श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ सप्तपञ्चाशस्सर्गः ।
अकम्पनवधंश्रुत्वाक्रुद्धोवैराक्षसेश्वरः ।
किञ्चिददीनमुखश्चापिसचिवांस्तानुदैक्षत ॥ 1 ॥
सतुध्यात्वामुहूर्तन्तुमन्त्रिभिस्संविचार्यच ।
ततस्तुरावणःपूर्वदिवसेराक्षसाधिपः ॥ 2 ॥
पुरीम्परिययौलङ्कांसर्वगुल्मानवेक्षितुम् ।
तांराक्षसगणैर्गुप्ताङ्गुल्मैर्बहुभिरावृताम् ॥ 3 ॥
ददर्शनगरींलङ्काम्पताकाध्वजमालिनीम् ।
रुद्धान्तुनगरीन्दृष्टवारावणोराक्षसेश्वरः ॥ 4 ॥
उवाचात्महितङ्कालेप्रहस्तंयुद्धकोविदम् ।
पुरस्योपनिविष्टस्यसहसापीडितस्यवा ॥ 5 ॥
नान्यंयुद्धात्प्रपश्यामिमोक्षंयुद्धविशारद ।
अहंवाकुम्भकर्णोवात्वंवासेनापतिर्मम ॥ 6 ॥
इन्द्रजिद्वानिकुम्भोवावहेयुर्भारमीदृशम् ।
सत्वम्बलमतश्शीघ्रमादायपरिगृह्यच ॥ 7 ॥
विजयायाभिनिर्याहियत्रसर्वेवनौकसः ।
निर्याणायादेवतेनूनञ्चपलाहरिवाहिनी ॥ 8 ॥
नर्दतांराक्षसेन्द्राणांश्रुत्वानादन्द्रविष्यति ।
चपलाह्यविनीताश्चचलचित्ताश्चवानराः ॥ 9 ॥
नसहिष्यन्तितेनादंसिंहनादमिवद्विपाः ।
विद्रुतेचबलेतस्मिन् रामःसौमित्रिणासह ॥ 10 ॥
अवशस्तेनिरालम्बःप्रहस्तवशमेष्यति ।
आपत्संशयिताश्रेयोनात्रनिस्संशयीकृता ॥ 11 ॥
प्रतिलोमानुलोमंवायद्वानोमन्यसेहितम् ।
रावणेनैवमुक्तस्तुप्रहस्तोवाहिनीपतिः ॥ 12 ॥
राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना ।
राजन्मन्त्रितपूर्वन्नःकुशलैस्सहमन्त्रिभिः ॥ 13 ॥
विवादश्चापिनोवृत्तस्समवेक्ष्यपरस्परम् ।
प्रदानेनतुसीतायाःश्रेयोव्यवसितम्मया ॥ 14 ॥
अप्रदानेपुनर्युद्धन्दृष्टमेत्तथैवनः ।
सोऽहन्दानैश्चमानैश्चसततम्पूजितस्त्वया ॥ 15 ॥
सान्त्वैश्चविविधैःकालेकिन्नकुर्यांहितन्तव ।
नहिमेजीवितंरक्ष्यम्पुत्रदारधनानिच ॥ 16 ॥
त्वम्पश्यमाञ्जुहूषन्तन्त्वदर्थेजीवितंयुधि ।
एवमुक्त्वातुभर्तारंरावणंवाहिनीपतिः ॥ 17 ॥
उवाचेदम्बलाध्यक्षान्प्रहस्तःपुरतःस्थितान् ।
मेशीघ्रंराक्षसानाम्महाद्बलम् ॥ 18 ॥
मद्भाणाब्दावेगेनहतानांशनिचरणाजिरे ।
अद्यहृष्यन्तुमांसादाःपक्षिणःकाननौकसाम् ॥ 19 ॥
इत्युक्तास्तेप्रहस्तेनबलाध्यक्षाः कृतत्वराः ।
बलमुद्योजयामासुस्तस्मिन्राक्षसमन्दिरे ॥ 20 ॥
साबभूवमुहूर्तेननिग्मर्नानाविधायुधैः ।
लङ्काराक्षसवीरैस्तैर्गजैरिवसमाकुला ॥ 21 ॥
हुताशनन्तर्पयताम्ब्राह्मणांश्चनमस्यताम् ।
आज्यगन्धप्रतिवहःसुरभिर्मारुतोववौ ॥ 22 ॥
स्रजश्चविविधाकाराजगृहुस्त्वभिमन्त्रिताः ।
सङ्ग्रामसज्जाःसम्हृष्टाधरायन्राक्षसास्तदा ॥ 23 ॥
सधनुष्काःकवचिनोवेगादाप्लुत्यराक्षसाः ।
रावणम्प्रेक्ष्यराजानम्प्रहस्तम्पर्यवारयन् ॥ 24 ॥
अथामन्त्ऱ्यतुराजानम्भेरीमाहत्यभैरवाम् ।
आरुरोहरथंयुक्तःप्रहस्तस्सज्जकल्पितम् ॥ 25 ॥
हयैर्महाजवैर्युक्तंसम्यक्सूतसुसंयतम् ।
महाजलदनिर्घोषंसाक्षाच्चन्द्रार्कभास्वरम् ॥ 26 ॥
उरगध्वजदुर्धर्षंसुवरूथंस्ववस्करम् ।
सुवर्णजालसंयुक्तम्प्रहसन्तमिवश्रिया ॥ 27 ॥
ततस्तंरथमास्थायरावणार्पितशासनः ।
लङ्कायानिर्ययौतूर्णम्बलेनमहतावृतः ॥ 28 ॥
ततोदुन्धुभिनिर्घोषःपर्जन्यनिनदोपमः ।
वादित्राणाञ्चनिनदःपूरयन्निवमेदिनीम् ॥ 29 ॥
शुश्रुवेशङ्खशब्दश्चप्रयातेवाहिनीपतौ ।
निनदन्तस्स्वरान्घोरान्राक्षसाजग्मुरग्रतः ॥ 30 ॥
भीमरूपामहाकायाःप्रहस्तस्यपुरस्सराः ।
नरान्तकःकुम्भहनुर्महानादस्समुन्नतः ॥ 31 ॥
प्रहस्तसचिवाह्येतेनिर्ययुःपरिवार्यतम् ।
व्यूढेनेवसुघोरेणपूर्वद्वारात्सनिर्ययौ ॥ 32 ॥
गजयूथनिकाशेनबलेनमहतावृतः ।
सागरप्रतिमौघेनवृतस्तेनबलेनसः ॥ 33 ॥
प्रहस्तोनिर्ययौक्रुद्धःकालान्तकयमोपमः ।
तस्यनिर्याणघोषेणराक्षसानाञ्चनर्दताम् ॥ 34 ॥
लङ्कायांसर्वभूतानिविनेदुर्विकृतैस्स्वरैः ।
व्यभ्रमाकाशमाविश्यमांसशोणितभोजनाः ॥ 35 ॥
मण्डलान्यपसव्यानिखगाश्चक्रूरथम्प्रति ।
सम्नत्यःपावकज्वालाःशिवाघोराववाशिरे ॥ 36 ॥
अन्तरिक्षात्पपातोल्कावायुश्चपरुषंवनौ ।
अन्योन्यमभिसंरब्धाग्रहाश्चनचकाशिरे ॥ 37 ॥
मेघाश्चखरनिर्घोषारथस्योपरिरक्षसः ।
ववृषंरुधिरञ्चास्यसिषिचुश्चपुरस्सरान् ॥ 38 ॥
केतुर्मूर्धनिगृध्रोऽस्यनिलीनोदक्षिणामुखः ।
तुदन्नुभयतःपार्श्वंसमग्रामहरत्प्रभाम् ॥ 39 ॥
सारथेर्भहुशश्चास्यसङ्ग्राममवगाहतः ।
प्रतोदोन्यपतद्धस्तात्सूतस्यहयसादिनः ॥ 40 ॥
निर्याणश्रीश्चयाऽस्यासीद्भास्वरावसुदुर्लभाः ।
साननाशमुहूर्तेनसमेचस्खलिताहयाः ॥ 41 ॥
प्रहस्तन्त्वभिनिर्यान्तम्प्रख्यातबलपौरुषम् ।
युधिनानाप्रहरणाकपिसेनाऽभ्यवर्तत ॥ 42 ॥
अथघोषस्सुतुमुलोहरीणांसमजायत ।
वृक्षानारुजताञ्चैवगुर्वीरागृह्णतांशिलाः ॥ 43 ॥
नदतांराक्षसानाञ्चवानराणाञ्चगर्जताम् ।
उभेप्रमुदितेसैन्येरक्षोगणवनौकसाम् ॥ 44 ॥
वेगितानांसमर्थानामन्योन्यवधकाङ् क्षिणाम् ।
परस्परञ्चाह्वयतान्निनाद्शूयतेमहान् ॥ 45 ॥
ततःप्रहस्तःकपिराजवाहिनीमभिप्रतस्थेविजयायदुर्मतिः ।
विवृद्धवेगंश्चविवेशताञ्चमूंयथामुमूर्षुश्शलभोविभावसुम् ॥ 46 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे सप्तपञ्चाशस्सर्गः ॥