श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ षट्पञ्चाशस्सर्गः ।
ततस्तु शिंशुपामूले जानकीं पर्युपस्थिताम् ।
अभिवाद्याब्रवीद्दिष्ट्या पश्यामि त्वामिहाक्षताम् ॥ 1 ॥
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ।
भर्तृस्नेहान्वितं वाक्यं हनुमन्तमभाषत ॥ 2 ॥
काममस्य त्वमेवैकः कार्यस्य परिसाधने ।
पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ॥ 3 ॥
शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः ।
मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥ 4 ॥
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ।
भवत्याहवशूरस्य तथा त्वमुपपादय ॥ 5 ॥
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् ।
निशम्य हनुमांस्तस्या वाक्यमुत्तरमब्रवीत् ॥ 6 ॥
क्षिप्रमेष्यति काकुत्स्थः हर्यृक्षप्रवरैर्वृतः ।
यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति ॥ 7 ॥
एवमाश्वास्य वैदेहीं हनुमान् मारुतात्मजः ।
गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत् ॥ 8 ॥
ततस्स कपिशार्दूलः स्वामिसन्दर्शनोत्सुकः ।
आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः ॥ 9 ॥
तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः ।
सोत्तरीयमिवाम्भोदैः शृङ्गान्तरविलम्बिभिः ॥ 10 ॥
बोध्यमानमिव प्रीत्या दिवाकरकरैश्शुभैः ।
उन्मिषन्तमिवोद्धूतैर्लोचनैरिव धातुभिः ॥ 11 ॥
तोयौघननिस्स्वनैर्मन्द्रैः प्राधीतमिव पर्वतम् ।
प्रगीतमिव विस्पष्टैर्नानाप्रस्रवणस्वनैः ॥ 12 ॥
देवदारुभिरत्युच्चैरूर्ध्वबाहुमिव स्थितम् ।
प्रपातजलनिर्घोषैः प्राक्रुष्टमिव सर्वतः ॥ 13 ॥
वेपमानमिव श्यामैः कम्पमानैश्शरद्वनैः ।
वेणुभिर्मारुतोद्धूतैः कूजन्तमिव कीचकैः ॥ 14 ॥
निश्श्वसन्तमिवामर्षाद्घोरैराशीविषोत्तमैः ।
नीहारकृतगम्भीरैर्ध्यायन्तमिव गह्वरैः ॥ 15 ॥
मेघपादनिभैः पादैः प्रक्रान्तमिव सर्वतः ।
जृम्म्भमाणमिवाऽकाशे शिखरैरभ्रमालिभिः ॥ 16 ॥
कूटैश्च बहुधा कीर्णैश्शोभितं बहुकन्दरैः ।
सालतालाश्वकर्णैश्च वंशैश्च बहुभिर्वृतम् ॥ 17 ॥
लतावितानैर्विततैः पुष्पवद्भिरलङ्कृतम् ।
नानामृगगणाकीर्णं धातुनिष्यन्दभूषितम् ॥ 18 ॥
बहुप्रस्रवणोपेतं शिलासञ्चयसङ्कटम् ।
महर्षियक्षगन्धर्वकिन्नरोरगसेवितम् ॥ 19 ॥
लतापादपसङ्घातं सिंहाध्युषितकन्दरम् ।
व्याघ्रसङ्घसमाकीर्णं स्वादुमूलफलद्रुमम् ॥ 20 ॥
तमारुरोह हनुमान् पर्वतं पवनात्मजः ।
रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः ॥ 21 ॥
तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु ।
सघोषास्समशीर्यन्त शिलाश्चूर्णीकृतास्ततः ॥ 22 ॥
स तमारुह्य शैलेन्द्रं व्यवर्धत महाकपिः ।
दक्षिणादुत्तरं पारं प्रार्थयन् लवणाम्भसः ॥ 23 ॥
अधिरुह्य ततो वीरः पर्वतं पवनात्मजः ।
ददर्श सागरं भीमं मीनोरगनिषेवितम् ॥ 24 ॥
स मारुत इवाऽकाशं मारुतस्यात्मसम्भवः ।
प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम् ॥ 25 ॥
स तदा पीडितस्तेन कपिना पर्वतोत्तमः ।
ररास सह तैर्भूतैः प्रविशन्वसुधातलम् ॥ 26 ॥
कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः ।
तस्योरुवेगोन्मथिताः पादपाः पुष्पशालिनः ॥ 27 ॥
निपेतुर्भूतले रुग्णाश्शक्रायुधहता इव ।
कन्दरान्तरसंस्थानां पीडितानां महौजसाम् ॥ 28 ॥
सिंहानां निनदो भीमो नभो भिन्दन् स शुश्रुवे ।
त्रस्तव्यावृत्तवसना व्याकुलीकृतभूषणाः ॥ 29 ॥
विद्याधर्यः समुत्पेतुस्सहसा धरणीधरात् ।
अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः ॥ 30 ॥
निपीडितशिरोग्रीवा व्यचेष्टन्त महाहयः ।
किन्नरोरगन्धर्वयक्षविद्याधरास्तदा ॥ 31 ॥
पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः ।
स च भूमिधरः श्रीमान्बलिना तेन पीडितः ॥ 32 ॥
सवृक्षशिखरोदग्रः प्रविवेश रसातलम् ।
दशयोजनविस्तारस्त्रिंशद्योजनमुच्छ्रितः ॥ 33 ॥
धरण्यां समतां यातः स बभूव धराधरः ।
स लिलङ्घयिषुर्भीमं सलीलं लवणार्णवम् ॥ 34 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे षट्पञ्चाशस्सर्गः ॥