View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.69 अयोध्याकांड - एकोनसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ एकोनसप्ततितमस्सर्गः ।

यामेव रात्रिं ते दूताः प्रविशंति स्म तां पुरीम् ।
भरतेनापि तां रात्रिं स्वप्नो दृष्टोऽयमप्रियः ॥ 1 ॥

व्युष्टामेव तु तां रात्रिं दृष्ट्वा तं स्वप्नमप्रियम् ।
पुत्रो राजाधिराजस्य सुभृशं पर्यतप्यत ॥ 2 ॥

तप्यमानं समाज्ञाय वयस्याः प्रियवादिनः ।
आयासं हि विनेष्यंत स्सभायां चक्रिरे कथाः ॥ 3 ॥

वादयंति तथा शांतिं लास यंत्यपि चापरे ।
नाटकान्यपरे प्राहुर्हास्यानि विविधानि च ॥ 4 ॥

स तैर्महात्मा भरतस्सखिभिः प्रियवादिभिः ।
गोष्ठीहास्यानि कुर्वद्भिर्न प्राहृष्यत राघवः ॥ 5 ॥

तमब्रवीत्प्रियसखो भरतं सखिभिर्वृतम् ।
सुहृद्भिः पर्युपासीनः किं सखे नानुमोदसे ॥ 6 ॥

एवं ब्रुवाणं सुहृदं भरतः प्रत्युवाच ह ।
श्रुणु त्वं यन्निमित्तं मे दैन्यमेतदुपागतम् ॥ 7 ॥

स्वप्ने पितरमद्राक्षं मलिनं मुक्त मूर्धजम् ।
पतंतमद्रिशिखरात्कलुषे गोमयह्रदे ॥ 8 ॥

प्लवमानश्च मे दृष्टस्स तस्मिन्गोमयह्रदे ।
पिबन्नंजलिना तैलं हसन्नपि मुहुर्मुहुः ॥ 9 ॥

ततस्तिलौदनं भुक्त्वा पुनः पुनरधश्शिराः ।
तैलेनाभ्यक्तसर्वांगः तैलमेवान्वगाहत ॥ 10 ॥

स्वप्नेऽपि सागरं शुष्कं चंद्रं च पतितं भवि ।
उपरुद्धां च जगतीं तमसेव समावृताम् ॥ 11 ॥

औपवाह्यस्य नागस्य विषाणं शकलीकृतम् ।
सहसाचापि संशांतं ज्वलितं जातवेदसम् ॥ 12 ॥

अवतीर्णां च पृथिवीं शुष्कां श्च विविधान् द्रुमान् ।
अहं पश्यामि विध्वस्तान् सधूमांश्चापि पर्वतान् ॥ 13 ॥

पीठे कार्ष्णायसे चैनं निषण्णं कृष्णवाससम् ।
प्रहसंति स्म राजानं प्रमदाः कृष्णपिंगलाः ॥ 14 ॥

त्वरमाणश्च धर्मात्मा रक्तमाल्यानुलेपनः ।
रथेन खरयुक्तेन प्रयातो दक्षिणामुखः ॥ 15 ॥

प्रहसंतीव राजानं प्रमदा रक्तवासिनी ।
प्रकर्षंती मया दृष्टा राक्षसी विकृतानना ॥ 16 ॥

एवमेतन्मया दृष्टमिमां रात्रिं भयावहम् ।
अहं रामोऽथवा राजा लक्ष्मणो वा मरिष्यति ॥ 17 ॥

नरो यानेन य स्स्वप्ने स्वरयुक्तेन याति हि ।
अचिरात्तस्य धूमाग्रं चितायां संप्रदृश्यते ॥ 18 ॥

एतन्निमित्तं दीनोऽहं तन्नवः प्रतिपूजये ।
शुष्यतीव च मे कंठः न स्वस्थमिव मे मनः ॥ 19 ॥

न पश्यामि भयस्थानं भयं चैवोपधारये भ्रष्टश्च स्वरयोगो मे छाया चोपहता मम ।
जुगुप्सन्निव चाऽत्मानं न पश्यमि च कारणम् ॥ 20 ॥

इमां च दुस्स्वप्नगतिं निशाम्यतामनेकरूपामवितर्कितां पुरा ।
भयं महत्तद्धृदयान्नयाति मे विचिंत्य राजानमचिंतदर्शनम् ॥ 21 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे एकोनसप्ततितमस्सर्गः ॥




Browse Related Categories: