View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.125 युद्धकाण्ड - पञ्चविंशत्यधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ पञ्चविंशत्यधिकशततमस्सर्गः ।

उपस्थितन्तुतङ्कृत्वापुष्पकम्पुष्पभूषितम् ।
अविदूरेस्थितोराममित्युवाचविभीषणः ॥ 1 ॥

स तुबद्धाञ्जलिः प्रह्वोविनीतोराक्षसेश्वरः ।
अब्रवीत्त्वरयोपेतःकिङ्करोमीतिराघवम् ॥ 2 ॥

तमब्रवीन्महातेजालक्ष्मणस्योपशृण्वतः ।
विमृश्यराघवोवाक्यमिदंस्नेहपुरस्कृतम् ॥ 3 ॥

कृतप्रयत्नकर्माणःसर्वएववनेचराः ।
रत्नैरर्थैश्चविविधैस्सम्पूज्यन्तांविभीषण ॥ 4 ॥

सहामीभिस्त्वयालङ्कानिर्जिताराक्षसेश्वर ।
हृष्टैःप्राणभयन्त्यक्त्वासङ्ग्रामेष्वनिवर्तिभिः ॥ 5 ॥

त इमेकृतकर्माणस्सर्वएववनौकसः ।
धनरत्नप्रदानेनकर्मैषांसफलङ्कुरु ॥ 6 ॥

एवंसम्मानिताश्चेतेमानार्हमानदात्वया ।
भविष्यन्तिकृतज्ञेननिर्वृताहरियूथपाः ॥ 7 ॥

त्यागिनंसङ्ग्रहीतारंसानुक्रोशञ्जितेन्द्रियम् ।
सर्वेततःअवगच्छन्तिसम्बोधयामिते ॥ 8 ॥

हीनंरतिगुणैस्सर्वैरभिहन्तारमाहवे ।
सेनात्यजतिसम्विग्नानृपतिन्तन्नरेश्वरा ॥ 9 ॥

एवमुक्तस्तुरामेणवानरांस्तान्विभीषणः ।
रत्नार्थसंविभागेनसर्वानेवाभ्यपूजयत् ॥ 10 ॥

ततस्तान्पूजितान्दृष्टवारत्नार्थैर्हरियूथपान् ।
आरुरोहतदारामस्तद्विमानमनुत्तमम् ॥ 11 ॥

अङ्केनादायवैदेहींलज्जमानांयशस्विनीम् ।
लक्ष्मणेनसहभ्रात्राविक्रान्तेवधनुष्मता ॥ 12 ॥

अब्रवीत्सविमानस्थःपूजयन्सर्वावानरान् ।
सुग्रीवं च महावीर्यङ्काकुत्स्थसविभीषणम् ॥ 13 ॥

मित्रकार्यङ्कृतमिदम्भवद्भिद्वानरर्षभाः ।
अनुज्ञातामयासर्वेयथेष्टम्प्रतिगच्छत ॥ 14 ॥

यत्तुकार्यंवयस्येनस्निग्धेन च हितेन च ।
कृतंसुग्रीवतत्सर्वम्भवताधर्मभीरुणा ॥ 15 ॥

किष्किन्धाम्प्रतियाह्यावुस्वसैन्येनाभिसम्वृतः ।
स्वराज्येवसलङ्कायाम्मयादत्तेविभीषण ॥ 16 ॥

न त्वान्धर्षयितुंशक्तास्सेन्द्राअपिदिवौकसः ।
योध्याम्प्रतियास्यामिराजधानीम्पितुर्मम ॥ 17 ॥

अभ्यनुज्ञातुमिच्छामिसर्वानामन्त्रयामिवः ।
वमुक्तास्तुरामेणहरीन्द्राहरयस्तथा ॥ 18 ॥

ऊचुःप्राञ्जलयस्सर्वेराक्षसश्चविभीषणः ।
अयोध्याङ्गन्तुमिच्छामःसर्वन्नयतुनोभवान् ॥ 19 ॥

मुद्युक्ताविचरिष्यामोवनान्युपननानि च ।
दृष्टवात्वामभिषेकार्ध्रङ्कौसल्यामभिवाद्य च ॥ 20 ॥

अचिरादगमिष्यामःस्वगृहान्नृपसत्तम ।
एवमुक्तस्सधर्मात्मावानरैस्सविभीषणैः ॥ 21 ॥

अब्रवीद्वानरान्रामस्ससुग्रीवविभीषणान् ।
प्रिययतरंलब्दंयदहंससुहृज्जनः ॥ 22 ॥

सर्वैर्भवद्भिःसहितःप्रीतिंलप्स्येपुरीङ्गतः ।
क्षिप्रं सुग्रीवविमानंवानरैस्सह ॥ 23 ॥

त्वमप्यारोहसामात्योराक्षसेन्द्रविभीषण ।
ततः स पुष्पकन्दिव्यंसुग्रीवस्सहवानरैः ॥ 24 ॥

आरुरोहमुदायुक्तःसामात्यश्चविभीषणः ।
तेष्वारूढेषुसर्वेषुकौबेरम्परमासनम् ॥ 25 ॥

राघवणाभ्यनुज्ञातमुत्पपातविहायसम् ।
गतेनविमानेनहंसयुक्तेनभास्वता ॥ 26 ॥

प्रहृष्टश्चप्रतीतश्चबभौरामःकुबेरवत् ।
तेसर्वेवानरर्र्क्षश्चराक्षसाश्चमहाबलाः ॥ 27 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे पञ्चविंशत्यधिकशततमस्सर्गः ॥




Browse Related Categories: