श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ सप्तनवतितमस्सर्गः ।
सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्छितम् ।
रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत् ॥ 1 ॥
किमत्र धनुषा कार्यमसिना वा सचर्मणा ।
महेष्वासे महाप्राज्ञे भरते स्वयमागते ॥ 2 ॥
पितुस्सत्यं प्रतिश्रुत्य हत्वा भरतमागतम् ।
किं करिष्यामि राज्येन सापवादेन लक्ष्मण ॥ 3 ॥
यद्द्रव्यं बान्धवानां वा मित्राणां वा क्षये भवेत् ।
नाहं तत्प्रतिगृह्णीयां भक्षान्विषकृतानिव ॥ 4 ॥
धर्ममर्थं च कामं च पृथिवीं चापि लक्ष्मण ।
इच्छामि भवतामर्थे एतत् प्रतिशृणोमि ते ॥ 5 ॥
भ्रात्रूणां सङ्ग्रहार्थं च सुखार्थं चापि लक्ष्मण ।
राज्यमप्यहमिच्छामि सत्येनाऽयुधमालभे ॥ 6 ॥
नेयं मम मही सौम्य दुर्लभा सागराम्बरा ।
न हीच्छेयमधर्मेण शक्रत्वमपि लक्ष्मण ॥ 7 ॥
यद्विना भरतं त्वां च शत्रुघ्नं चापि मानद ।
भवेन्मम सुखं किञ्चिद्भस्म तत्कुरुतां शिखी ॥ 8 ॥
मन्येऽहमागतोऽयोध्यां भरतो भ्रातृवत्सलः ।
मम प्राणात्प्रियतरः कुलधर्ममनुस्मरन् ॥ 9 ॥
श्रुत्वा प्रव्राजितं मां हि जटावल्कलधारिणम् ।
जानक्यासहितं वीर त्वया च पुरुषर्षभ ॥ 10 ॥
स्नेहेनाऽक्रान्तहृदय श्शोकेनाकुलितेन्द्रियः ।
द्रष्टुमभ्यागतो ह्येष भरतो नान्यथाऽगतः ॥ 11 ॥
अम्बां च कैकयीं रुष्य परुषं चाप्रियं वदन् ।
प्रसाद्य पितरं श्रीमार्नाज्यं मे दातुमागतः ॥ 12 ॥
प्राप्तकालं यदेषोऽस्मान्भरतो द्रष्टुमिच्छति ।
अस्मासु मनसाऽप्येष नाप्रियं किञ्चिदाचरेत् ॥ 13 ॥
विप्रियं कृतपूर्वं ते भरतेन कदा नु किम् ।
ईदृशं वा भयं तेऽद्य भरतं योऽत्र शङ्कसे ॥ 14 ॥
न हि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः ।
अहं ह्यप्रियमुक्त स्स्यां भरतस्याप्रिये कृते ॥ 15 ॥
कथं नु पुत्राः पितरं हन्युः कस्यां चिदापदि ।
भ्राता वा भ्रातरं हन्यात्सौमित्रे प्राणमात्मनः ॥ 16 ॥
यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे ।
वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् ॥ 17 ॥
उच्यमानोऽपि भरतो मया लक्ष्मण तद्वचः ।
राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति ॥ 18 ॥
तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतः ।
लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया ॥ 19 ॥
तद्वाक्यं लक्ष्मण श्श्रुत्वा व्रीलितः प्रत्युवाच ह ।
त्वां मन्ये द्रष्टुमायातः पिता दशरथ स्स्वयम् ॥ 20 ॥
व्रीलितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच ह ।
एष मन्ये महाबाहुरिहास्मान्द्रष्टुमागतः ॥ 21 ॥
अथवा नौ ध्रुवं मन्ये मन्यमान स्सुखोचितौ ।
वनवासमनुध्याय गृहाय प्रतिनेष्यति ॥ 22 ॥
इमां वाप्येष वैदेहीमत्यन्तसुखसेविनीम् ।
पिता मे राघव श्श्रीमान्वनादादाय यास्यति ॥ 23 ॥
एतौ तौ सम्प्रकाशेते गोत्रवन्तौ मनोरमौ ।
वायुवेगसमौ वीर जवनौ तुरगोत्तमौ ॥ 24 ॥
स एष सुमहाकायः कम्पते वाहिनीमुखे ।
नागश्शत्रुञ्जयो नाम वृद्धस्तातस्य धीमतः ॥ 25 ॥
न तु पश्यामि तच्छत्रं पाण्डुरं लोकसत्कृतम् । पितुर्दिव्यं महाबाहो संशयो भवतीह मे ॥ 26 ॥
वृक्षाग्रादवरोह त्वं कुरु लक्ष्मण मद्वचः ।
इतीव रामो धर्मात्मा सौमित्रिं तमुवाच ह ॥ 27 ॥
अवतीर्य तु सालाग्रात्तस्मात्स समितिञ्जयः ।
लक्ष्मणः प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वतः ॥ 28 ॥
भरतेनापि सन्दिष्टा सम्मर्दो न भवेदिति ।
समन्तात्तस्य शैलस्य सेना वासमकल्पयत् ॥ 29 ॥
अध्यर्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा ।
पार्श्वे न्यविशदावृत्य गजवाजिरथाकुला ॥ 30 ॥
सा चित्रकूटे भरतेन सेना धर्मं पुरस्कृत्य विधूय दर्पम् ।
प्रसादनार्थं रघुनन्दनस्य विराजते नीतिमता प्रणीता ॥ 31 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे सप्तनवतितमस्सर्गः ॥