View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.42 युद्धकाण्ड - द्विचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ द्विचत्वारिंशस्सर्गः ।

ततस्तेराक्षसास्तत्रगत्वारावणमन्दिरम् ।
न्यवेदयन्पुरींरुद्धांरामेणसहवानरैः ॥ 1 ॥

रुद्धान्तुनगरींश्रुत्वाजातक्रोधोनिशाचरः ।
विधानन्द्विगुणंश्रुत्वाप्रासादंसोऽध्यरोहत ॥ 2 ॥

सददर्शावृतांलङ्कांसशैलवनकाननाम् ।
असङ्ख्येयैर्हरिगणैःसर्वतोयुद्धकाङ्क्षिभिः ॥ 3 ॥

सदृष्ट्वावानरैःसर्वांवसुधाङ्कवलीकृताम् ।
कथङ्क्षपयितव्याःस्युरितिचिन्तापरोऽभवत् ॥ 4 ॥

सचिन्तयित्वासुचिरन्धैर्यमालम्ब्यरावणः ।
राघवंहरियूथांश्चददर्शायतलोचनः ॥ 5 ॥

राघवःसहसैन्येनमुदितोनामपुप्लुवे ।
लङ्कान्ददर्शगुप्तांवैसर्वतोराक्षसैर्वृताम् ॥ 6 ॥

दृष्ट्वादाशरथिर्लङ्काञ्चित्रध्वजपताकिनीम् ।
जगामसहसासीतान्दूयमानेनचेतसा ॥ 7 ॥

अत्रसामृगशावाक्षीमत्कृतेजनकात्मजा ।
पीड्यतेशोकसन्तप्ताकृशास्थण्डिलशायिनी ॥ 8 ॥

पीड्यमानांसधर्मात्मावैदेहीमनुचिन्तयन् ।
क्षिप्रमाज्ञापयामासवानरान्द्विषतांवधे ॥ 9 ॥

एवमुक्तेतुवचनेरामेणाक्लिष्टकर्मणा ।
सङ्घर्षमाणाःप्लवगाःसिम्हनादैरनादयन् ॥ 10 ॥

शिखरैर्विकिरामैनांलङ्काम्मुष्टिभिरेववा ।
इतिस्मदधिरेसर्वेमनांसिहरियूथपाः ॥ 11 ॥

उद्यम्यगिरिशृङ्गाणिशिखराणिमहान्तिच ।
तरूंश्चोत्पाट्यविविधांस्तिष्ठन्तिहरियूथपाः ॥ 12 ॥

प्रेक्षतोराक्षसेन्द्रस्यतान्यनीकानिभागशः ।
राघवप्रियकामार्थंलङ्कामारुरुहुस्तदा ॥ 13 ॥

तेताम्रवक्त्राहेमाभारामार्थेत्यक्तजीविताः ।
लङ्कामेवाभ्यवर्तन्तसालतालशिलायुधाः ॥ 14 ॥

तेद्रुमैःपर्वताग्रैश्चमुष्टिभिश्चप्लवङ्गमाः ।
प्राकाराग्राण्यरण्यानिममन्थुस्तोरणानिच ॥ 15 ॥

पारिखाःपूरयन्तिस्मप्रसन्नसलिलायुताः ।
पांसुभिःपर्वताग्रैश्चतृणैःकाष्ठैश्चवानराः ॥ 16 ॥

ततःसहस्रयूथाश्चकोटीयूथाश्चवानराः ।
कोटीशतयुताश्चान्येलङ्कामारुरुहुस्तदा ॥ 17 ॥

काञ्चनानिप्रमृद्नन्तस्तोरणानिप्लवङ्गमाः ।
कैलासशिखराभानिगोपुराणिप्रमथ्यच ॥ 18 ॥

आप्लवन्तःप्लवन्तश्चगर्जन्तश्चप्लवङ्गमाः ।
लङ्कान्तामभिधावन्तिमहावारणसन्निभाः ॥ 19 ॥

जयत्यतिबलोरामोलक्ष्मणश्चमहाबलः ।
राजाजयतिसुग्रीवोराघवेणाभिपालितः ॥ 20 ॥

इत्येवङ्घोषयन्तश्चगर्जन्तश्चप्लवङ्गमाः ।
अभ्यधावन्तलङ्कायाःप्राकारङ्कामरूपिणः ॥ 21 ॥

वीरबाहुःसुबाहुश्चनलश्चवनगोचरः ।
निपीड्योपनिविष्टास्तेप्राकारंहरियूथपाः ।
एतस्मिन्नन्तरेचक्रुःस्कन्धावारनिवेशनम् ॥ 22 ॥

पूर्वद्वारन्तुकुमुदःकोटीभिर्दशभिर्वृतः ।
आवृत्यबलवांस्तस्थौहरिभिर्जितकाशिभिः ॥ 23 ॥

साहाय्यार्थन्तुतस्यैवनिविष्टःप्रघसोहरिः ।
पनसश्चमहाबाहुर्वानरैर्बहुभिर्वृतः ॥ 24 ॥

दक्षिणन्द्वारमागम्यवीरःशतबलिःकपिः ।
आवृत्यबलवांस्तस्थौविंशत्याकोटिभिर्वृतः ॥ 25 ॥

सुषेणःपश्चिमद्वारङ्गतस्तारापिताहरिः ।
आवृत्यबलवांस्तस्थौषष्टिकोटिभिरावृतः ॥ 26 ॥

उत्तरन्द्वारमासाद्यरामःसौमित्रिणासह ।
आवृत्यबलवांस्तस्थौसुग्रीवश्चहरीश्वरः ॥ 27 ॥

गोलाङ्गूलोमहाकायोगवाक्षोभीमदर्शनः ।
वृतःकोट्यामहावीर्यस्तस्थौरामस्यपार्श्वतः ॥ 28 ॥

ऋक्षाणाम्भीमवेगानान्धूम्रःशत्रुनिबर्हणः ।
वृतःकोट्यामहावीर्यस्तस्थौरामस्यपार्श्वतः ॥ 29 ॥

सन्नद्धस्तुमहावीर्योगदापाणिर्विभीषणः ।
वृतोयस्तैस्तुसचिवैस्तस्थौतत्रमहाबलः ॥ 30 ॥

गजोगवाक्षोगवयःशरभोगन्धमादनः ।
समन्तात्परिधावन्तोररक्षुर्हरिवाहिनीम् ॥ 31 ॥

ततःकोपपरीतात्मारावणोराक्षसेश्वरः ।
निर्याणंसर्वसैन्यानान्द्रुतमाज्ञापयत्तदा ॥ 32 ॥

एतच्छ्रुत्वाततोवाक्यंरावणस्यमुखोद्गतम् ।
सहसाभीमनिर्घोषमुद्घुष्टंरजनीचरैः ॥ 33 ॥

ततःप्रचोदिताभेर्यश्चन्द्रपाण्डरपुष्कराः ।
हेमकोणाहताभीमाराक्षसानांसमन्ततः ॥ 34 ॥

विनेदुश्चमहाघोषाःशङ्खाःशतसहस्रशः ।
राक्षसानांसुघोराणाम्मुखमारुतपूरिताः ॥ 35 ॥

तेबभुःशुभनीलाङ्गाःसशङ्खारजनीचराः ।
विद्युन्मण्डलसन्नद्धाःसबलाकाइवाम्बुदाः ॥ 36 ॥

निष्पतन्तिततःसैन्याहृष्टारावणचोदिताः ।
समयेपूर्यमाणस्यवेगाइवमहोदधेः ॥ 37 ॥

ततोवानरसैन्येनमुक्तोनादःसमन्ततः ।
मलयःपूरितोयेनससानुप्रस्थकन्दरः ॥ 38 ॥

शङ्खदुन्दुभिसङ्घुष्टःसिम्हनादस्तरस्विनाम् ।
पृथिवीञ्चान्तरिक्षञ्चसागरञ्चैवनादयन् ॥ 39 ॥

गजानाम्बृंहितैःसार्धंहयानांहेषितैरपि ।
रथानान्नेमिघोषैश्चरक्षसाम्वदनस्वनः ॥ 40 ॥

एतस्मिन्नन्तरेघोरःसङ्ग्रामःसमवर्तत ।
रक्षसांवानराणाञ्चयथादेवासुरेपुरा ॥ 41 ॥

तेगदाभिःप्रदीप्ताभिःशक्तिशूलपरश्वधैः ।
निजघ्नुर्वानरान्घोराःकथयन्तःस्वविक्रमान् ॥ 42 ॥

राजन् जय जयेत्युक्त्वा स्वस्वनामकथां ततः ।
राक्षसास्त्वपरे भीमाः प्राकारस्थामहीं गतान् ॥ 43 ॥

तथावृक्षैर्महाकायाःपर्वताग्रैश्चवानराः ।
निजघ्नुस्तानिरक्षांसिनखैर्दन्तैश्चवेगिताः ॥ 44 ॥

राक्षसास्त्वपरेभीमाःप्राकारस्थामहीगतान् ।
भिन्दिपालैश्चखड्गैश्चशूलैश्चैवव्यदारयन् ॥ 45 ॥

वानराश्चापिसङ्क्रुद्धाःप्राकारस्थान्महीगताः ।
राक्षसान्पातयामासुःसमाप्लुत्यप्लवङ्गमाः ॥ 46 ॥

ससम्प्रहारस्तुमुलोमांसशोणितकर्दमः ।
रक्षसांवानराणाञ्चसम्बभूवाद्भुतोपमाः ॥ 47 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे द्विचत्वारिंशस्सर्गः ॥




Browse Related Categories: