श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ अशीतितमस्सर्गः ।
मकराक्षंहतंश्रुत्वारावणस्समितिञ्जयः ।
रोषेणमहताविष्टोदन्ताङ्कटकटाय्य च ॥ 1 ॥
कोपितश्चतदातत्रकिङ्कार्यमितिचिन्तयन् ।
आदिदेशाथसङ्क्रुद्धोरणायेजितंसुतम् ॥ 2 ॥
जहिवीर महावीर्यौभ्रातरौरामलक्ष्मणौ ।
अदृश्योदृश्यमानोवासर्वथात्वम्बलाधिकः ॥ 3 ॥
त्वमप्रतिमकर्माणमिन्द्रञ्जयसिसंयुगे ।
किम्पुनर्मानुषौदृष्टवा न वधिष्यसिसंयुगे ॥ 4 ॥
तथोक्तोराक्षसेन्द्रेणप्रतिगृह्यपितुर्वचः ।
यज्ञभूमौ स विधिवत् पावकञ्जुहवेन्द्रजित् ॥ 5 ॥
जुह्वतश्चापितत्राग्निंरक्तोष्णीषधरास्त्रिरियः ।
आजग्मुस्तत्रसम्भ्रान्ताराक्षस्योयत्ररावणिः ॥ 6 ॥
शस्त्राणिशरपत्राणिसमिधोऽथविभीतकाः ।
लोहितानि च वासांहिस्रुवङ्कार्ष्णायसन्तथा ॥ 7 ॥
सर्वतो ।
अग्निं समास्तीर्य शरपत्रैः सतोमरैः ।
चागस्य सर्वकृष्णस्य गलं जग्राह जीवतः ॥ 8 ॥
सकृदेवसमिद्धस्यविधूमस्यमहार्चिषः ।
बभूवुस्तानिलिङ्गानिविजयन्दर्शयन्ति च ॥ 9 ॥
प्रदक्षिणावर्तशिखस्तप्तहाटकसन्निभः ।
हविस्तत्प्रतिजग्राहपावकस्स्वयमुत्थितः ॥ 10 ॥
हुत्वाग्निन्तर्पयित्वाथदेवदानवराक्षसान् ।
आरुरोहरथश्रेष्ठमन्तर्थानगतंशुभम् ॥ 11 ॥
स वाजिभिश्चतुर्भिस्तुबाणैश्चनिशितैर्युतः ।
आरोपितमहाचापश्शुशुभेस्यन्दनोत्तमः ॥ 12 ॥
जाज्वल्यमानोवपुषातपनीयपरिच्छदः ।
मृगैश्चन्द्रार्धचन्द्रैश्च स रथस्समलङ्कृतः ॥ 13 ॥
जाम्बूनदमहाकम्बुर्दीप्तपावकसन्निभः ।
बभूवेन्द्रजितःकेतुर्वैदूर्यसमलङ्कृतः ॥ 14 ॥
तेनचादित्यकल्पेनब्रह्मास्त्रण च पालितः ।
स बभूवदुराधर्षोरावणिस्सुमहाबलः ॥ 15 ॥
सोऽभिनिर्यायनगरादिन्द्रजित्समितिञ्जयः ।
हत्वाग्निंराक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत् ॥ 16 ॥
अद्यहत्वारणेयौतौमिथ्याप्रव्रजितौवने ।
जयम्पित्रेप्रदास्यामिरावणायरणार्जितम् ॥ 17 ॥
अद्यनिर्वानरमुर्वींहत्वारामंसलक्ष्मणम् ।
करिष्येपरमाम्प्रीतिमित्युक्त्वान्तरधीयत ॥ 18 ॥
आपपातथसङ्कृद्धोदशग्रीवेणचोदितः ।
तीक्षणकार्मुकनाराचैस्तीक्षणस्त्विन्द्ररिपूरणे ॥ 19 ॥
स ददर्शमहावीर्यौनागौत्रिशिरसानिव ।
सृजन्ताविषुजालानिवीरौवानरमध्यगौ ॥ 20 ॥
इमौ ताविति सञ्चिन्त्य सज्यं कृत्वा च कार्मुकम् ।
सन्ततानेषुधाराभिः पर्जन्य इव वृष्टिमान् ॥ 21 ॥
तुवैहायसम्प्राप्यसरथोरामलक्ष्मणौ ।
आचक्षुर्विषयेतिष्ठवनिव्याधनिशितैश्शरैः ॥ 22 ॥
तौतस्यशरवेगेनपरीतौरामलक्ष्मणौ ।
धनुषीसशरेकृत्वादिव्यमस्त्रम्प्रचक्रतुः ॥ 23 ॥
प्रच्छादयन्तौगगनंशरजालैर्महाबलौ ।
तमस्त्रःसूर्यसङ्काशैर्नैवपस्पृशतुश्शरैः ॥ 24 ॥
स हिधूमान्धकारं च चक्रेप्रच्चादयन्नभः ।
दिशश्चान्तर्दधेश्रीमान्नीहारतमसावृताः ॥ 25 ॥
नैवज्यातलनिर्घोषा न च नेमिखुरस्वनः ।
शुश्रुवेचरतस्तस्य न च रूपम्प्रकाशते ॥ 26 ॥
घनान्धकारेतिमिरेशरावर्षमिवाद्भुतम् ।
स ववर्षमहाबाहुर्नाराचशरवृष्टिभिः ॥ 27 ॥
स रामंसूर्यसङ्काशैश्शरैर्धत्तवरोर्भृशम् ।
विव्याधसमरेक्रुद्धःसर्वगात्रेषुरावणिः ॥ 28 ॥
तौहन्यमानौनाराचैर्धाराभिरिवपर्वतौ ।
हेमपुङ्खान्नरव्याघ्रौतिग्मान्मुमुचतुःशरान् ॥ 29 ॥
अन्तरिक्षेसमासाद्यरावणिङ्कङ्कपत्रिणः ।
निकृत्यपतगाभूमौसेतुस्तेशोणितोक्षिताः ॥ 30 ॥
अतिमात्रंशरौघेणपीड्यमानौनरोत्तमौ ।
तानिषून्पततोभल्लैरनेकैर्विचकर्ततुः ॥ 31 ॥
यतोहिददृशातेतौशरान् निपतितान्शितान् ।
ततस्तुतौदाशरथीससृजातेऽस्त्रमुत्तमम् ॥ 32 ॥
रावणिस्तुदिशस्सर्वारथेनातिरथोऽपतत् ।
विव्याधतौदाशरथीलघ्वस्त्रनिशितैःशरैः ॥ 33 ॥
तेनातिविद्धौतौवीरौरुक्मपुङ्खैःसुसम्हतैः ।
बभूवतुर्धाशरथीपुष्पितामिवकिंशुकौ ॥ 34 ॥
नास्यवेगगतिङ्कचशिन्न च रूपन्धनुश्शरान् ।
न चान्यद्विदितङ्किञ्चित्सूर्यस्येवाभ्रसम्प्लवे ॥ 35 ॥
तेनविद्धाश्चहरयोनिहताश्चगतासवः ।
बभूवुःशतशस्तत्रपतिताधरणीतले ॥ 36 ॥
लक्ष्मणस्तुततस्सुङ्क्रृद्धोभ्रातरंवाक्यमब्रवीत् ।
ब्राह्ममस्त्रम्प्रयोक्ष्यामिवधार्थंसर्वरक्षसाम् ॥ 37 ॥
तमुवाचततोरामोलक्ष्मणंशुभलक्षणम् ।
नैकस्यहेतोरक्षांसिपृथिव्यांहन्तुमर्हसि ॥ 38 ॥
अयुध्यमानम्प्रच्छन्नम्प्राञ्जलिंशरणागतम् ।
पलायमानम्मत्तंवा न हन्तुन्त्वमिहार्हसि ॥ 39 ॥
अस्यैवतुवधेयत्नङ्करिष्यावोमहाभुज ।
आदेक्ष्यावोमहावेगावस्त्रानाशीविषोपमान् ॥ 40 ॥
तमेनम्मायिनङ्क्षुद्रमन्तर्हितरथम्बलात् ।
राक्षसन्निहनिष्यन्तिदृष्टवावानरयूथपाः ॥ 41 ॥
यद्येषभूमिंविशतेदिवंवारसातलंवापिनभस्स्थलंवा ।
एवन्निगूढोऽममास्त्रदग्धःपतिष्यतेभूमितलेगतासुः ॥ 42 ॥
इत्येवमुक्त्वावचनम्महात्मारघुप्रवीरःप्लवगर्षभैर्वृतः ।
वधायरौद्रस्यनृशंसकर्मणस्तदामहात्मात्वरितन्निरीक्षते ॥ 43 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे अशीतितमस्सर्गः ॥