View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.91 युद्धकांड - एकनवतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ एकनवतितमस्सर्गः ।

स हताश्वोमहातेजाभूमौतिष्ठन्निशाचरः ।
इंद्रजित्परमक्रुद्धस्सजज्वालतेजसा ॥ 1 ॥

तौधवनिनौजिघांसंतवन्योन्यमिषुभिर्भृशम् ।
विजयेनाभिनिष्क्रांतौवनेगजवृषाविव ॥ 2 ॥

निबर्हयंतश्चान्योन्यंतेराक्ष्वनौकसः ।
भर्तारं न जहुर्युद्धेसंपतंतस्ततस्ततः ॥ 3 ॥

ततस्तान् राक्षसान् सर्वान् हर्षयन् रावणात्मजः ।
स्तुवानोहर्षमाणश्चैदंवचनमब्रवीत् ॥ 4 ॥

तमसाबहुलेनेमास्सम्सक्तांसर्वतोदिशः ।
नेहविज्ञायतेस्वोवापरोवारक्षसोत्तमाः ॥ 5 ॥

धृष्टंभवंतोयुध्यंतुहरीणांमोहनायवै ।
अहंतुरथमास्थायआगमिष्यामिसंयुगे ॥ 6 ॥

तथाभवंतःकुर्वंतुयथेमेहिवनौकसः ।
न युध्येयुर्दुरात्मानःप्रविष्टेनगरंमयि ॥ 7 ॥

इत्युक्त्वारावणसुतोवंचयित्वावनौकसः ।
प्रविवेशपुरींलंकांरथहेतोरमित्रहा ॥ 8 ॥

स रथंभूषयित्वाथरुचिरंहेमभूषितम् ।
प्रासासिशरसंयुक्तंयुक्तंपरमवाजिभिः ॥ 9 ॥

अधिष्ठितंहयज्ञेनसूतेनाप्तोपदेशिना ।
आरुरोहमहातेजारावणिःसमतिंजियः ॥ 10 ॥

स राक्षसगणैर्मुख्यैर्वृतोमंदोदरीसुतः ।
निर्ययौनगरावदीरःकृतांतबलचोदितः ॥ 11 ॥

सोऽभिनिष्क्रम्यनगरादिंद्रजित्परवीरहा ।
अभ्ययाज्ञवनैरश्वैर्लक्ष्मणंसविभीषणम् ॥ 12 ॥

ततोरथस्थमालोक्यसौमत्रीरावणात्मजम् ।
वानराश्चमहावीर्याराक्षसश्चविभीषणः ॥ 13 ॥

विस्मयंपरमंजग्मुर्लाघवात्तस्यधीमतः ।
रावणिश्चापिसंक्रुद्धोरणेवानरयूथपान् ॥ 14 ॥

पातयामासबाणौघैःशतशोऽथसहस्रशः ।
मंडलीकृतधनूरावणिःसमतिंजयः ॥ 15 ॥

हरीनभ्यहनत्कृद्धःपरंलाघवमास्थितः ।
तेवध्यमानाहरयोनाराचैर्भीमविक्रमैः ॥ 16 ॥

सौमित्रिंशरणंप्राप्ताःप्रजापतिमिवप्रजाः ।
ततःसमरकोपेनज्वलितोरघुनंदनः ॥ 17 ॥

चिच्छेदकार्मुकंतस्यदर्शयन् पाणिलाघवम् ।
सोन्यऽत्कार्मुकं मादायसज्जंचक्रेत्वरन्निव ॥ 18 ॥

तदप्यस्यत्रिभिर्बाणैर्लक्ष्मणोनिरकृंतत ।
अथैवंछिन्नधन्वानमाशीविषविषोपमैः ॥ 19 ॥

विव्याधोरसिसौमित्रीरावणिंपंचभिःशरैः ।
तेतस्यकायंनिर्भिद्यमहाकार्मुकनिस्सृताः ॥ 20 ॥

निपेतुर्धरणींबाणारक्ताइवमहोरगाः ।
भिन्नवर्मारुधिरंवमन्वक्त्रेणरावणिः ॥ 21 ॥

जग्राहकार्मुकश्रेष्ठंदृढज्यंबलवत्तरम् ।
सःलक्ष्मणंसमुद्धिश्यपरंलाघवमाश्रितः ॥ 22 ॥

ववर्षशरवर्षाणिवर्षाणीवपुरंदरः ।
मुक्तमिंद्रजितातत्तुशरवर्षमरिंदमः ॥ 23 ॥

अवारयदसंभ्रांतोलक्ष्मणःसुदुरासदम् ।
संदर्शयामासतदारावणिंरघुनंदनः ॥ 24 ॥

असंब्रांतोमहातेजेस्तदद्भुतमिवाभवत् ।
तस्तान् राक्षसान् सर्वांस्त्रिभिरेकैकमाहवे ॥ 25 ॥

अविध्यत्परमक्रुद्धश्शीघ्रास्त्रंसंप्रदर्शयन् ।
राक्षसेंद्रसुतंचापिबाणौघैस्समताडयत् ॥ 26 ॥

सोऽतिविद्धोबलवताशत्रुणाशत्रुघातिना ।
असक्तंप्रेषयामासलक्ष्मणायबहून् शरान् ॥ 27 ॥

तानप्राप्तान् शितैर्भाणैश्चिच्छेदपरवीरहा ।
सारथेरस्य च रणेरथिवोरघुसत्तमः ॥ 28 ॥

शिरोजहारधर्मात्माभल्लेनानतपर्वणा ।
सूतास्तेहयास्तत्ररथमूहुरविक्लबाः ॥ 29 ॥

मंडलान्यभिधावंतस्तदद्भुतमिवाभवत् ।
अमर्षवशमापन्नःसौमित्रिर्दृढविक्रमः ॥ 30 ॥

प्रत्यविद्ध्यद्धयांस्तस्यशरैर्वित्रासयन् रणे ।
अमर्षमाणस्तत्कर्मरावणस्यसुतोबली ॥ 31 ॥

विव्याथदशभिर्बाणैस्सौमित्रिंतममर्षणम् ।
तेतस्यवज्रप्रतिमाःशरास्सर्पविषोपमाः ॥ 32 ॥

विलयंजग्मुरागत्यकवचंकांचनप्रभम् ।
अभ्येद्यकवचंमत्वालक्ष्मणंरावणात्मजः ॥ 33 ॥

ललाटेलक्ष्मणंबाणैस्सुपुंखैस्त्रिभिरिंद्रजित् ।
अविध्यत्परमक्रुद्धःशीघ्रमस्त्रंप्रदर्शयन् ॥ 34 ॥

तैःपृषत्कैर्ललाटस्थैश्शुशुभेरघुनंदनः ।
रणाग्रेसमरश्लाघीत्रिशृंगैवपर्वतः ॥ 35 ॥

स तथाह्यर्दितोबाणैराक्षसेनतदामृधे ।
तमाशुप्रतिविव्याधलक्ष्मणःपंचभिःशरैः ॥ 36 ॥

विकृष्वेंद्रजितोयुद्धेवदनेशुभकुंडले ।
लक्ष्मणेंद्रजितौवीरौमहाबलशरासनौ ॥ 37 ॥

अन्योन्यंजघ्नतुर्बाणैर्विशिखैर्मीविक्रमौ ।
ततःशोणितदिग्धांगौलक्ष्मणेंदजितावुभौ ॥ 38 ॥

रणेतौराजतुर्वीरौपुष्पिताविवकिंशुकौ ।
तौपरस्परमभ्येत्यसर्वगात्रेषुधवनिनौ ॥ 39 ॥

घोरैर्विव्यधतुर्भाणैःकृतभावावुभौजये ।
ततःसमरकोपेनसम्वृतोरावणात्मजः ॥ 40 ॥

विभीषणंत्रिभिर्बाणैर्विव्याथवदनेशुभे ।
अयोमुखैस्त्रिभिर्विद्ध्वाराक्षसेंद्रंविभीषणम् ॥ 41 ॥

एकैकेनाभिविव्याथतान्सर्वान् हरियूथपान् ।
तस्मैदृढतरंक्रुद्धोजघानगदयाहयान् ॥ 42 ॥

विभीषणोमहातेजारावणेस्सदुरात्मनः ।
पहताश्वादवाप्लुत्यरथान्निहतसारथेः ॥ 43 ॥

रथशक्तिंमहातेजाःपितृव्यायमुमोच ह ।
तामापततनींसंप्रेक्ष्यसुमित्रानंदवर्धनः ॥ 44 ॥

चिच्छेदनिशितैर्बाणैर्धशथापातयद्भुवि ।
तस्मैदृढतनुःक्रुद्धोहताश्वायविभीषणः ॥ 45 ॥

वज्रस्पर्शसमान् पंचससर्जोरसिसायकान् ।
तेतस्यकायंभित्वातुरुक्मपुंखानिमित्तगाः ॥ 46 ॥

बभूवुर्लोहितादिग्धारक्ताइवमहोरगाः ।
सःपितृव्यस्यसंक्रुद्धःइंद्रजिच्छरमाददे ॥ 47 ॥

उत्तमंरक्षसांमध्येयमदत्तंमहाबलम् ।
तंसमीक्ष्यमहातेजामहेषुंतेनसंहितम् ॥ 48 ॥

लक्ष्मणोऽप्याददेबाणमद्यभदीमपराक्रमः ।
कुबेरेणस्वयंस्वप्नेयद्दत्तममितात्मना ॥ 49 ॥

दुर्जयंदुर्विषह्यं च सेंद्रैरपिसुरासुरैः ।
तयोस्तुधनुषीश्रेष्ठेबाहुभिःपरिघोपमैः ॥ 50 ॥

विकृष्यमाणेबलवत् क्रौंचविवचुकूजतुः ।
ताभ्यांतुधनुषिश्रेष्ठेसंसितौसायकोत्तमौ ॥ 51 ॥

विकृष्यमाणेवीराभ्यांभृशंजज्वलतुःश्रिया ।
तौभासयंतावाकाशंधनुर्भ्यांविशिखौच्युतौ ॥ 52 ॥

मुखेनमुखमाहत्यसन्निपेततुरोजसा ।
सन्निपातस्तयोश्चासीच्छरयोर्घोररूपयोः ॥ 53 ॥

सधूमविस्फुलिंगश्चतज्जोऽनगिर्दारुणोऽभवत् ।
तौमहाग्रहसंकाशावन्योन्यंसन्निपत्य च ॥ 54 ॥

संग्रामेशतधायातौमेदिन्यांचैवपेततुः ।
शरौप्रतिहतौदृष्टवातावुभौरणमूर्धनि ॥ 55 ॥

व्रीडितौजातरोषौ च लक्ष्मणेंद्रजितौतदा ।
सुसंरर्ब्धस्तुसौमित्रिरस्त्रंवारुमाददे ॥ 56 ॥

रौद्रंमहेंद्रजिद्युद्धेऽप्यसृजद्युद्धनिष्ठितः ।
तेनतद्विहतंशस्त्रंवारुणंपरमाद्भुतम् ॥ 57 ॥

ततःक्रुद्धोमहातेजाइंद्रजित्समितिंजयः ।
आग्नेयंसंदधेदीप्तं स लोकंसंक्षिपन्निव ॥ 58 ॥

सौरेणास्त्रणतवदीरोलक्ष्मणःपर्यवारयत् ।
अस्त्रंनिवारितंदृष्टवारावणिःक्रोथमूर्छितः ॥ 59 ॥

आददेनिशितंबाणमासुरंशत्रुदारुणम् ।
तस्माच्चापाद्विनिष्पेतुर्भास्वराःकूटमुद्गराः ॥ 60 ॥

शूलानि च मुशुंड्यश्चगदाःखंगाः परश्वथाः ।
तद्दृष्टवालक्ष्मणःसंख्येघोरमस्त्रंसुदारुणम् ॥ 61 ॥

अवार्यंसर्वभूतानांसर्वशस्त्रविदारणम् ।
महेश्वरेणद्युतिमांस्तदस्त्रंप्रत्यवारयत् ॥ 62 ॥

तयोःसमुतुलंयुद्धंसंबभूवारोमहर्षणम् ।
गगनस्थानिभूतानिलक्ष्मणंपर्यवारयन् ॥ 63 ॥

भैरवाभिरुतेभीमेयुद्धेवानरक्षसाम् ।
भूतैर्बहुभिराकाशंविस्मितैरावृतंबभौ ॥ 64 ॥

ऋषयःपितरोदेवागंधर्वगरुडोरगाः ।
शतक्रतुंपुरस्कृत्यररक्षुर्लक्ष्मणंरणे ॥ 65 ॥

अथान्यंमार्गणश्रेष्ठंसंदधेराघवानुजः ।
हुताशनसमस्पर्शंरावणात्मजदारणम् ॥ 66 ॥

सुपत्रमनुवृत्तांगंसुपर्वाणंसुसंस्थितम् ।
सुवर्णविकृतंवीरश्शरीरांतकरंशरम् ॥ 67 ॥

दुरावारंदुर्विषहंराक्षसानांभयावहम् ।
आशीविषविषप्रख्यंदेवसंघैःसमर्चितम् ॥ 68 ॥

येनशक्रोमहातेजादानवानजत्प्रभुः ।
पुरादेवासुरेयुद्धेवीर्यवान् हरिवाहनः ॥ 69 ॥

तदैंद्रमस्त्रंसौमित्रिःसम्युगेष्वपराजितम् ।
शरश्रेष्ठंधनुः श्रेष्ठेविकर्षन्निदमिब्रवीत् ॥ 70 ॥

लक्ष्मीवान् लक्ष्मणोवाक्यमर्थसाधकमात्मनः ।
धर्मात्मासत्यसंधश्चरामोदाशरथिर्यति ॥ 71 ॥

पौरुषेचाप्रतिद्वंद्वःशरैनंजसिरावणिम् ।
इत्युक्त्वाबाणमाकर्णंविकृष्यतमजिह्मगम् ॥ 72 ॥

लक्ष्मणःसमरेवीरःससर्जेंद्रजितंप्रति ।
ऐंद्रास्त्रेणसमायुज्यलक्ष्मणःपरवीरहा ॥ 73 ॥

ततशिरःसशिरस्त्राणंश्रीमज्ज्वलितकुंडलम् ।
प्रमथ्येंद्रजितःकायात्पातयामासभूतले ॥ 74 ॥

तद्राक्षसतनूजस्यभिन्नस्कंधंशिरोमहत् ।
तपनीयनिभंभूमौददृशेरुधिरोक्षितम् ॥ 75 ॥

हतः स निपपाताथधरण्यांरावणात्मजः ।
कवचीसशिरस्त्राणोविद्धस्थशरासनः ॥ 76 ॥

चुक्रुशुस्तेततःसर्वेवानराःसविभीषणाः ।
हृष्यंतोनिहतेतस्मिन् देवावृत्रवधेयथा ॥ 77 ॥

अथांतरिक्षेभूतानामृषीणां च महात्मनाम् ।
जज्ञेऽथजयसन्नादोगंधर्वाप्सरसामपि ॥ 78 ॥

पतितंतमभिज्ञायराक्षसीसामहाचमूः ।
वध्यमानादिशोभेजेहरिभिर्जितकाशिभिः ॥ 79 ॥

वानरैर्वध्यमानास्तेशस्त्रानुत्सृज्यराक्षसाः ।
लंकामभिमुखास्सस्रुर्भ्रष्टसंज्ञाःप्रधाविताः ॥ 80 ॥

दुद्रुवुर्भहुधाभीताराक्षसाश्शतशोदिशः ।
त्यक्त्वाप्रहरणान्सर्वेपट्टसासिपरश्वधान् ॥ 81 ॥

केचिल्लंकांपरित्रस्ताःविष्टावानरार्दिताः ।
समुद्रेपतिताःकेचित्केचित्पर्वतमाश्रिताः ॥ 82 ॥

हतमिंद्रजितंदृष्टवाशयानं च रणक्षितौ ।
राक्षसानांसहस्रेषु न कश्चित्प्रत्यदृश्यत ॥ 83 ॥

यथास्तंगतआदित्येनावतिष्ठंतिरश्मयः ।
तथातस्मिन्निपतितेराक्षसास्तेगतादिशः ॥ 84 ॥

शांतरश्मिरिवादित्योनिर्वाणैवपावकः ।
बभूव स महाबाहुर्व्यपास्तगतजीवितः ॥ 85 ॥

प्रशांतपीडाबहुलोविनष्टारिःप्रहर्षवान् ।
बभूवलोकःपतितेराक्षसेंद्रसुतोतदा ॥ 86 ॥

हर्षं च शक्रोभगवान् सहसर्वैर्महर्षिभिः ।
जगामनिहतेतस्मिन्राक्षसेपापकर्मणि ॥ 87 ॥

आकाशेचापिदेवानांशुश्रुवेदुंदुभिस्वनः ।
नृत्यद्भिरप्सरोभिश्चगंधर्वैश्चमहात्मभिः ॥ 88 ॥

ववर्षुःपुष्पवर्षाणितदद्भुतमिवाभवत् ।
प्रशशंसुर्हतेतस्मिन्राक्षसेक्रूरकर्मणि ॥ 89 ॥

शुद्धाआपोनभश्चैवजहृषुर्देवदानवाः ।
आजग्मुःपतितेतस्मिन्सर्वलोकभयावहे ॥ 90 ॥

ऊचुश्चसहितास्तुष्टादेवगंधर्वदानवाः ।
विज्वराश्शांतकलुषाब्राह्मणाविचरंत्विति ॥ 91 ॥

ततोऽभ्यनंदन्सम्हृष्टास्समरेहरियूथपाः ।
तमप्रतिबलंदृष्टवाहतंनैरृतपुंगवम् ॥ 92 ॥

विभीषणोहनूमांश्चजांबवांश्चर्क्षयूथपः ।
विजयेनाभिनंदंतसुष्टुवुश्चापिलक्ष्मणम् ॥ 93 ॥

क्ष्वेलंतश्चप्लवंतश्चगर्जंतश्चप्लवंगमाः ।
लब्दलक्षारघुसुतंपरिवार्योपतस्थिरे ॥ 94 ॥

लांगूलानिप्रविध्यंतस्स्फोटयंतश्चवानराः ।
लक्ष्मणोजयतीत्येवंवाक्यंविश्रावयंस्तदा ॥ 95 ॥

अन्योन्यं च समालशिष्यहरयोहृष्टमानसाः ।
चक्रुरुच्चावगुणाराघवाश्रयसजाः कथाः ॥ 96 ॥

तदसुकरमथाभिवीक्ष्यहृष्टाःप्रियसुहृदोयुधिलक्ष्मणस्यकर्म ।
परममुपलभन्मनःप्रहर्षंविनिहतमिंद्ररिपुंनिशम्यदेवाः ॥ 97 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे एकनवतितमस्सर्गः ॥




Browse Related Categories: