View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.37 युद्धकाण्ड - सप्तत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ सप्तत्रिंशस्सर्गः ।

नरवानरराजौतौसतुवायुसुतःकपिः ।
जाम्बवानृक्षराजश्चराक्षसश्चविभीषणः ॥ 1 ॥

अङ्गदोवालिपुत्रश्चसौमित्रिश्शरभःकपिः ।
सुषेणस्सहदायादोमैन्दोद्विविदएवच ॥ 2 ॥

गजोगवाक्षःकुमुदोनलोऽथपनसस्तथा ।
अमित्रविषयम्प्राप्तास्समवेतास्समर्धयन् ॥ 3 ॥

इयंसालक्षयतेलङ्कापुरीरावणपालिता ।
सासुरोरगगन्धर्वैरमरैरपिदुर्जया ॥ 4 ॥

कार्यसिद्धिम्पुरस्कृत्यमन्द्रयध्वंविनिर्णये ।
नित्यंसन्निहितोह्यत्ररावणोराक्षसाधिपः ॥ 5 ॥

तथातेषुब्रुवाणेषुरावणावरजोऽब्रवीत् ।
वाक्यमग्राम्यपदवत्पुष्कलार्धंविभीषणः ॥ 6 ॥

अनलश्शरभश्चैवसम्पातिःप्रघसस्तथा ।
गत्वालङ्काम्ममामात्याःपुरीम्पुनरिहागताः ॥ 7 ॥

भूत्वाशकुनयस्सर्वेप्रविष्टाश्चरिपोर्भलम् ।
विधानंविहितंयच्चतद्धृष्टवासमुपस्थिताः ॥ 8 ॥

संविधानंयथाहुस्तेरावणस्यदुरात्मनः ।
राम तद्ब्रुवतस्सर्वंयथात्त्वेनमेशृणु ॥ 9 ॥

पूर्वम्प्रहस्तस्सबलोद्वारमासाद्यतिष्ठति ।
दक्षिणञ्चमहावीर्यौमहापार्श्वमहोदरौ ॥ 10 ॥

इन्द्रजित्पश्चिमन्द्वारंराक्षसैर्भहुभिर्वृतः ।
पट्टसासिधनुष्मद्भिश्शूलमुद्गरपाणिभिः ॥ 11 ॥

नानाप्रहरणैश्शूरैरावृतोरावणात्मजः ।
राक्षसानांसहस्रैस्तुबहुभिश्शस्त्रपाणिभिः ॥ 12 ॥

युक्तःपरमसंविग्नोराक्षर्भहुभिर्वृतः ।
उत्तरन्नगरद्वारंरावणस्स्वयमास्थितः ॥ 13 ॥

विरूपाक्षस्तुमहताशूलखडगधनुष्मता ।
बलेनराक्षसैस्सार्थम्मध्यमङ्गुल्ममास्थितः ॥ 14 ॥

एतानेवंविधान्गुल्मान् लङ्कायांसमुदीक्ष्यते ।
मामकामन्त्रिणस्सर्वेपुनशशीघ्रमिहागताः ॥ 15 ॥

गजानाञ्चसाहस्रञ्चरथानामयुतम्पुरे ।
हयानामयुतेद्वेचसाग्राकोटीचरक्षसाम् ॥ 16 ॥

विक्रान्ताबलवन्तश्चसंयुगेष्वाततायिनः ।
इष्टाराक्षसराजस्यनित्यमेतेनिशाचराः ॥ 17 ॥

एकैकस्यात्रयुद्धार्थेराक्षसस्यविशाम्पते ।
परीवारस्सहस्राणांसहस्रमुपतिष्ठते ॥ 18 ॥

एताम्प्रवृत्तिंलङ्कायाम्मन्त्रिप्रोक्तांविभीषणः ।
एवमुक्त्वामहाबाहूराक्षसांस्तानदर्शयत् ॥ 19 ॥

