श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ एकोनचत्वारिंशस्सर्गः ।
एवमस्मि तदा मुक्तः कथञ्चित्तेन संयुगे ।
इदानीमपि यद्वृत्तं तच्छृणुष्व निरुत्तरम् ॥ 1 ॥
राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथा कृतः ।
सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावनम् ॥ 2 ॥
दीप्तजिह्वो महाकायस्तीक्ष्णदंष्ट्रो महाबलः ।
व्यचरं दण्डकारण्यं मांसभक्षो महामृगः ॥ 3 ॥
अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण ।
अत्यन्तघोरो व्यचरं तापसान्सम्प्रधर्षयन् ॥ 4 ॥
निहत्य दण्डकारण्ये तापसान्धर्मचारिणः ।
रुधिराणि पिबंस्तेषां तथा मांसानि भक्षयन् ॥ 5 ॥
ऋषिमांसाशनः क्रूरस्त्रासयन्वनगोचरान् ।
तथा रुधिरमत्तोऽहं विचरन्धर्मदूषकः ॥ 6 ॥
आसादयं तदा रामं तापसं धर्मचारिणम् ।
वैदेहीं च महाभागां लक्ष्मणं च महारथम् ॥ 7 ॥
तापसं नियताहारं सर्वभूतहिते रतम् ।
सोऽहं वनगतं रामं परिभूय महाबलम् ॥ 8 ॥
तापसोऽयमिति ज्ञात्वा पूर्ववैरमनुस्मरन् ।
अभ्यधावं हि सङ्क्रुद्धस्तीक्ष्ण शृङ्गो मृगाकृतिः ॥ 9 ॥
जिघांसुरकृतप्रज्ञस्तं प्रहारमनुस्मरन् ।
तेन मुक्तास्त्रयो बाणाश्शिताश्शत्रुनिबर्हणाः ॥ 10 ॥
विकृष्य बलवच्चापं सुपर्णानिलनिस्स्वनाः ।
ते बाणा वज्रसङ्काशास्सुमुक्ता रक्तभोजनाः ।
आजग्मुस्सहितास्सर्वे त्रयस्सन्नतपर्वणः ॥ 11 ॥
पराक्रमज्ञो रामस्य शठो दृष्टभयः पुरा ।
समुद्भान्तस्ततोमुक्तस्तावुभौ राक्षसौ हतौ ॥ 12 ॥
शरेण मुक्तो रामस्य कथञ्चित्प्राप्य जीवितम् ।
इह प्रव्राजितो युक्तस्तापसोऽहं समाहितः ॥ 13 ॥
वृक्षे वृक्षे च पश्यामि चीरकृष्णाजिनाम्बरम् ।
गृहीतधनुषं रामं पाशहस्तमिवान्तकम् ॥ 14 ॥
अपि रामसहस्राणि भीतः पश्यामि रावण ।
रामभूतमिदं सर्वमरण्यं प्रतिभाति मे ॥ 15 ॥
राममेव हि पश्यामि रहिते राक्षसाधिप ।
दृष्ट्वा स्वप्नगतं राममुद्भ्रमामि विचेतनः ॥ 16 ॥
रकारादीनि नामानि रामत्रस्तस्य रावण ।
रत्नानि च रथाश्चैव त्रासं सञ्जनयन्ति मे ॥ 17 ॥
अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम् ।
बलिं वा नमुचिं वापि हन्याद्धि रघुनन्दनः ॥ 18 ॥
रणे रामेण युद्ध्यस्व क्षमां वा कुरु राक्षस ।
न ते रामकथा कार्या यदि मां द्रष्टुमिच्छसि ॥ 19 ॥
बहवस्साधवो लोके युक्ता धर्ममनुष्ठिताः ।
परेषामपराधेन विनष्ठास्सपरिच्छदाः ॥ 20 ॥
सोऽऽहं तवापराधेन विनश्येयं निशाचर ।
कुरु यत्ते क्षमं तत्त्वमहं त्वा नानुयामि ह ॥ 21 ॥
रामश्च हि महातेजा महासत्त्वो महाबलः ॥ 22 ॥
अपि राक्षसलोकस्य न भवेदन्तकोऽपि सः ।
यदि शूर्पणखाहेतोर्जनस्थानगतः खरः ॥ 23 ॥
अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा ।
अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः ॥ 24 ॥
इदं वचो बन्धुहितार्थिनामया यथोच्यमानं यदि नाभिपत्स्यसे ।
सबान्धवस्त्यक्ष्यसि जीवितं रणे हतोऽऽद्य रामेण शरैरजिह्मगैः ॥ 25 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे एकोनचत्वारिंशस्सर्गः ॥