श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ सप्तविंशत्यधिकशततमस्सर्गः ।
पूर्णेचतुर्दशेवर्षेपञ्चम्यांलक्ष्मणाग्रजः ।
भरद्वाजाश्रमम्प्राप्यववन्देनियतोमुनिम् ॥ 1 ॥
सोऽपृच्छदभिवाद्यैनम्भरद्वाजन्तपोधनम् ।
शृणोषिकच्चिद्भगवन्सुभिक्षानायमम्पुरे ॥ 2 ॥
कच्चित्सयुक्तोभरतोजीवन्त्यपि च मातरः ।
एवमुक्तस्तुरामेणभरद्वाजोमहामुनिः ॥ 3 ॥
प्रत्युवाचरघुश्रेष्ठंस्मितपूर्वम्प्रहृष्टवत् ।
पङ्कदिग्धस्तुभरतोजटिलस्त्वाम्प्रतीक्षते ॥ 4 ॥
पादुकतेपुरस्कृत्यसर्वं च कुशलङ्गृहे ।
त्वाम्पुराचीरवसनम्प्रविशन्तम्महावनम् ॥ 5 ॥
स्त्रीतृतीयञ्च्युतंराज्याद्धर्मकामं च केवलम् ।
पदातिन्त्यक्तसर्वस्वम्पितुर्वचनकारिणम् ॥ 6 ॥
सर्वभोगैःपरित्यक्तंस्वर्गच्युतमिवामरम् ।
दृष्टातुकरुणापूर्वम्ममासीत्समितिञ्जयः ॥ 7 ॥
कैकेयीवचनेयुक्तंवन्यमूलफलाशिनम् ।
साम्प्रतन्तुसमृद्धार्थंसमित्रगणबान्धवम् ॥ 8 ॥
समीक्ष्यविजितारिं च समाभूप्रतीतिरुत्तमा ।
सर्वं च सुखदुःखन्तेविदितम्ममराघव ।
यत्त्वयाविपुलम्प्राप्तञ्जनस्थान्नवधादिकम् ॥ 9 ॥
ब्राह्मणार्थेनियुक्तस्यरक्षतःसर्वतापसान् ।
रावणेनहृताभार्याबभूवेयमनिता ॥ 10 ॥
मारीचदर्शनञ्चैवसीतोन्मधनमेव च ।
कबन्धदर्शनञ्चैवसम्पाभिगमनन्तथा ॥ 11 ॥
सुग्रीवेण च तेसख्यंयथावालीहतस्त्वया ।
मार्गणञ्चैववैदेह्याःकर्मवातात्मजस्य च ॥ 12 ॥
विदितायां च सीतायान्नलसेतुर्यथाकृतः ।
यथाचादीपितालङ्काप्रहृष्टैर्हरियूथपैः ॥ 13 ॥
सपुत्रबान्दवामात्यःसबलःसहावाहनः ।
यथा च निहतःसङ्ख्येरावणोबलदर्पितः ॥ 14 ॥
यथा च निहतेतस्मिन् रावणेदेवकण्टके ।
समागमश्चत्रिदशैर्यथादत्तश्चतेवरः ॥ 15 ॥
सर्वम्ममैतद्विदितन्तपसाधर्मवत्सल ।
सम्पतन्ति च मेशिष्याःप्रवृत्ताख्याःपुरीमितः ॥ 16 ॥
अहमप्यद्यतेदद्मिवरंशस्त्रभृतांवर ।
अर्घ्यम्प्रतिगृहाणेदमयोध्यांश्वोगमिष्यसि ॥ 17 ॥
तस्यतच्छिरसावाक्यम्प्रतिगृह्यनृपात्मजः ।
बाढमित्येवसम्हृष्टःश्रीमान्वरमयाचत ॥ 18 ॥
अकालफलिनोवृक्षास्सर्वेचापिमधुस्रवाः ।
फलान्यमृतगन्धीनिबहूनिविविधानि च ॥ 19 ॥
भवन्तुमार्गेभगवन्नयोध्याम्प्रतिगच्छतः ।
तथेति च प्रतिज्ञातेवचनात्समनन्तरम् ॥ 20 ॥
अभवन्पादपास्तत्रस्वर्गपादपसन्निभाः ।
पुष्फलाःफलिनश्चासवनिपुष्पाःपुष्पशालिनः ॥ 21 ॥
शुष्कास्समग्रपत्रास्तेनगाश्चैवमधुस्रवाः ।
सर्वतोयोजनास्त्रिस्रोगच्छतामभवंस्तदा ॥ 22 ॥
ततःप्रहृष्टाःप्लवगर्षभास्तेबहूनिदिव्यानिफलानिचैव ।
कामादुपाश्नन्तिसहस्रशस्तेमुदावनितास्स्वर्गजितोमुदेव ॥ 23 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे सप्तविंशत्यधिकशततमस्सर्गः ॥