View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.116 युद्धकांड - षोडशाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ षोडशाधिकशततमस्सर्गः ।

इतिप्रतिसमादिष्टोहनूमान्मारुतात्मजः ।
प्रविवेशपुरींलंकांपूज्यमानोनिशाचरैः ॥ 1 ॥

प्रविश्य चपुरींलंकांपूज्यमानोनिशाचारैः ।
ततस्तेनाभ्युनुज्ञातोहनुमान्वृक्षवाटिकाम् ॥ 2 ॥

प्रविशंतीव गात्राणि स्वान्येव जनकात्मजा ।
वाक्षल्यैस्तैः सशल्येव भृशमश्रूण्यवर्तयत् ॥ 3 ॥

वृक्षमूलेनिरानंदांराक्षसीभिःपरीवृताम् ।
निभृतःप्रणतःप्रह्वस्सोऽभिगम्याभिवाद्य च ॥ 4 ॥

दृष्टवासमागतंदेवीहनूमंतंमहाबलम् ।
तूष्णीमास्ततदादृष्टवास्मृत्वासृष्टाभवत्तदा ॥ 5 ॥

सौम्यंतस्यामुखंदृष्टवाहनुमान्प्लवगोत्तमः ।
रामस्यवचनंसर्वमाख्यातुमुपचक्रमे ॥ 6 ॥

वैदेही कुशलीरामस्सहसुग्रीवलक्ष्मणः ।
वभीषणसहायश्चहरीणांसहितोबलैः ॥ 7 ॥

कुशलंचाहसिद्धार्थोहतशत्रुरिमत्रजित् ।
विभीषणसहायेनरामेणहरिभिस्सह ॥ 8 ॥

निहतोरावणोदेविलक्ष्मणेन च वीर्यवान् ।
प्रियमाख्यामितेदेविभूयश्चत्वांसभाजये ॥ 9 ॥

तवप्रभावाद्धर्मजेमहान् रामेणसंयुगे ।
लब्धोऽयंविजयस्सीतेस्वस्थाभवगतज्वरा ॥ 10 ॥

रावणश्चहतश्शत्रुर्लंकचैववशीकृता ।
मयाह्यलबंदिद्रेणधृतेनतवनिर्जये ॥ 11 ॥

प्रतिज्ञैषाविनिस्तीर्णाबद्ध्वासेतुंमहोदधौ ।
संभ्रमश्च न कर्तव्योवर्तंत्यारावणालये ॥ 12 ॥

विभीषणविधेयंहिलंकैश्वर्यमिदंकृतम् ।
तदाश्वसिहिविस्रब्धंस्वगृहेपरिवर्तसे ॥ 13 ॥

अयंचाभ्येतिसम्हृष्टस्त्वद्धर्शनसमुत्सुकः ।
एवमुक्तासमुत्पत्यसीताशशिनिभानना ॥ 14 ॥

प्रहर्षेणावरुद्धासाव्याहर्तुं न शशाक ह ।
ततोऽब्रवीद्धरिवरःसीतामप्रतिजल्पतीम् ॥ 15 ॥

किंत्वंचिंतयसेदेविकिं च मांनाभिभाषसे ।
एवमुक्ताहनुमतासीताधर्मपथेस्थिता ॥ 16 ॥

अब्रवीत्परमप्रीताबाष्पगद्गदयागिरा ।
प्रियमेतदुपश्रुत्यभर्तुर्विजयसंश्रयम् ॥ 17 ॥

प्रहर्षवशमापन्नानिर्वाक्यास्मिक्षणांतरम् ।
न हिपश्यामिसदृशंचिंतयंतीप्लवंगमा ॥ 18 ॥

मप्रतियाब्यानकस्येहदातुंप्रत्यभिनंदनम् ।
नहिपश्यामिततसौम्यपृथिव्यामपिवानर ॥ 19 ॥

सदृशंयत्प्रियाख्यानेतवदत्त्वाभवेत्सुखम् ।
हिरण्यंवासुवर्णंवारत्नानिविविधानिच ॥ 20 ॥

राज्यंवात्रिषुलोकेषुनैतदर्हतिभाषितम् ।
एवमुक्तस्तुवैदेह्याप्रत्युवाचप्लवंगमः ॥ 21 ॥

प्रगृहीतांजलिर्हर्षासतीतायाःप्रमुखेस्थितः ।
भर्तुःप्रियहितेयुक्तेभर्तुर्विजयकांक्षिणः ॥ 22 ॥

स्निग्धमेवंविधंवाक्यंत्वमेवार्हस्यनिंदिते ।
तवैतद्वचनंसौम्येसारवत् स्निग्धमेव च ॥ 23 ॥

रत्नौघाद्विविधाच्चापिदेवराज्याद्विशिष्यते ।
अर्थतश्चमयाप्राप्तादेवरज्यादयोगुणाः ॥ 24 ॥

हतशत्रुंविजयिनंरामंपश्यामिसुस्थितम् ।
तस्यतद्वचनंश्रुत्वामैथिलीजनकात्मजा ॥ 25 ॥

ततःशुभतरंवाक्यमुवाचपवनात्मजम् ।
अतिलक्षणसंपन्नंमाधुर्यगुणभूषितम् ॥ 26 ॥

बुद्ध्याह्यष्टांगयायुक्तंत्वमेवार्हसिभाषितुम् ।
श्लाघनीयोऽनिलस्यत्वंसुतःपरमधार्मिकः ॥ 27 ॥

