श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ एकनवतितमस्सर्गः ।
स हताश्वोमहातेजाभूमौतिष्ठन्निशाचरः ।
इन्द्रजित्परमक्रुद्धस्सजज्वालतेजसा ॥ 1 ॥
तौधवनिनौजिघांसन्तवन्योन्यमिषुभिर्भृशम् ।
विजयेनाभिनिष्क्रान्तौवनेगजवृषाविव ॥ 2 ॥
निबर्हयन्तश्चान्योन्यन्तेराक्ष्वनौकसः ।
भर्तारं न जहुर्युद्धेसम्पतन्तस्ततस्ततः ॥ 3 ॥
ततस्तान् राक्षसान् सर्वान् हर्षयन् रावणात्मजः ।
स्तुवानोहर्षमाणश्चैदंवचनमब्रवीत् ॥ 4 ॥
तमसाबहुलेनेमास्सम्सक्तांसर्वतोदिशः ।
नेहविज्ञायतेस्वोवापरोवारक्षसोत्तमाः ॥ 5 ॥
धृष्टम्भवन्तोयुध्यन्तुहरीणाम्मोहनायवै ।
अहन्तुरथमास्थायआगमिष्यामिसंयुगे ॥ 6 ॥
तथाभवन्तःकुर्वन्तुयथेमेहिवनौकसः ।
न युध्येयुर्दुरात्मानःप्रविष्टेनगरम्मयि ॥ 7 ॥
इत्युक्त्वारावणसुतोवञ्चयित्वावनौकसः ।
प्रविवेशपुरींलङ्कांरथहेतोरमित्रहा ॥ 8 ॥
स रथम्भूषयित्वाथरुचिरंहेमभूषितम् ।
प्रासासिशरसंयुक्तंयुक्तम्परमवाजिभिः ॥ 9 ॥
अधिष्ठितंहयज्ञेनसूतेनाप्तोपदेशिना ।
आरुरोहमहातेजारावणिःसमतिञ्जियः ॥ 10 ॥
स राक्षसगणैर्मुख्यैर्वृतोमन्दोदरीसुतः ।
निर्ययौनगरावदीरःकृतान्तबलचोदितः ॥ 11 ॥
सोऽभिनिष्क्रम्यनगरादिन्द्रजित्परवीरहा ।
अभ्ययाज्ञवनैरश्वैर्लक्ष्मणंसविभीषणम् ॥ 12 ॥
ततोरथस्थमालोक्यसौमत्रीरावणात्मजम् ।
वानराश्चमहावीर्याराक्षसश्चविभीषणः ॥ 13 ॥
विस्मयम्परमञ्जग्मुर्लाघवात्तस्यधीमतः ।
रावणिश्चापिसङ्क्रुद्धोरणेवानरयूथपान् ॥ 14 ॥
पातयामासबाणौघैःशतशोऽथसहस्रशः ।
मण्डलीकृतधनूरावणिःसमतिञ्जयः ॥ 15 ॥
हरीनभ्यहनत्कृद्धःपरंलाघवमास्थितः ।
तेवध्यमानाहरयोनाराचैर्भीमविक्रमैः ॥ 16 ॥
सौमित्रिंशरणम्प्राप्ताःप्रजापतिमिवप्रजाः ।
ततःसमरकोपेनज्वलितोरघुनन्दनः ॥ 17 ॥
चिच्छेदकार्मुकन्तस्यदर्शयन् पाणिलाघवम् ।
सोन्यऽत्कार्मुकं मादायसज्जञ्चक्रेत्वरन्निव ॥ 18 ॥
तदप्यस्यत्रिभिर्बाणैर्लक्ष्मणोनिरकृन्तत ।
अथैवञ्छिन्नधन्वानमाशीविषविषोपमैः ॥ 19 ॥
विव्याधोरसिसौमित्रीरावणिम्पञ्चभिःशरैः ।
तेतस्यकायन्निर्भिद्यमहाकार्मुकनिस्सृताः ॥ 20 ॥
निपेतुर्धरणीम्बाणारक्ताइवमहोरगाः ।
भिन्नवर्मारुधिरंवमन्वक्त्रेणरावणिः ॥ 21 ॥
जग्राहकार्मुकश्रेष्ठन्दृढज्यम्बलवत्तरम् ।
सःलक्ष्मणंसमुद्धिश्यपरंलाघवमाश्रितः ॥ 22 ॥
ववर्षशरवर्षाणिवर्षाणीवपुरन्दरः ।
मुक्तमिन्द्रजितातत्तुशरवर्षमरिन्दमः ॥ 23 ॥
अवारयदसम्भ्रान्तोलक्ष्मणःसुदुरासदम् ।
सन्दर्शयामासतदारावणिंरघुनन्दनः ॥ 24 ॥
असम्ब्रान्तोमहातेजेस्तदद्भुतमिवाभवत् ।
तस्तान् राक्षसान् सर्वांस्त्रिभिरेकैकमाहवे ॥ 25 ॥
अविध्यत्परमक्रुद्धश्शीघ्रास्त्रंसम्प्रदर्शयन् ।
राक्षसेन्द्रसुतञ्चापिबाणौघैस्समताडयत् ॥ 26 ॥
सोऽतिविद्धोबलवताशत्रुणाशत्रुघातिना ।
असक्तम्प्रेषयामासलक्ष्मणायबहून् शरान् ॥ 27 ॥
तानप्राप्तान् शितैर्भाणैश्चिच्छेदपरवीरहा ।
सारथेरस्य च रणेरथिवोरघुसत्तमः ॥ 28 ॥
शिरोजहारधर्मात्माभल्लेनानतपर्वणा ।
सूतास्तेहयास्तत्ररथमूहुरविक्लबाः ॥ 29 ॥
मण्डलान्यभिधावन्तस्तदद्भुतमिवाभवत् ।
अमर्षवशमापन्नःसौमित्रिर्दृढविक्रमः ॥ 30 ॥
प्रत्यविद्ध्यद्धयांस्तस्यशरैर्वित्रासयन् रणे ।
अमर्षमाणस्तत्कर्मरावणस्यसुतोबली ॥ 31 ॥
विव्याथदशभिर्बाणैस्सौमित्रिन्तममर्षणम् ।
तेतस्यवज्रप्रतिमाःशरास्सर्पविषोपमाः ॥ 32 ॥
विलयञ्जग्मुरागत्यकवचङ्काञ्चनप्रभम् ।
अभ्येद्यकवचम्मत्वालक्ष्मणंरावणात्मजः ॥ 33 ॥
ललाटेलक्ष्मणम्बाणैस्सुपुङ्खैस्त्रिभिरिन्द्रजित् ।
अविध्यत्परमक्रुद्धःशीघ्रमस्त्रम्प्रदर्शयन् ॥ 34 ॥
तैःपृषत्कैर्ललाटस्थैश्शुशुभेरघुनन्दनः ।
रणाग्रेसमरश्लाघीत्रिशृङ्गैवपर्वतः ॥ 35 ॥
स तथाह्यर्दितोबाणैराक्षसेनतदामृधे ।
तमाशुप्रतिविव्याधलक्ष्मणःपञ्चभिःशरैः ॥ 36 ॥
विकृष्वेन्द्रजितोयुद्धेवदनेशुभकुण्डले ।
लक्ष्मणेन्द्रजितौवीरौमहाबलशरासनौ ॥ 37 ॥
अन्योन्यञ्जघ्नतुर्बाणैर्विशिखैर्मीविक्रमौ ।
ततःशोणितदिग्धाङ्गौलक्ष्मणेन्दजितावुभौ ॥ 38 ॥
रणेतौराजतुर्वीरौपुष्पिताविवकिंशुकौ ।
तौपरस्परमभ्येत्यसर्वगात्रेषुधवनिनौ ॥ 39 ॥
घोरैर्विव्यधतुर्भाणैःकृतभावावुभौजये ।
ततःसमरकोपेनसम्वृतोरावणात्मजः ॥ 40 ॥
विभीषणन्त्रिभिर्बाणैर्विव्याथवदनेशुभे ।
अयोमुखैस्त्रिभिर्विद्ध्वाराक्षसेन्द्रंविभीषणम् ॥ 41 ॥
एकैकेनाभिविव्याथतान्सर्वान् हरियूथपान् ।
तस्मैदृढतरङ्क्रुद्धोजघानगदयाहयान् ॥ 42 ॥
विभीषणोमहातेजारावणेस्सदुरात्मनः ।
पहताश्वादवाप्लुत्यरथान्निहतसारथेः ॥ 43 ॥
रथशक्तिम्महातेजाःपितृव्यायमुमोच ह ।
तामापततनींसम्प्रेक्ष्यसुमित्रानन्दवर्धनः ॥ 44 ॥
चिच्छेदनिशितैर्बाणैर्धशथापातयद्भुवि ।
तस्मैदृढतनुःक्रुद्धोहताश्वायविभीषणः ॥ 45 ॥
वज्रस्पर्शसमान् पञ्चससर्जोरसिसायकान् ।
तेतस्यकायम्भित्वातुरुक्मपुङ्खानिमित्तगाः ॥ 46 ॥
बभूवुर्लोहितादिग्धारक्ताइवमहोरगाः ।
सःपितृव्यस्यसङ्क्रुद्धःइन्द्रजिच्छरमाददे ॥ 47 ॥
उत्तमंरक्षसाम्मध्येयमदत्तम्महाबलम् ।
तंसमीक्ष्यमहातेजामहेषुन्तेनसंहितम् ॥ 48 ॥
लक्ष्मणोऽप्याददेबाणमद्यभदीमपराक्रमः ।
कुबेरेणस्वयंस्वप्नेयद्दत्तममितात्मना ॥ 49 ॥
दुर्जयन्दुर्विषह्यं च सेन्द्रैरपिसुरासुरैः ।
तयोस्तुधनुषीश्रेष्ठेबाहुभिःपरिघोपमैः ॥ 50 ॥
विकृष्यमाणेबलवत् क्रौञ्चविवचुकूजतुः ।
ताभ्यान्तुधनुषिश्रेष्ठेसंसितौसायकोत्तमौ ॥ 51 ॥
विकृष्यमाणेवीराभ्याम्भृशञ्जज्वलतुःश्रिया ।
तौभासयन्तावाकाशन्धनुर्भ्यांविशिखौच्युतौ ॥ 52 ॥
मुखेनमुखमाहत्यसन्निपेततुरोजसा ।
सन्निपातस्तयोश्चासीच्छरयोर्घोररूपयोः ॥ 53 ॥
सधूमविस्फुलिङ्गश्चतज्जोऽनगिर्दारुणोऽभवत् ।
तौमहाग्रहसङ्काशावन्योन्यंसन्निपत्य च ॥ 54 ॥
सङ्ग्रामेशतधायातौमेदिन्याञ्चैवपेततुः ।
शरौप्रतिहतौदृष्टवातावुभौरणमूर्धनि ॥ 55 ॥
व्रीडितौजातरोषौ च लक्ष्मणेन्द्रजितौतदा ।
सुसंरर्ब्धस्तुसौमित्रिरस्त्रंवारुमाददे ॥ 56 ॥
रौद्रम्महेन्द्रजिद्युद्धेऽप्यसृजद्युद्धनिष्ठितः ।
तेनतद्विहतंशस्त्रंवारुणम्परमाद्भुतम् ॥ 57 ॥
ततःक्रुद्धोमहातेजाइन्द्रजित्समितिञ्जयः ।
आग्नेयंसन्दधेदीप्तं स लोकंसङ्क्षिपन्निव ॥ 58 ॥
सौरेणास्त्रणतवदीरोलक्ष्मणःपर्यवारयत् ।
अस्त्रन्निवारितन्दृष्टवारावणिःक्रोथमूर्छितः ॥ 59 ॥
आददेनिशितम्बाणमासुरंशत्रुदारुणम् ।
तस्माच्चापाद्विनिष्पेतुर्भास्वराःकूटमुद्गराः ॥ 60 ॥
शूलानि च मुशुण्ड्यश्चगदाःखङ्गाः परश्वथाः ।
तद्दृष्टवालक्ष्मणःसङ्ख्येघोरमस्त्रंसुदारुणम् ॥ 61 ॥
अवार्यंसर्वभूतानांसर्वशस्त्रविदारणम् ।
महेश्वरेणद्युतिमांस्तदस्त्रम्प्रत्यवारयत् ॥ 62 ॥
तयोःसमुतुलंयुद्धंसम्बभूवारोमहर्षणम् ।
गगनस्थानिभूतानिलक्ष्मणम्पर्यवारयन् ॥ 63 ॥
भैरवाभिरुतेभीमेयुद्धेवानरक्षसाम् ।
भूतैर्बहुभिराकाशंविस्मितैरावृतम्बभौ ॥ 64 ॥
ऋषयःपितरोदेवागन्धर्वगरुडोरगाः ।
शतक्रतुम्पुरस्कृत्यररक्षुर्लक्ष्मणंरणे ॥ 65 ॥
अथान्यम्मार्गणश्रेष्ठंसन्दधेराघवानुजः ।
हुताशनसमस्पर्शंरावणात्मजदारणम् ॥ 66 ॥
सुपत्रमनुवृत्ताङ्गंसुपर्वाणंसुसंस्थितम् ।
सुवर्णविकृतंवीरश्शरीरान्तकरंशरम् ॥ 67 ॥
दुरावारन्दुर्विषहंराक्षसानाम्भयावहम् ।
आशीविषविषप्रख्यन्देवसङ्घैःसमर्चितम् ॥ 68 ॥
येनशक्रोमहातेजादानवानजत्प्रभुः ।
पुरादेवासुरेयुद्धेवीर्यवान् हरिवाहनः ॥ 69 ॥
तदैन्द्रमस्त्रंसौमित्रिःसम्युगेष्वपराजितम् ।
शरश्रेष्ठन्धनुः श्रेष्ठेविकर्षन्निदमिब्रवीत् ॥ 70 ॥
लक्ष्मीवान् लक्ष्मणोवाक्यमर्थसाधकमात्मनः ।
धर्मात्मासत्यसन्धश्चरामोदाशरथिर्यति ॥ 71 ॥
पौरुषेचाप्रतिद्वन्द्वःशरैनञ्जसिरावणिम् ।
इत्युक्त्वाबाणमाकर्णंविकृष्यतमजिह्मगम् ॥ 72 ॥
लक्ष्मणःसमरेवीरःससर्जेन्द्रजितम्प्रति ।
ऐन्द्रास्त्रेणसमायुज्यलक्ष्मणःपरवीरहा ॥ 73 ॥
ततशिरःसशिरस्त्राणंश्रीमज्ज्वलितकुण्डलम् ।
प्रमथ्येन्द्रजितःकायात्पातयामासभूतले ॥ 74 ॥
तद्राक्षसतनूजस्यभिन्नस्कन्धंशिरोमहत् ।
तपनीयनिभम्भूमौददृशेरुधिरोक्षितम् ॥ 75 ॥
हतः स निपपाताथधरण्यांरावणात्मजः ।
कवचीसशिरस्त्राणोविद्धस्थशरासनः ॥ 76 ॥
चुक्रुशुस्तेततःसर्वेवानराःसविभीषणाः ।
हृष्यन्तोनिहतेतस्मिन् देवावृत्रवधेयथा ॥ 77 ॥
अथान्तरिक्षेभूतानामृषीणां च महात्मनाम् ।
जज्ञेऽथजयसन्नादोगन्धर्वाप्सरसामपि ॥ 78 ॥
पतितन्तमभिज्ञायराक्षसीसामहाचमूः ।
वध्यमानादिशोभेजेहरिभिर्जितकाशिभिः ॥ 79 ॥
वानरैर्वध्यमानास्तेशस्त्रानुत्सृज्यराक्षसाः ।
लङ्कामभिमुखास्सस्रुर्भ्रष्टसञ्ज्ञाःप्रधाविताः ॥ 80 ॥
दुद्रुवुर्भहुधाभीताराक्षसाश्शतशोदिशः ।
त्यक्त्वाप्रहरणान्सर्वेपट्टसासिपरश्वधान् ॥ 81 ॥
केचिल्लङ्काम्परित्रस्ताःविष्टावानरार्दिताः ।
समुद्रेपतिताःकेचित्केचित्पर्वतमाश्रिताः ॥ 82 ॥
हतमिन्द्रजितन्दृष्टवाशयानं च रणक्षितौ ।
राक्षसानांसहस्रेषु न कश्चित्प्रत्यदृश्यत ॥ 83 ॥
यथास्तङ्गतआदित्येनावतिष्ठन्तिरश्मयः ।
तथातस्मिन्निपतितेराक्षसास्तेगतादिशः ॥ 84 ॥
शान्तरश्मिरिवादित्योनिर्वाणैवपावकः ।
बभूव स महाबाहुर्व्यपास्तगतजीवितः ॥ 85 ॥
प्रशान्तपीडाबहुलोविनष्टारिःप्रहर्षवान् ।
बभूवलोकःपतितेराक्षसेन्द्रसुतोतदा ॥ 86 ॥
हर्षं च शक्रोभगवान् सहसर्वैर्महर्षिभिः ।
जगामनिहतेतस्मिन्राक्षसेपापकर्मणि ॥ 87 ॥
आकाशेचापिदेवानांशुश्रुवेदुन्दुभिस्वनः ।
नृत्यद्भिरप्सरोभिश्चगन्धर्वैश्चमहात्मभिः ॥ 88 ॥
ववर्षुःपुष्पवर्षाणितदद्भुतमिवाभवत् ।
प्रशशंसुर्हतेतस्मिन्राक्षसेक्रूरकर्मणि ॥ 89 ॥
शुद्धाआपोनभश्चैवजहृषुर्देवदानवाः ।
आजग्मुःपतितेतस्मिन्सर्वलोकभयावहे ॥ 90 ॥
ऊचुश्चसहितास्तुष्टादेवगन्धर्वदानवाः ।
विज्वराश्शान्तकलुषाब्राह्मणाविचरन्त्विति ॥ 91 ॥
ततोऽभ्यनन्दन्सम्हृष्टास्समरेहरियूथपाः ।
तमप्रतिबलन्दृष्टवाहतन्नैरृतपुङ्गवम् ॥ 92 ॥
विभीषणोहनूमांश्चजाम्बवांश्चर्क्षयूथपः ।
विजयेनाभिनन्दन्तसुष्टुवुश्चापिलक्ष्मणम् ॥ 93 ॥
क्ष्वेलन्तश्चप्लवन्तश्चगर्जन्तश्चप्लवङ्गमाः ।
लब्दलक्षारघुसुतम्परिवार्योपतस्थिरे ॥ 94 ॥
लाङ्गूलानिप्रविध्यन्तस्स्फोटयन्तश्चवानराः ।
लक्ष्मणोजयतीत्येवंवाक्यंविश्रावयंस्तदा ॥ 95 ॥
अन्योन्यं च समालशिष्यहरयोहृष्टमानसाः ।
चक्रुरुच्चावगुणाराघवाश्रयसजाः कथाः ॥ 96 ॥
तदसुकरमथाभिवीक्ष्यहृष्टाःप्रियसुहृदोयुधिलक्ष्मणस्यकर्म ।
परममुपलभन्मनःप्रहर्षंविनिहतमिन्द्ररिपुन्निशम्यदेवाः ॥ 97 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे एकनवतितमस्सर्गः ॥