View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.116 युद्धकाण्ड - षोडशाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ षोडशाधिकशततमस्सर्गः ।

इतिप्रतिसमादिष्टोहनूमान्मारुतात्मजः ।
प्रविवेशपुरींलङ्काम्पूज्यमानोनिशाचरैः ॥ 1 ॥

प्रविश्य चपुरींलङ्काम्पूज्यमानोनिशाचारैः ।
ततस्तेनाभ्युनुज्ञातोहनुमान्वृक्षवाटिकाम् ॥ 2 ॥

प्रविशन्तीव गात्राणि स्वान्येव जनकात्मजा ।
वाक्षल्यैस्तैः सशल्येव भृशमश्रूण्यवर्तयत् ॥ 3 ॥

वृक्षमूलेनिरानन्दांराक्षसीभिःपरीवृताम् ।
निभृतःप्रणतःप्रह्वस्सोऽभिगम्याभिवाद्य च ॥ 4 ॥

दृष्टवासमागतन्देवीहनूमन्तम्महाबलम् ।
तूष्णीमास्ततदादृष्टवास्मृत्वासृष्टाभवत्तदा ॥ 5 ॥

सौम्यन्तस्यामुखन्दृष्टवाहनुमान्प्लवगोत्तमः ।
रामस्यवचनंसर्वमाख्यातुमुपचक्रमे ॥ 6 ॥

वैदेही कुशलीरामस्सहसुग्रीवलक्ष्मणः ।
वभीषणसहायश्चहरीणांसहितोबलैः ॥ 7 ॥

कुशलञ्चाहसिद्धार्थोहतशत्रुरिमत्रजित् ।
विभीषणसहायेनरामेणहरिभिस्सह ॥ 8 ॥

निहतोरावणोदेविलक्ष्मणेन च वीर्यवान् ।
प्रियमाख्यामितेदेविभूयश्चत्वांसभाजये ॥ 9 ॥

तवप्रभावाद्धर्मजेमहान् रामेणसंयुगे ।
लब्धोऽयंविजयस्सीतेस्वस्थाभवगतज्वरा ॥ 10 ॥

रावणश्चहतश्शत्रुर्लङ्कचैववशीकृता ।
मयाह्यलब्न्दिद्रेणधृतेनतवनिर्जये ॥ 11 ॥

प्रतिज्ञैषाविनिस्तीर्णाबद्ध्वासेतुम्महोदधौ ।
सम्भ्रमश्च न कर्तव्योवर्तन्त्यारावणालये ॥ 12 ॥

विभीषणविधेयंहिलङ्कैश्वर्यमिदङ्कृतम् ।
तदाश्वसिहिविस्रब्धंस्वगृहेपरिवर्तसे ॥ 13 ॥

अयञ्चाभ्येतिसम्हृष्टस्त्वद्धर्शनसमुत्सुकः ।
एवमुक्तासमुत्पत्यसीताशशिनिभानना ॥ 14 ॥

प्रहर्षेणावरुद्धासाव्याहर्तुं न शशाक ह ।
ततोऽब्रवीद्धरिवरःसीतामप्रतिजल्पतीम् ॥ 15 ॥

किन्त्वञ्चिन्तयसेदेविकिं च मान्नाभिभाषसे ।
एवमुक्ताहनुमतासीताधर्मपथेस्थिता ॥ 16 ॥

अब्रवीत्परमप्रीताबाष्पगद्गदयागिरा ।
प्रियमेतदुपश्रुत्यभर्तुर्विजयसंश्रयम् ॥ 17 ॥

प्रहर्षवशमापन्नानिर्वाक्यास्मिक्षणान्तरम् ।
न हिपश्यामिसदृशञ्चिन्तयन्तीप्लवङ्गमा ॥ 18 ॥

मप्रतियाब्यानकस्येहदातुम्प्रत्यभिनन्दनम् ।
नहिपश्यामिततसौम्यपृथिव्यामपिवानर ॥ 19 ॥

सदृशंयत्प्रियाख्यानेतवदत्त्वाभवेत्सुखम् ।
हिरण्यंवासुवर्णंवारत्नानिविविधानिच ॥ 20 ॥

राज्यंवात्रिषुलोकेषुनैतदर्हतिभाषितम् ।
एवमुक्तस्तुवैदेह्याप्रत्युवाचप्लवङ्गमः ॥ 21 ॥

प्रगृहीताञ्जलिर्हर्षासतीतायाःप्रमुखेस्थितः ।
भर्तुःप्रियहितेयुक्तेभर्तुर्विजयकाङ्क्षिणः ॥ 22 ॥

स्निग्धमेवंविधंवाक्यन्त्वमेवार्हस्यनिन्दिते ।
तवैतद्वचनंसौम्येसारवत् स्निग्धमेव च ॥ 23 ॥

रत्नौघाद्विविधाच्चापिदेवराज्याद्विशिष्यते ।
अर्थतश्चमयाप्राप्तादेवरज्यादयोगुणाः ॥ 24 ॥

हतशत्रुंविजयिनंरामम्पश्यामिसुस्थितम् ।
तस्यतद्वचनंश्रुत्वामैथिलीजनकात्मजा ॥ 25 ॥

ततःशुभतरंवाक्यमुवाचपवनात्मजम् ।
अतिलक्षणसम्पन्नम्माधुर्यगुणभूषितम् ॥ 26 ॥

बुद्ध्याह्यष्टाङ्गयायुक्तन्त्वमेवार्हसिभाषितुम् ।
श्लाघनीयोऽनिलस्यत्वंसुतःपरमधार्मिकः ॥ 27 ॥

बलंशौर्यंश्रुतंसत्त्वंविक्रमोदाक्ष्यमुत्तमम् ।
तेजःक्षमाधृतिस्स्थैर्यंविनीतत्वं न संशयः ॥ 28 ॥

एतेचान्ये च बहवोगुणास्त्वय्येवशोभनाः ।
अथोवाचपुनस्सीतामसम्भ्रान्तोविनीतवत् ॥ 29 ॥

प्रगृहीताञ्चलिर्हर्षात्सीतायाःप्रमुखेस्थितः ।
इमास्तुखलुराक्षस्योयदित्वमनुमन्यसे ॥ 30 ॥

हन्तुमिच्छामितास्सर्वायाभिस्त्वन्तर्जितापुरा ।
क्लिश्यन्तीं पतिदेवान्त्वामशोकवनिकाङ्गताम् ॥ 31 ॥

घोररूपसमाचाराःक्रूराःक्रूरतरेक्षणाः ।
इहश्रुतामयादेवि राक्षस्योविकृताननाः ॥ 32 ॥

असकृत्परुषैर्वाक्यैर्वद्नत्योरावणाज्ञया ।
विकृताविकृताकाराःक्रूराःक्रूरकचेक्षणाः ॥ 33 ॥

इच्छामिविविधैराघतैर्हन्तुमेतास्सुदारुणाः ।
राक्षस्योदारुणकथावरमेतत्प्रयच्छमे ॥ 34 ॥

मुष्टिभिःपर्षिणघातैश्चविशालैश्चैवबाहुभिः ।
जङ्घाजानुप्रहारैश्चदन्तानाञ्चैवपीडनैः ॥ 35 ॥

भक्षणैःकर्णनासानाङ्केशानांलुञ्चनैस्तथा ।
भृशंशुष्कमुखैश्चैवदारणैर्लङ्घनैर्हतैः ॥ 36 ॥

विभिन्नशङ्कुग्रीवांशपार्श्वकैश्चकलेवरैः ।
निपात्यहन्तुमिच्छामितवविप्रियकारिणीः ॥ 37 ॥

एवम्प्रहारैर्बहुभिःसम्प्प्रहार्ययशस्विनि ।
घातयेतीव्ररूपाभिर्याभिस्त्वन्तर्जितापुरा ॥ 38 ॥

इत्युक्तासाहनुमताकृपणादीनवत्सला ।
हनूमन्तमुवाचेदञ्चिन्तयित्वाविमृश्य च ॥ 39 ॥

राजसंश्रयवश्यानाङ्कुर्वतीनाम्पराज्ञया ।
विधेयानां च दासीनाङ्कःकुप्यद्वानरोत्तम ॥ 40 ॥

भाग्यवैषम्यदोषेणपुरस्ताद्धुष्कृतेन च ।
मयैतत्प्राप्यसर्वंस्वकृतंह्युपभुज्यते ॥ 41 ॥

मैवंवदमहाबाहो दैवेह्येषापरागतिः ।
प्राप्तव्यन्तुदशायोगान्मयैतदितिनिश्चितम् ॥ 42 ॥

दासीनांरावणस्याहम्मर्षयामीहदुर्बला ।
आज्ञप्ताराक्षसेनेहराक्षस्यस्तर्जयन्तिमाम् ॥ 43 ॥

हतेतस्मिन्नकुर्वन्तितर्जनम्मारुतात्मज ।
अयंव्याघ्रसमीपेतुपुराणोधर्मसंहितः ॥ 44 ॥

ऋक्षेणगीतःश्लोकोऽस्तितन्निबोधप्लवङ्गम ।
न परः पापमादत्तेपरेषाम्पापकर्मणाम् ॥ 45 ॥

समयोरक्षितव्यस्तुसप्तश्चारित्रभूषणाः ।
पापानांवाशुभानांवावधार्हाणाम्प्लवङ्गम ॥ 46 ॥

कार्यङ्करुण्यमार्येण न कश्चिन्नापराध्यति ।
लोकहिंसाविहाराणांरक्षसाङ्कामरूपिणाम् ॥ 47 ॥

कुर्वतामपिपापानिनैवकार्यमशोभनम् ।
एवमुक्तस्तुहनुमान् सीतयावाक्यकोविदः ॥ 48 ॥

प्रत्युवाचततस्सीतांरामपत्नीयशश्विनीम् ।
युक्तारामस्यभवतीधर्मपत्नीयशश्विनी ॥ 49 ॥

प्रतिसन्दिशमान्देवि गमिष्येयत्रराघवः ।
एवमुक्ताहनुमतावैदेहिजनकात्मजा ॥ 50 ॥

साब्रवीद्ध्रष्टुमिच्छामिभर्तारंवानरोत्तम ।
तस्यास्तद्वचनंश्रुत्वाहनुमान्पवनात्मजः ॥ 51 ॥

हर्षयन्मैथिलींवाक्यमुवाचेदम्महामतिः ।
पूर्णचन्द्राननंरामन्द्रक्ष्यस्यार्येसलक्ष्मणम् ॥ 52 ॥

स्थिरमित्रंहतामित्रंशचीवत्रिदशेश्वरम् ।
तामेवमुक्त्वाराजन्तींसीतांसाक्षादिवश्रियम् ॥ 53 ॥

आजगाममहावेगोहनूमान्यत्रराघवः ।
सपदिहरिवरस्ततोहनूमान् प्रतिवचनञ्जनकेश्वरात्मजायाः ।
कथितमकथयद्यथाक्रमेणत्रिदशवरप्रतिमायराघवाय ॥ 54 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे षोडशाधिकशततमस्सर्गः ॥




Browse Related Categories: