View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

2.2 अयोध्याकाण्ड - द्वितीय सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ द्वितीयस्सर्गः ।

ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः ।
हितमुद्धर्षणं चैवमुवाच प्रथितं वचः ॥ 1 ॥

दुन्दुभिस्वनकल्पेन गम्भीरेणानुनादिना ।
स्वरेण महता राजा जीमूत इव नादयन् ॥ 2 ॥

राजलक्षणयुक्तेन कान्तेनानुपमेन च ।
उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान् ॥ 3 ॥

विदितं भवतामेतद्यथा मे राज्यमुत्तमम् ।
पूर्वकैर्मम राजेन्द्रैस्सुतवत्परिपालितम् ॥ 4 ॥

सोऽहमिक्ष्वाकुभि स्सर्वैर्नरेन्द्रैः परिपालितम् ।
श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत् ॥ 5 ॥

मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता ।
प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः ॥ 6 ॥

इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् ।
पाण्डुरस्याऽतपत्रस्यच्छायायां जरितं मया ॥ 7 ॥

प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवतः ।
जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये ॥ 8 ॥

राजप्रभावजुष्टां हि दुर्वहामजितेन्द्रियैः ।
परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन् ॥ 9 ॥

सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते ।
सन्निकृष्टानिमान्सर्वाननुमान्य द्विजर्षभान् ॥ 10 ॥

अनुजातो हि मां सर्वैर्गुणैर्ज्येष्ठो ममात्मजः ।
पुरन्दरसमो वीर्ये रामः परपुरञ्जयः ॥ 11 ॥

तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम् ।
यौवराज्ये नियोक्ताऽस्मि प्रीतः पुरुषपुङ्गवम् ॥ 12 ॥

अनुरूपस्स वै नाथो लक्ष्मीवान् लक्ष्मणाग्रजः ।
त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् ॥ 13 ॥

अनेन श्रेयसा सद्यस्संयोज्यैवमिमां महीम् ।
गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै ॥ 14 ॥

यदिदं मेऽनुरूपार्थं मया साधु सुमन्त्रितम् ।
भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम् ॥ 15 ॥

यद्यप्येषा मम प्रीतिर्हितमन्यद्विचिन्त्यताम् ।
अन्या मध्यस्थचिन्ता हि विमर्दाभ्यधिकोदया ॥ 16 ॥

इति ब्रुवन्तं मुदिताः प्रत्यनन्दन्नृपा नृपम् ।
वृष्टिमन्तं महामेघं नर्दन्त इव बर्हिणः ॥ 17 ॥

स्निग्धोऽनुनादी सञ्जज्ञे तत्र हर्षसमीरितः ।
जनौघोद्घुष्टसन्नादो विमानं कम्पयन्निव ॥ 18 ॥

तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः ।
ब्राह्मणा जनमुख्याश्च पौरजानपदै स्सह ॥ 19 ॥

समेत्य मन्त्रयित्वा तु समतागतबुद्धयः ।
ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम् ॥ 20 ॥

अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव ।
स रामं युवराजानमभिषिञ्चिस्व पार्थिवम् ॥ 21 ॥

इच्छामो हि महाबाहुं रघुवीरं महाबलम् ।
गजेन महताऽयान्तं रामं छत्रावृताननम् ॥ 22 ॥

इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम् ।
अजानन्निव जिज्ञासुरिदं वचनमब्रवीत् ॥ 23 ॥

श्रुत्वैव वचनं यन्मे राघवं पतिमिच्छथ ।
राजान स्संशयोऽयं मे किमिदं ब्रूत तत्त्वतः ॥ 24 ॥

कथं नु मयि धर्मेण पृथिवीमनुशासति ।
भवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम् ॥ 25 ॥

ते तमूचुर्महात्मानं पौरजानपदैस्सह ।
बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते ॥ 26 ॥

गुणान् गुणवतो देव देवकल्पस्य धीमतः ।
प्रियानानन्दनान्कृत्स्नान्प्रवक्ष्यामोऽद्य तान् शृणु ॥ 27 ॥

दिव्यैर्गुणैश्शक्रसमो रामस्सत्यपराक्रमः ।
इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशाम्पते ॥ 28 ॥

राम स्सत्पुरुषो लोके सत्यधर्मपरायणः ।
साक्षाद्रामाद्विनिर्वृत्तो धर्मश्चापि श्रिया सह ॥ 29 ॥

प्रजासुखत्त्वे चन्द्रस्य वसुधायाः क्षमागुणैः ।
बुद्ध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः ॥ 30 ॥

धर्मज्ञः सत्यसन्धश्च शीलवाननसूयकः ।
क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः ॥ 31 ॥

मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः ।
प्रियवादी च भूतानां सत्यवादी च राघवः ॥ 32 ॥

बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता ।
तेनास्येहाऽतुला कीर्तिर्यशस्तेजश्च वर्धते ॥ 33 ॥

देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः ।
सम्यग्विद्याव्रतस्नातो यथावत्साङ्गवेदवित् ॥ 34 ॥

गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः ।
कल्याणाभिजन स्साधुरदीनात्मा महामतिः ॥ 35 ॥

द्विजैरभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणैः ।
यदा व्रजति सङ्ग्रामं ग्रामार्थे नगरस्य वा ॥ 36 ॥

गत्वा सौमित्रिसहितो नाऽविजित्य निवर्तते ।
सङ्ग्रामात्पुनरागम्य कुञ्जरेण रथेन वा ॥ 37 ॥

पौरान् स्वजनवन्नित्यं कुशलं परिपृच्छति ।
पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च ॥ 38 ॥

निखिलेनानुपूर्व्याच्च पितापुत्रानिवौरसान् ।
शुश्रूषन्ते च व श्शिष्याः कच्चित्कर्मसु दंशिताः ॥ 39 ॥

इति नः पुरुषव्याघ्र स्सदा रामोऽभिभाषते ।
व्यसनेषु मनुष्याणां भृशं भवति दुःखितः ॥ 40 ॥

उत्सवेषु च सर्वेषु पितेव परितुष्यति ।
सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः ॥ 41 ॥

स्मितपूर्वाभिभाषी च धर्मं सर्वात्मना श्रितः ।
सम्यग्योक्ता श्रेयसां च न विगृह्य कथारुचिः ॥ 42 ॥

उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ।
सुभ्रूः आयतताम्राक्षः साक्षाद्विष्णुरिव स्वयम् ॥ 43 ॥

रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः ।
प्रजापालनतत्त्वज्ञो न रागोपहतेन्द्रियः ॥ 44 ॥

शक्तस्त्रैलोक्यमप्येको भोक्तुं किन्नु महीमिमाम् ।
नास्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन ॥ 45 ॥

हन्त्येव नियमाद्वध्यानवध्ये न च कुप्यति ।
युनक्त्यर्थैः प्रहृष्टश्च तमसौ यत्र तुष्यति ॥ 46 ॥

शान्तै स्सर्वप्रजाकान्तैः प्रीतिसञ्जननैर्नृणाम् ।
गुणैर्विरुरुचे रामो दीप्त स्सूर्य इवांशुभिः ॥ 47 ॥

तमेवङ्गुणसम्पन्नं रामं सत्यपराक्रमम् ।
लोकपालोपमं नाथमकामयत मेदिनी ॥ 48 ॥

वत्सश्श्रेयसि जातस्ते दिष्ट्याऽसौ तव राघव ।
दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव काश्यपः ॥ 49 ॥

बलमारोग्यमायुश्च रामस्य विदितात्मनः ।
देवासुरमनुष्येषु सगन्धर्वोरगेषु च ॥ 50 ॥

आशंसते जनस्सर्वो राष्ट्रे पुरवरे तथा ।
आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः ॥ 51 ॥

स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातस्समाहिताः ।
सर्वान् देवान् नमस्यन्ति रामस्यार्थे यशस्विनः ॥ 52 ॥

तेषामायाचितं देव त्वत्प्रसादात्समृद्ध्यताम् ।
राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम् ॥ 53 ॥

पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम् ।
तं देव देवोपममात्मजं ते सर्वस्य लोकस्य हिते निविष्टम् ।
हिताय नः क्षिप्रमुदारजुष्टं मुदाऽभषेक्तुं वरद त्वमर्हसि ॥ 54 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे द्वितीयस्सर्गः ॥




Browse Related Categories: