श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ पञ्चसप्ततितमस्सर्गः ।
ततोऽब्रवीन्महातेजास्सुग्रीवोवानराधिपः ।
अर्थ्यंविज्ञापयंश्चापिहनूमन्तमिदंवचः ॥ 1 ॥
यतोहतःकुम्भकर्णःकुमाराश्चनिषूदिताः ।
नेदानीमुपनिर्हारंरावणोदातुमर्हति ॥ 2 ॥
येयेमहाबलास्सन्तिलघवश्चप्लवङ्गमाः ।
लङ्कामभ्युतन्त्याशुगृह्योल्काःप्लवगर्षभाः ॥ 3 ॥
हरयोहरिसङ्काशाःप्रदग्धुंरावणालयम् ।
तोस्तङ्गतआदित्येरौद्रेतस्मिन्निशामुखे ॥ 4 ॥
लङ्कामभिमुखास्सोल्काजग्मुस्तेप्लवगर्षभाः ।
उल्काहस्सैर्हरिगणैस्सर्वतस्समभिद्रुताः ॥ 5 ॥
आरक्षस्थाविरूपाक्षास्सहसाविप्रदद्रुवुः ।
गोपुराट्टप्रतोलीषुचर्यासुविविधासु च ॥ 6 ॥
प्रासादेषु च सम्हृष्टास्ससृजुस्तेहुताशनम् ।
तेषाङ्गृहसहस्राणिददाहहुतभुक्तदा ॥ 7 ॥
प्रासादाःपर्वताकाराःपतन्तिधरणीतले ।
अगुरुर्दह्यतेतत्रवरं च हरिचन्दनम् ॥ 8 ॥
मौक्तिकामणयस्स्निग्धावज्रञ्चापिप्रवालकम् ।
क्षौमं च दह्यतेतत्रकौशेयञ्चापिशोभनम् ॥ 9 ॥
आविकंविविधञ्चौर्णङ्काञ्चनम्भाण्डमायुधम् ।
नानाविकृतसंस्थानंवाजिभाण्डपरिच्छदौ ॥ 10 ॥
गजग्रैवेयकक्ष्याश्चरथभाण्डाश्चसम्स्कृताः ।
नुत्राणि च योधानांहस्त्यश्वानां व चर्म च ॥ 11 ॥
खडगाधनूंषिज्वाबाणास्तोमराङ्कुशशक्तयः ।
रोमजंवालजञ्चर्मव्याघ्रजञ्चण्डजम्बहु ॥ 12 ॥
मुक्तामणिविचित्रांश्चप्रासादांश्चसमन्ततः ।
विविधानस्त्रसंयोगानग्निर्दहतितत्रवै ॥ 13 ॥
नानाविधान्गृहच्छन्दान्धदाहहुतभुक्तदा ।
आवासान्राक्षसानां च सर्वेषाङ्गृहगर्थिनाम् ॥ 14 ॥
हेमचित्रतनुत्राणस्रग्दामाम्भरधारिणाम् ।
शीधुपानचलाक्षाणाम्मद्विह्वलगामिनाम् ॥ 15 ॥
कान्तालम्बितवस्त्राणांशत्रुसञ्जातमन्युनाम् ।
गदाशूलासिहस्तानाङ्खादताम्पिबतामपि ॥ 16 ॥
शयनेषुमहार्हेषुप्रसुप्तानाम्प्रियैस्सह ।
त्रस्तानाङ्गच्छतान्तूर्णम्पुत्रानादायसर्वतः ॥ 17 ॥
तेषांशतसहस्राणितदालङ्कानिवासिनाम् ।
अदहत्पावकस्तत्रजज्वाल च पुनःपुनः ॥ 18 ॥
सारवन्तिमहार्हाणिगम्भीरगुणवन्ति च ।
हेमचन्द्रार्धचन्द्राणिचन्द्रशालोनतानि च ॥ 19 ॥
तत्रचित्रगवाक्षाणिसाधिष्ठानानिसर्वशः ।
मणिविद्रुमचित्राणिस्पृशन्तीवदिवाकरम् ॥ 20 ॥
क्रौञ्चबर्हिबवीणानाम्भूषणानां च निस्स्वनैः ।
नादितान्यचलाभानिवेश्मान्यग्निर्ददाह स ॥ 21 ॥
ज्वलनेनपरीतानितोरणानिचकाशिरे ।
विद्युद्भिरिवनद्धानिमेघजालानिघर्मगे ॥ 22 ॥
ज्वलनेनपरीतानिनिपेतुर्भवनान्वथ ।
वज्रिवज्रहतानीवशिखराणिमहागिरेः ॥ 23 ॥
विमानेषुप्रसुस्ताश्चदह्यमानावराङ्गनाः ।
त्यक्ताभरणसर्वाङ्गाहाहेत्युच्चैर्विचुक्रुशुः ॥ 24 ॥
तत्रचाग्निपरीतानिनिपेतुर्भवनान्यपि ।
वज्रिवज्रहतानीवशिखराणिमहागिरेः ॥ 25 ॥
तानिनिर्दह्यमानानिदूरतःप्रचकाशिरे ।
हिमवच्छिखराणीवदीप्तौषदिवनानिच ॥ 26 ॥
हर्म्याग्रैर्दह्यमानैश्चज्वालाप्रज्वलितैरपि ।
रात्रौसादृश्यतेलङ्कापुष्पितैरिवकिंशुकैः ॥ 27 ॥
हस्त्यध्यक्षैर्गजैर्मुकैर्मुकैश्च तुरगैरपि ।
बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः ॥ 28 ॥
अश्वम्मुक्तङ्गजोदृष्टवाक्वचिद्भीतोऽपसर्पति ।
भीतोभीतङ्गजन्दृष्टवाक्वचिदश्वोनिवर्तते ॥ 29 ॥
लङ्कायां दह्यमानायां शुशुभे च महोदधिः ।
चायासंसक्तसलिलो लोहितोद इवार्णवः ॥ 30 ॥
साबभूवमुहूर्तेनहरिभिर्दीपितापुरी ।
लोकस्यास्यक्ष्येघोरेप्रदीप्तेववसुन्दरा ॥ 31 ॥
नारीजनस्यधूमेनव्याप्तस्योच्चैर्विनेदुषः ।
स्वनोज्वलनतप्तस्यशुश्रुवेशतयोजनम् ॥ 32 ॥
प्रदग्धकायानपरान् राक्षसान्निर्गतान् बहिः ।
सहसाभ्युत्पतन्तिस्महरयोऽथयुयुत्सवः ॥ 33 ॥
उद्घुष्टंवानराणां च राक्षसानां च निस्स्वनः ।
दिशोदशसमुद्रं च पृथिवीञ्चान्वनादयत् ॥ 34 ॥
विशल्यौतुमहात्मानौतावुभौरामलक्ष्मणौ ।
असम्भ्रान्तौजगृहतुस्तदोभौधनुषीवरे ॥ 35 ॥
ततोविस्फारयानस्यरामस्यधनुरुत्तमम् ।
बभूवतुमुलश्शब्दोराक्षसानाम्भयावहः ॥ 36 ॥
अशोभततदारामोधनुर्विष्फारयन् महत् ।
भगवानिवसङ्कृद्धोभवोवेदमयन्धनुः ॥ 37 ॥
उद्घुष्टंवानराणां च राक्षसानां च निस्स्वनम् ।
ज्याशब्दस्तावुभौशब्दावतिरामस्यशुश्रुवे ॥ 38 ॥
वानरोद्घुष्टघोषश्चराक्षसानां च निस्स्वनः ।
ज्याशब्दश्चापिरामस्यत्रयंव्याप्यदिशोदश ॥ 39 ॥
तस्यकार्मुकमुक्सैश्चशरैस्तत्पुरगोपुरम् ।
कैलासशृङ्गप्रतिमंविशीर्णमपतद्भुवि ॥ 40 ॥
ततोरामशरान् दृष्टवाविमानेषुगृहेषु च ।
सन्नाहोराक्षसेन्द्राणान्तुमुलस्समपद्यत ॥ 41 ॥
तेषांसन्नह्यमानानांसिंहनादं च कुर्वताम् ।
शर्वरीराक्षसेन्द्राणांरौद्रीवसमपद्यत ॥ 42 ॥
आदिष्टावानरेन्द्रास्तेसुग्रीवेणमहात्मना ।
आसन्नद्वारमासाद्ययुध्यध्वम्प्लवगर्षभाः ॥ 43 ॥
यश्चवोवितथङ्कुर्वात्तत्रतत्रव्यवस्थितः ।
स हन्तव्योहिसम्फ्लुत्यराजशासनदूषकः ॥ 44 ॥
तेषुवानरमुखेषुदीप्तोल्कोज्ज्वलपाणिषु ।
स्थितेषुद्वारमासाद्यरावणम्मन्युराविशत् ॥ 45 ॥
तस्यजृम्भितविक्षेपाद्व्यामिश्रावैदिशोदश ।
रूपवानिवरुद्रस्यमन्युर्गात्रेष्वदृश्यत ॥ 46 ॥
स निकुम्भं च कुम्भं च कुम्भकर्णात्मजावुभौ ।
प्रेषयामाससङ्कृद्धोराक्षससैर्बहुभिस्सह ॥ 47 ॥
यूपाक्षश्शोणिताक्षश्चप्रजङ्घःकम्पनस्तथा ।
निर्ययुःकौम्भकर्णिभ्यांसहरावणशासनात् ॥ 48 ॥
शशासचैवतान् सर्वान्राक्षसान् सुमहाबलान् ।
राक्षसागच्छताद्यैवसिंहनादं च नादयन् ॥ 49 ॥
ततस्तुचोदितास्तेनराक्षसाज्वलितायुधाः ।
लङ्कायानिर्ययुर्वीराःप्रणदन्तःपुनःपुनः ॥ 50 ॥
रक्षसाम्भूषणस्थाभिर्भाभिस्स्वाभिश्चसर्वशः ।
चक्रुस्तेसप्रभंव्योमहरयश्चाग्निभिस्सह ॥ 51 ॥
तत्रताराधिपस्याभाताराणां च तथैव च ।
तयोराभरणासा च बलयोर्द्यामभासयन् ॥ 52 ॥
चन्द्राभाभूषणाभा च गृहाणांसागरःपुनः ।
हरिराक्षससैन्यानिभ्राजयामाससर्वतः ॥ 53 ॥
तत्रचोर्ध्वम्प्रदीप्तानाङ्गृहाणांसागरःपुनः ।
भाभिस्संसक्तसलिलश्चलोर्मिश्शुशुभेऽधिकम् ॥ 54 ॥
पताकाध्वजसंसक्तमुत्तमासिपरश्वधम् ।
भीमाश्वरथमातङ्गन्नानापततिसमाकुलम् ॥ 55 ॥
दीप्तशूलगदाखडगप्रासतोमरकार्मुकम् ।
तद्राक्षसबलङ्घोरभीमंविक्रमपौरुषम् ॥ 56 ॥
ददृशेज्वलितप्रासङ्किङ्किणीशतनादितम् ।
हेमजालाचितभुजंव्यावेष्टितपरश्वथम् ॥ 57 ॥
व्याघूर्णितमहाशस्त्रम्बाणसंसक्तकार्मुकम् ।
गन्धमाल्यमधूत्सेकसम्मोदितमहानिलम् ॥ 58 ॥
घोरंशूरजनाकीर्णम्महाम्बुदरनिस्स्वनम् ।
तद्दृष्टवाबलमायातंराक्षसानांसुदारुणम् ॥ 59 ॥
सञ्चचालप्लवङ्गानाम्बलमुच्चैर्ननाद च ।
जवेनाफ्लुत्य च पुनस्तद्बलंरक्षसाम्महत् ॥ 60 ॥
अभ्ययात्प्रत्यरिबलम्पतङ्गाइवपावकम् ।
तेषाम्भुजपरामर्शव्यामृष्टपरिघाशनि ॥ 61 ॥
राक्षसानाम्बलंश्रेष्ठम्भूयस्तरमशोभत ।
तत्रोन्मत्ताइवोत्पेतुर्हरयोऽथयुयुत्सवः ॥ 62 ॥
तरुशैलैरभिघ्नन्तोमुष्टिभिश्चनिशाचरान् ।
तथैवापततान्तेषाङ्कपीनामसिभिशशितैः ॥ 63 ॥
शिरांसिसहसाजह्रूराक्षसाभीमदर्शना ।
दशनैर्हतकर्णाश्चमुष्टिनिष्कीर्णमस्तकाः ॥ 64 ॥
शिलाप्रहारभग्नाङ्गाविचेरुस्तत्रराक्षसाः ।
तथैवाप्यपरेतेषाङ्कपीनामभिलक्षिता ॥ 65 ॥
प्रवीरानभितोजघ्नुर्घोररूपानिशाचराः ।
घ्नन्तमन्यञ्जघानान्यःपातयन्तमपातयत् ॥ 66 ॥
गर्हमाणञ्जगर्हेऽन्योदशन्तमपरोऽदशत् ।
देहीत्यन्योददात्यन्योददामीत्यपरःपुनः ॥ 67 ॥
किङ्क्लेशयसितिष्ठेतितत्रान्योन्यम्बभाषिरे ।
विप्रलम्भितवस्त्रं च विमुक्तकवचायुधम् ॥ 68 ॥
समुद्यतमहाप्रासंयष्टिशूलासिसङ्कुलम् ।
प्रावर्ततमहारौद्रंयुद्धंवानररक्षसाम् ॥ 69 ॥
वानरान्दशसप्तेतिराक्षसाजघ्नुराहवे ।
राक्षसान्दशसप्तेतिवानराश्चाभ्यपातयन् ॥ 70 ॥
विस्रस्तकेशवसनंविध्वस्तकवचध्वजम् ।
बलंराक्षसमालम्ब्यवानराःपर्यवारयन् ॥ 71 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे पञ्चसप्ततितमस्सर्गः ॥