लङ्कायांसचिवैस्सर्वंरामायप्रत्यवेदयत् ।
रामङ्कमलपत्राक्षमिदमुत्तरमब्रवीत् ॥ 20 ॥

रावणावरजःश्रीमान् रामप्रियचिकीर्षया ।
कुबेरन्तुयदाराम रावणःप्रत्ययुध्यत ॥ 21 ॥

षष्टिश्शतसहस्राणितदानिर्यान्तिरक्षसाः ।
राक्रमेणवीर्येणतेजसासत्त्वगौरवात् ॥ 22 ॥

सदृशाय्येऽत्रदर्पेणरावणस्यदुरात्मनः ।
अत्रमन्युर्नकर्तव्योरोषयेत्वान्नभीषये ॥ 23 ॥

समर्थोह्यसिवीर्येणसुराणामपिनिग्रहे ।
तद्भवांश्चतुरङ्गेणबलेनमहातावृतः ॥ 24 ॥

व्यूह्येदंवानरानीकन्निर्मथिष्यतिरावणम् ।
रावणावरजेवाक्यमेवम्ब्रुवतिराघवः ॥ 25 ॥

शत्रूणाम्प्रतिघातार्थमिदंवचनमब्रवीत् ।
पूर्वद्वारेतुलङ्कायानीलोवानरपुङ्गवः ॥ 26 ॥

प्रहस्तप्रतियोद्धास्याद्वानरैर्बहुभिर्वृतः ।
अङ्गदोवालिपुत्रस्तुबलेनमहतावृतः ॥ 27 ॥

दक्षिणेबाधतान्द्वारेमहापार्श्वमहोदरौ ।
हनुमान्पश्चिमद्वारन्निपीड्यपवनात्मजः ॥ 28 ॥

प्रविशत्वप्रमेयात्माबहुभिःकपिभिर्वृतः ।
दैत्यदावनसङ्घानामृषीणाञ्चमहात्मनाम् ॥ 29 ॥

विप्रकारप्रियःक्षुद्रोवरदानबलान्वितः ।
परिक्रमतियःसर्वान्लोकान्सन्तापयन्प्रजाः ॥ 30 ॥

तस्याहंराक्षसेन्द्रस्यस्वयमेववधेधृतः ।
उत्तरन्नगरद्वारमहंसौमित्रिणासह ॥ 31 ॥

निपीड्याभिप्रवेक्ष्यामिसबलोयत्ररावणः ।
वानरेन्द्रश्चबलवानृक्षराजश्चवीर्यवान् ॥ 32 ॥

राक्षसेन्द्रानुजश्चैवगुलोभवतुमध्यमः ।
नचैवमानुषंरूपङ्कार्यंहरिभिराहवे ॥ 33 ॥

एषाभवतुसंङञान् युद्धेऽस्मिन् वानरेबले ।
वानराएवनश्चिह्नंस्वजनेऽस्मिन् भविष्यति ॥ 34 ॥

वयन्तुमानुषेणैवसप्तयोत्प्यामहेपरान् ।
अहमेषममभ्रात्रालक्ष्मणेनमहौजसौ ॥ 35 ॥

आत्मनापञ्चमश्चायंसखाममविभीषणः ।
सरामःकृत्यसिध्यर्थएवमुक्त्वाविभीषणम् ॥ 36 ॥

सुवेलारोहणेबुद्धिश्चकारमतिमान्मतिम् ।
रमणीयतरन्दृष्टवासुवेलस्यगिरेस्तटम् ॥ 37 ॥

ततस्तुरामोमहताबलेनप्रच्छाद्यसर्वाम्पृथिवीम्महात्मा ।
प्रहृष्टरूपोऽभिजगामलङ्काङ्कृत्वामतिंसोऽरिवधेमहात्मा ॥ 38 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे सप्तत्रिंशस्सर्गः ॥




Browse Related Categories: