श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ चतुस्त्रिंशस्सर्गः ।
अथतांजातंतापांतेनवाक्येनमोहिताम् ।
सरमाह्लादयामासमहींघौरीमिवांभसा ॥ 1 ॥
ततस्तस्याहितंसख्याश्चिकीर्षंतीसखीवचः ।
उवाचकालेकालज्ञास्मितपूर्वाभिभाषिणी ॥ 2 ॥
उत्सहेयमहंगत्वात्वद्वाक्यमसितेक्षणेः ।
निवेद्यकुशलंरामेप्रतिच्छन्नानिवर्तितुम् ॥ 3 ॥
नहिमेक्रममाणायानिरालंबेविहायसि ।
समर्थोगतिमन्वेतुंपवनोगरुडोऽपिवा ॥ 4 ॥
एवंब्रुवाणांतांसीतासरमांपुनरब्रवीत् ।
मधुरंश्लक्क्षणयावाचापूर्वशोकाभिपन्नया ॥ 5 ॥
समर्थागगनंगंतुमपिवात्वंरसातलम् ।
अवगच्छाम्यकर्तव्यंकर्तव्यंतेमदंतरे ॥ 6 ॥
मत्प्रियंयदिकर्तव्यंयदिबुद्धिः स्थिरातव ।
ज्ञातुमिच्छामितंगत्वाकिंकरोतीतिरावणः ॥ 7 ॥
सहिमायाबलःक्रूरोरावणश्शत्रुरावणः ।
मांमोहयतिदुष्टात्मापीतामात्रेववारुणी ॥ 8 ॥
तर्जापयतिमांनित्यंभर्त्सापयतिचासकृत् ।
राक्षसीभिस्सुघूराभिर्यामांरक्षंतिनित्यशः ॥ 9 ॥
उद्विग्नाशंकिताचास्मिनस्वस्थंचमनोमम ।
तद्भयाच्चाहमुद्विग्नाअशोकवनिकांगता ॥ 10 ॥
यदिनामकथातस्यनिश्चितंवापियद्भवेत् ।
निवेदयेथास्सर्वंतत्परोमेस्यादमनुग्रहः ॥ 11 ॥
सात्वेवंब्रुवतींसीतांसरमावल्गुभाषिणी ।
उवाचवदनंतस्यास्स्पृशंतीबाष्पविक्लबम् ॥ 12 ॥
एषतेयद्यभिप्रायस्तदागच्छामिजानकीः ।
गृह्यशत्रोरभिप्रायमुपावृत्तांचपश्यमाम् ॥ 13 ॥
एवमुक्त्वाततोगत्वासमीपंतस्यरक्षसः ।
शुश्रावकथितंतस्यरावणस्यसमंत्रिणः ॥ 14 ॥
साश्रुत्वानिश्चयंतस्यनिश्चयज्ञादुरात्मनः ।
पुनरेवागमत्क्षिप्रमशोकवनिकांशुभाम् ॥ 15 ॥
साप्रविष्टाततस्तत्रददर्शजनकात्मजाम् ।
प्रतीक्षमाणांस्वामेवभ्रष्टपद्मामिवश्रियम् ॥ 16 ॥
तांतुसीतापुनःप्राप्तांसरमांवल्गुभाषिणीम् ।
परिष्वज्यचसुस्निग्धंददौचस्वयमासनम् ॥ 17 ॥
इहासीनासुखंसर्वमाख्याहिममतत्त्वतः ।
क्रूरस्यनिश्चयंतस्यरावणस्यदुरात्मनः ॥ 18 ॥
दीयतामभिसत्कृत्यमनुजेंद्रायमैथिली ।
निदर्शनंतेपर्याप्तंजनस्थानेयदद्भुतम् ॥ 19 ॥
लंघनंचसमुद्रस्यदर्शनंचहनूमतः ।
वधंचरक्षसांयुद्धेकःकुर्यान्मानुषोभुवि ॥ 20 ॥
एवंसमंत्रिवृद्धैश्चाविद्धेनबहुभाषितः ।
नत्वामुत्पनिहतेमोक्तुमर्थमर्थपरोयथा ॥ 21 ॥
नोत्सहत्यमृतोमोक्तुंयुद्धेत्वामितिमैथिलीः ।
सामात्यस्यनृशंसस्यनिश्चयोह्येषवर्तते ॥ 22 ॥
तदेषासुस्थिराबुद्धिर्मृत्युलोभादुपस्थिता ।
भयान्नशक्तस्त्वांमोक्तुमनिरस्तस्संयुगे ॥ 23 ॥
रक्षसानांचसर्वेषामात्मनश्चवधेनहि ।
निहत्यरावणंसङ् ख्येसर्वथानिशितैश्शरैः ॥ 24 ॥
प्रतिनेष्यतिरामस्त्वामयोध्यामसितेक्षणेः ।
एतस्मिन्नंतरेशब्दोभेरीशंखसमाकुलः ॥ 25 ॥
श्रुतोवानरसैन्यानांकंपयन् धरणीतलम् ।
श्रुत्वातुतद्वानरसैन्यशब्दंलंकागताराक्षसराजभृत्याः ।
नष्टौजसोदैन्यरीतचेष्टाःश्रेयोनपश्यंतिनृपस्यदोषैः ॥ 26 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे चतुस्त्रिंशस्सर्गः ॥