बलंशौर्यंश्रुतंसत्त्वंविक्रमोदाक्ष्यमुत्तमम् ।
तेजःक्षमाधृतिस्स्थैर्यंविनीतत्वं न संशयः ॥ 28 ॥

एतेचान्ये च बहवोगुणास्त्वय्येवशोभनाः ।
अथोवाचपुनस्सीतामसंभ्रांतोविनीतवत् ॥ 29 ॥

प्रगृहीतांचलिर्हर्षात्सीतायाःप्रमुखेस्थितः ।
इमास्तुखलुराक्षस्योयदित्वमनुमन्यसे ॥ 30 ॥

हंतुमिच्छामितास्सर्वायाभिस्त्वंतर्जितापुरा ।
क्लिश्यंतीं पतिदेवांत्वामशोकवनिकांगताम् ॥ 31 ॥

घोररूपसमाचाराःक्रूराःक्रूरतरेक्षणाः ।
इहश्रुतामयादेवि राक्षस्योविकृताननाः ॥ 32 ॥

असकृत्परुषैर्वाक्यैर्वद्नत्योरावणाज्ञया ।
विकृताविकृताकाराःक्रूराःक्रूरकचेक्षणाः ॥ 33 ॥

इच्छामिविविधैराघतैर्हंतुमेतास्सुदारुणाः ।
राक्षस्योदारुणकथावरमेतत्प्रयच्छमे ॥ 34 ॥

मुष्टिभिःपर्षिणघातैश्चविशालैश्चैवबाहुभिः ।
जंघाजानुप्रहारैश्चदंतानांचैवपीडनैः ॥ 35 ॥

भक्षणैःकर्णनासानांकेशानांलुंचनैस्तथा ।
भृशंशुष्कमुखैश्चैवदारणैर्लंघनैर्हतैः ॥ 36 ॥

विभिन्नशंकुग्रीवांशपार्श्वकैश्चकलेवरैः ।
निपात्यहंतुमिच्छामितवविप्रियकारिणीः ॥ 37 ॥

एवंप्रहारैर्बहुभिःसंप्प्रहार्ययशस्विनि ।
घातयेतीव्ररूपाभिर्याभिस्त्वंतर्जितापुरा ॥ 38 ॥

इत्युक्तासाहनुमताकृपणादीनवत्सला ।
हनूमंतमुवाचेदंचिंतयित्वाविमृश्य च ॥ 39 ॥

राजसंश्रयवश्यानांकुर्वतीनांपराज्ञया ।
विधेयानां च दासीनांकःकुप्यद्वानरोत्तम ॥ 40 ॥

भाग्यवैषम्यदोषेणपुरस्ताद्धुष्कृतेन च ।
मयैतत्प्राप्यसर्वंस्वकृतंह्युपभुज्यते ॥ 41 ॥

मैवंवदमहाबाहो दैवेह्येषापरागतिः ।
प्राप्तव्यंतुदशायोगान्मयैतदितिनिश्चितम् ॥ 42 ॥

दासीनांरावणस्याहंमर्षयामीहदुर्बला ।
आज्ञप्ताराक्षसेनेहराक्षस्यस्तर्जयंतिमाम् ॥ 43 ॥

हतेतस्मिन्नकुर्वंतितर्जनंमारुतात्मज ।
अयंव्याघ्रसमीपेतुपुराणोधर्मसंहितः ॥ 44 ॥

ऋक्षेणगीतःश्लोकोऽस्तितंनिबोधप्लवंगम ।
न परः पापमादत्तेपरेषांपापकर्मणाम् ॥ 45 ॥

समयोरक्षितव्यस्तुसप्तश्चारित्रभूषणाः ।
पापानांवाशुभानांवावधार्हाणांप्लवंगम ॥ 46 ॥

कार्यंकरुण्यमार्येण न कश्चिन्नापराध्यति ।
लोकहिंसाविहाराणांरक्षसांकामरूपिणाम् ॥ 47 ॥

कुर्वतामपिपापानिनैवकार्यमशोभनम् ।
एवमुक्तस्तुहनुमान् सीतयावाक्यकोविदः ॥ 48 ॥

प्रत्युवाचततस्सीतांरामपत्नीयशश्विनीम् ।
युक्तारामस्यभवतीधर्मपत्नीयशश्विनी ॥ 49 ॥

प्रतिसंदिशमांदेवि गमिष्येयत्रराघवः ।
एवमुक्ताहनुमतावैदेहिजनकात्मजा ॥ 50 ॥

साब्रवीद्ध्रष्टुमिच्छामिभर्तारंवानरोत्तम ।
तस्यास्तद्वचनंश्रुत्वाहनुमान्पवनात्मजः ॥ 51 ॥

हर्षयन्मैथिलींवाक्यमुवाचेदंमहामतिः ।
पूर्णचंद्राननंरामंद्रक्ष्यस्यार्येसलक्ष्मणम् ॥ 52 ॥

स्थिरमित्रंहतामित्रंशचीवत्रिदशेश्वरम् ।
तामेवमुक्त्वाराजंतींसीतांसाक्षादिवश्रियम् ॥ 53 ॥

आजगाममहावेगोहनूमान्यत्रराघवः ।
सपदिहरिवरस्ततोहनूमान् प्रतिवचनंजनकेश्वरात्मजायाः ।
कथितमकथयद्यथाक्रमेणत्रिदशवरप्रतिमायराघवाय ॥ 54 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे षोडशाधिकशततमस्सर्गः ॥




Browse Related Categories: