View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.37 युद्धकांड - सप्तत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ सप्तत्रिंशस्सर्गः ।

नरवानरराजौतौसतुवायुसुतःकपिः ।
जांबवानृक्षराजश्चराक्षसश्चविभीषणः ॥ 1 ॥

अंगदोवालिपुत्रश्चसौमित्रिश्शरभःकपिः ।
सुषेणस्सहदायादोमैंदोद्विविदएवच ॥ 2 ॥

गजोगवाक्षःकुमुदोनलोऽथपनसस्तथा ।
अमित्रविषयंप्राप्तास्समवेतास्समर्धयन् ॥ 3 ॥

इयंसालक्षयतेलंकापुरीरावणपालिता ।
सासुरोरगगंधर्वैरमरैरपिदुर्जया ॥ 4 ॥

कार्यसिद्धिंपुरस्कृत्यमंद्रयध्वंविनिर्णये ।
नित्यंसन्निहितोह्यत्ररावणोराक्षसाधिपः ॥ 5 ॥

तथातेषुब्रुवाणेषुरावणावरजोऽब्रवीत् ।
वाक्यमग्राम्यपदवत्पुष्कलार्धंविभीषणः ॥ 6 ॥

अनलश्शरभश्चैवसंपातिःप्रघसस्तथा ।
गत्वालंकांममामात्याःपुरींपुनरिहागताः ॥ 7 ॥

भूत्वाशकुनयस्सर्वेप्रविष्टाश्चरिपोर्भलम् ।
विधानंविहितंयच्चतद्धृष्टवासमुपस्थिताः ॥ 8 ॥

संविधानंयथाहुस्तेरावणस्यदुरात्मनः ।
राम तद्ब्रुवतस्सर्वंयथात्त्वेनमेशृणु ॥ 9 ॥

पूर्वंप्रहस्तस्सबलोद्वारमासाद्यतिष्ठति ।
दक्षिणंचमहावीर्यौमहापार्श्वमहोदरौ ॥ 10 ॥

इंद्रजित्पश्चिमंद्वारंराक्षसैर्भहुभिर्वृतः ।
पट्टसासिधनुष्मद्भिश्शूलमुद्गरपाणिभिः ॥ 11 ॥

नानाप्रहरणैश्शूरैरावृतोरावणात्मजः ।
राक्षसानांसहस्रैस्तुबहुभिश्शस्त्रपाणिभिः ॥ 12 ॥

युक्तःपरमसंविग्नोराक्षर्भहुभिर्वृतः ।
उत्तरंनगरद्वारंरावणस्स्वयमास्थितः ॥ 13 ॥

विरूपाक्षस्तुमहताशूलखडगधनुष्मता ।
बलेनराक्षसैस्सार्थंमध्यमंगुल्ममास्थितः ॥ 14 ॥

एतानेवंविधान्गुल्मान् लंकायांसमुदीक्ष्यते ।
मामकामंत्रिणस्सर्वेपुनशशीघ्रमिहागताः ॥ 15 ॥

गजानांचसाहस्रंचरथानामयुतंपुरे ।
हयानामयुतेद्वेचसाग्राकोटीचरक्षसाम् ॥ 16 ॥

विक्रांताबलवंतश्चसंयुगेष्वाततायिनः ।
इष्टाराक्षसराजस्यनित्यमेतेनिशाचराः ॥ 17 ॥

एकैकस्यात्रयुद्धार्थेराक्षसस्यविशांपते ।
परीवारस्सहस्राणांसहस्रमुपतिष्ठते ॥ 18 ॥

एतांप्रवृत्तिंलंकायांमंत्रिप्रोक्तांविभीषणः ।
एवमुक्त्वामहाबाहूराक्षसांस्तानदर्शयत् ॥ 19 ॥

लंकायांसचिवैस्सर्वंरामायप्रत्यवेदयत् ।
रामंकमलपत्राक्षमिदमुत्तरमब्रवीत् ॥ 20 ॥

रावणावरजःश्रीमान् रामप्रियचिकीर्षया ।
कुबेरंतुयदाराम रावणःप्रत्ययुध्यत ॥ 21 ॥

षष्टिश्शतसहस्राणितदानिर्यांतिरक्षसाः ।
राक्रमेणवीर्येणतेजसासत्त्वगौरवात् ॥ 22 ॥

सदृशाय्येऽत्रदर्पेणरावणस्यदुरात्मनः ।
अत्रमन्युर्नकर्तव्योरोषयेत्वांनभीषये ॥ 23 ॥

समर्थोह्यसिवीर्येणसुराणामपिनिग्रहे ।
तद्भवांश्चतुरंगेणबलेनमहातावृतः ॥ 24 ॥

व्यूह्येदंवानरानीकंनिर्मथिष्यतिरावणम् ।
रावणावरजेवाक्यमेवंब्रुवतिराघवः ॥ 25 ॥

शत्रूणांप्रतिघातार्थमिदंवचनमब्रवीत् ।
पूर्वद्वारेतुलंकायानीलोवानरपुंगवः ॥ 26 ॥

प्रहस्तप्रतियोद्धास्याद्वानरैर्बहुभिर्वृतः ।
अंगदोवालिपुत्रस्तुबलेनमहतावृतः ॥ 27 ॥

दक्षिणेबाधतांद्वारेमहापार्श्वमहोदरौ ।
हनुमान्पश्चिमद्वारंनिपीड्यपवनात्मजः ॥ 28 ॥

प्रविशत्वप्रमेयात्माबहुभिःकपिभिर्वृतः ।
दैत्यदावनसंघानामृषीणांचमहात्मनाम् ॥ 29 ॥

विप्रकारप्रियःक्षुद्रोवरदानबलान्वितः ।
परिक्रमतियःसर्वान्लोकान्संतापयन्प्रजाः ॥ 30 ॥

तस्याहंराक्षसेंद्रस्यस्वयमेववधेधृतः ।
उत्तरंनगरद्वारमहंसौमित्रिणासह ॥ 31 ॥

निपीड्याभिप्रवेक्ष्यामिसबलोयत्ररावणः ।
वानरेंद्रश्चबलवानृक्षराजश्चवीर्यवान् ॥ 32 ॥

राक्षसेंद्रानुजश्चैवगुलोभवतुमध्यमः ।
नचैवमानुषंरूपंकार्यंहरिभिराहवे ॥ 33 ॥

एषाभवतुसंङञान् युद्धेऽस्मिन् वानरेबले ।
वानराएवनश्चिह्नंस्वजनेऽस्मिन् भविष्यति ॥ 34 ॥

वयंतुमानुषेणैवसप्तयोत्प्यामहेपरान् ।
अहमेषममभ्रात्रालक्ष्मणेनमहौजसौ ॥ 35 ॥

आत्मनापंचमश्चायंसखाममविभीषणः ।
सरामःकृत्यसिध्यर्थएवमुक्त्वाविभीषणम् ॥ 36 ॥

सुवेलारोहणेबुद्धिश्चकारमतिमान्मतिम् ।
रमणीयतरंदृष्टवासुवेलस्यगिरेस्तटम् ॥ 37 ॥

ततस्तुरामोमहताबलेनप्रच्छाद्यसर्वांपृथिवींमहात्मा ।
प्रहृष्टरूपोऽभिजगामलंकांकृत्वामतिंसोऽरिवधेमहात्मा ॥ 38 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे सप्तत्रिंशस्सर्गः ॥




Browse Related Categories: