श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ पञ्चमस्सर्गः ।
सातुनीलेनविधिवत्स्वारक्षासुसमाहिता ।
सागरस्योत्तरेतीरेसाधुसेनानिवेशिता ॥ 1 ॥
मैन्दश्चद्विविदश्चोभौतत्रवानरपुङ्गवौ ।
विचेरतुश्चतांसेनांरक्षार्थंसर्वतोदिशम् ॥ 2 ॥
निविष्टायान्तुसेनायान्तीरेनदनदीपतेः ।
पार्श्वस्थंलक्ष्मणन्दृष्टवारामोवचनमब्रवीत् ॥ 3 ॥
शोकश्चकिलकालेनगच्छताह्यपगच्छति ।
ममचापश्यतःकान्तामहन्यहनिवर्धते ॥ 4 ॥
नमेदुःखम्प्रियादूरेनमेदुःखंहृतेतिवा ।
एतदेवानुशोचामिवयोस्याह्यतिवर्तते ॥ 5 ॥
वाहिवातयतःकान्तातांस्पृष्टवामामपिस्पृश ।
त्वयिमेगात्रसंस्पर्शश्चन्द्रेदृष्टिसमागमः ॥ 6 ॥
तन्मेदहतिगात्राणिविषम्पीतमिवाशये ।
हानाथेतिप्रियासामांह्रियमाणायदब्रवीत् ॥ 7 ॥
तद्वियोगेन्धनवतातच्चिन्ताविपुलार्चिषा ।
रात्रिन्दिवंशरीरम्मेदह्यतेमदनाग्निना ॥ 8 ॥
अवगाह्यर्णवंस्वप्स्येसौमित्रेभवताविना ।
कथञ्चित्प्रज्वलन्कामस्समांसुप्तञ्जलेदहेत् ॥ 9 ॥
बह्वेतत्कामयानस्यशक्यमेतेनजीवितुम् ।
यदहंसाचवामोरूरेकान्धरणिमाश्रितौ ॥ 10 ॥
केदारस्येवकेदारस्सोदकस्यनिरूदकः ।
उपस्नेहेनजीवामिजीवन्तींयच्छृणोमिताम् ॥ 11 ॥
कदानुखलुसुश्रोणींशतपत्त्रायतेक्षणाम् ।
विजित्यशत्रून्द्रक्ष्यामिसीतास्फीतामिवश्रियम् ॥ 12 ॥
कदानुचारुबिम्बोष्ठन्तस्याःपद्ममिवाननम् ।
ईषदुन्नम्यपास्यामिरसायनमिवातुरः ॥ 13 ॥
तस्यात्तुसंहितौपीनौस्तनौतालफलोपमौ ।
कदानुखलुसोत्कम्पौश्लिष्यन्त्यामाम्भजिष्यतः ॥ 14 ॥
सानूनमसितापाङ्गीरक्षोमध्यगतासती ।
मन्नाथानाथहीनेवत्रातारन्नाधिगच्छति ॥ 15 ॥
कथञ्जनकरजस्यदुहिताममचप्रिया ।
राक्षसीमध्यगाशेतेस्नुषादशरथस्यच ॥ 16 ॥
कदाऽविक्षोभ्यरक्षांसिसाविधूयोत्पतिष्यति ।
विधूयजलदान्नीलान् शशिरेखाशरत्स्विव ॥ 17 ॥
स्वभावतनुकानूनंशोकेनानशनेनच ।
भूयस्तनुतरासीतादेशकालविपर्ययात् ॥ 18 ॥
कदानुराक्षसेन्द्रस्यनिधायोरसिसायकान् ।
सीताम्प्रत्याहरिष्यामिशोकमुत्सृज्यमानसम् ॥ 19 ॥
कदानुखलुमांसाध्वीसीतासुरसुतोपमा ।
सोत्कण्ठाकण्ठमालम्ब्यमोक्ष्यत्यानन्दजञ्जलम् ॥ 20 ॥
कदाशोकमिमङ्घोरम्मैथिलीविप्रयोगजम् ।
सहसाविप्रमोक्ष्यामिवासश्शुक्लेतरंयथा ॥ 21 ॥
एवंविलपतस्तस्यतत्ररामस्यधीमतः ।
दिनक्षयान्मन्दवपुर्भास्करोऽस्तमुपागतः ॥ 22 ॥
आश्वासितोलक्ष्मणेनरामस्सन्ध्यामुपासत ।
स्मरन्कमलपत्राक्षींसीतांशोकाकुलीकृतः ॥ 23 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे पञ्चमस्सर्गः ॥