने ।
क्षिपतोश्शरजालानितयोस्तौस्यन्दनोत्तमौ ॥ 5 ॥
चेरतुस्सम्युगमहीं सासारौ जलदाविव ।
दर्शयित्वातदातौतुगतिम्बहुविधांरणे ॥ 6 ॥
परस्परस्याभिमुखौपुनरेव च तस्थतुः ।
धुरन्धुरेणरथयोर्वक्त्रंवक्त्रेणवाजिनाम् ॥ 7 ॥
पताकाश्चपताकाभिस्समीयुस्स्थितयोस्तदा ।
रावणस्यततोरामोधनुर्मुस्तैश्शितैश्शरैः ॥ 8 ॥
चतुर्भिश्चतुरोदीप्तान्हयान्प्रत्यपसर्पयत् ।
सक्रोधवशमापन्नोहयानामपसर्पणे ॥ 9 ॥
मुमोचनिशितान्बाणान्राघवायदशाननः ।
सोतिविद्धोबलवतादशग्रीवेणराघवः ॥ 10 ॥
जगाम न विकारं च न चापिव्यथितोऽभवत् ।
चिक्षेप च पुनर्भाणान्वज्रपातसमस्वनान् ॥ 11 ॥
सारथिंवज्रहस्तस्यसमुद्दिश्यदशाननः ।
मातलेस्तुमहावेगाश्शरीरेपतिताश्शराः ॥ 12 ॥
न सूक्ष्ममपिसम्मोहंव्यथांवाप्रददुर्युधि ।
तयाधर्षणयाक्रुद्धोमातलेर्नतथात्मनः ॥ 13 ॥
चकारशरजालेनराघवोविमुखंरिपुम् ।
विंशतिन्त्रिंशतिंषष्टिंशतशोऽथसहस्रशः ॥ 14 ॥
मुमोचराघवोवीरस्सायकान्स्यन्दनेरिपोः ।
रावणोऽपिततःक्रुद्धोरथस्थराक्षसेश्वरः ॥ 15 ॥
गदामुसलवर्षेणरामम्प्रत्यर्दयद्रणे ।
तत्प्रवृतम्पुनर्युद्धन्तुमुलंरोमहर्षणम् ॥ 16 ॥
गदानाम्मुसलानां च परिघाणाञ्चनिस्स्वनैः ।
शराणाम्पुङ्खवातैश्चक्षुभितास्सप्तसागराः ॥ 17 ॥
क्षुब्दानांसागराणां च पातालतलवासिनः ।
व्यथितादानवाःसर्वेपन्नगाश्चसहस्रशः ॥ 18 ॥
चकम्पेमेदिनीकृत्स्नासशैलवनकानना ।
भास्करोनिष्प्रभश्चासीन्नवनौचापिमारुतः ॥ 19 ॥
ततोदेवास्सगन्धर्वास्सिद्धाश्चपरमर्षयः ।
चिन्तामापेदिरेसर्वेसकिन्नरमहोरगाः ॥ 20 ॥
स्वस्तिगोब्राह्मणेभ्योऽस्तुलोकास्तिष्ठन्तुशाश्वताः ।
जयतांराघयसङ्ख्येरावणंराक्षसेश्वरम् ॥ 21 ॥
एवञ्जपन्तोऽपश्यंस्तेदेवास्सर्षिगणास्तदा ।
रामरावणयोर्युद्धंसुघोरंरोमहर्षणम् ॥ 22 ॥
गन्धर्वाप्सरसांसङ्घादृष्टवायुद्धमनूपमम् ।
गगनङ्गगनाकारंसागरस्सागरोपमः ॥ 23 ॥
रामरावणयोर्युद्धंरामरावणयोरिव ।
एवम्ब्रुवन्तोददृशुस्तद्युद्धंरामरावणम् ॥ 24 ॥
ततःक्रोधान्महाबासूरघूणाङ्कीर्तिवर्धनः ।
सन्धायधनुषारामश्शरमाशीविषोपमम् ॥ 25 ॥
रावणस्यशिरोऽच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम् ।
तछचिरःपतितम्भूमौदृष्टंइलोकैस्त्रिभिस्तदा ॥ 26 ॥
तस्यैवसदृशञ्चान्यद्रावणस्योत्थितंशिरः ।
तत्क्षिप्तङ्क्षिप्रहस्तेनरामेणक्षिप्रकारिणा ॥ 27 ॥
द्वितीयंरावणशिरश्छिन्नंसम्यतिसायकैः ।
छिन्नमात्रं च तच्चीर्षम्पुनरेवप्रदृश्यते ॥ 28 ॥
तदप्यशनिसङ्काशैश्छिन्नंरामस्यसायकैः ।
एवमेवशतञ्छिन्नंशिरसान्तुल्यवर्चसाम् ॥ 29 ॥
न चैवरावणस्यान्तोदृश्यतेजीवितक्षये ।
ततस्सर्वास्त्रविद्वीरःकौसल्यानन्दवर्धनः ॥ 30 ॥
मार्गणैर्बहुभिर्युक्तश्चिन्तयामासराघवः ।
मारीचोनिहतोयैस्तुखरोयैस्तुसदूषणः ॥ 31 ॥
क्रौञ्चावनेविराधस्तुकबन्धोदण्डकेवने ।
यैस्सालागिरयोभग्नावाली च क्षुभितोऽम्बुधिः ॥ 32 ॥
त इमेसायकास्सर्वेयुद्धेप्रात्ययिकामम किनुतत्कारणंयेनरावणेमन्दतेजसः ॥ 33 ॥
इतिचिन्तापरश्चासीदप्रमत्तश्चसम्युगे ।
ववर्षशरवर्षाणीराघवोरावणोरसि ॥ 34 ॥
रावणोऽपिततःक्रुद्धोरथस्थोराक्षसेश्वरः ।
गदामुसलवर्षेणरामम्प्रत्यर्दयद्रणे ॥ 35 ॥
तत्प्रवृत्तम्महद्युद्धन्तुमुलंरोमहर्षणम् ।
अन्तरिक्षे च भूमौ च पुनश्चगिरिमूर्धनि ॥ 36 ॥
देवदानवयक्षाणाम्पिशाचोरगरक्षसाम् ।
पश्यतान्तन्महायुद्धंसप्तरात्रमवर्तत ॥ 37 ॥
नैव रात्रिं न दिवसम्मुहूर्तं न च क्षणम् ।
रामरावणयोर्युद्धंविराममुपगच्छति ॥ 38 ॥
दशरथसुतराक्षसेन्द्रयोर्जयमनवेक्ष्यरणे स राघवस्य ।
सुरवररथसारथिर्महात्मारणरतराममुवाचवाक्यमाशु ॥ 39 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे दशाधिकशततमस्सर्गः ॥