View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.17 अरण्यकांड - सप्तदश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ सप्तदशस्सर्गः ।

कृताभिषेको रामस्तु सीता सौमित्रिरेव च ।
तस्माद्गोदावरीतीरात्ततो जग्मुस्वमाश्रमम् ॥ 1 ॥

आश्रमं तमुपागम्य राघवस्सह लक्ष्मणः ।
कृत्वा पौर्वाह्णिकं कर्म पर्णशालामुपागमत् ॥ 2 ॥

उवास सुखितस्तत्र पूज्यमानो महर्षिभिः ।
लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः ॥ 3 ॥

स रामः पर्णशालायामासीनस्सह सीतया ।
विरराज महाबाहुश्चित्रया चंद्रमाः इव ॥ 4 ॥

तदाऽऽसीनस्य रामस्य कथासंसक्तचेतसः ।
तं देशं राक्षसी काचिदाजगाम यदृच्छया ॥ 5 ॥

सा तु शूर्पणखा नाम दशग्रीवस्य राक्षसः ।
भगिनी राममासाद्य ददर्श त्रिदशोपमम् ॥ 6 ॥

सिंहोरस्कं महाबाहुं पद्मपत्रनिभेक्षणम् ।
आजानुबाहुं दीप्तास्यमतीव प्रियदर्शनम् ॥ 7 ॥

गजविक्रांतगमनं जटामंडलधारिणम् ।
सुकुमारं महासत्त्वं पार्थिवव्यंजनान्वितम् ॥ 8 ॥

राममिंदीवरश्यामं कंदर्पसदृशप्रभम् ।
बभूवेंद्रोपमं दृष्ट्वा राक्षसी काममोहिता ॥ 9 ॥

सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी ।
विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा ॥ 10 ॥

प्रीतिरूपं विरूपा सा सुस्वरं भैरवस्वरा ।
तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी ॥ 11 ॥

न्यायवृत्तं सुदुर्वृत्ता प्रियमप्रियदर्शना ।
शरीरजसमाविष्टा राक्षसी वाक्यमब्रवीत् ॥ 12 ॥

जटी तापसरूपेण सभार्यश्शरचापधृत् ।
आगतस्त्वमिमं देशं कथं राक्षससेवितम् ॥ 13 ॥

किमागमनकृत्यं ते तत्त्वमाख्यातुमर्हसि ।
एवमुक्तस्तु राक्षस्या शूर्पणख्या परंतपः ॥ 14 ॥

ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे ।
अनृतं न हि रामस्य कदाचिदपि सम्मतम् ॥ 15 ॥

विशेषेणाऽश्रमस्थस्य समीपे स्त्रीजनस्य च ।
आसीद्धशरथो नाम राजा त्रिदशविक्रमः ॥ 16 ॥

तस्याहमग्रजः पुत्रो रामो नाम जनैश्श्रुतः ।
भ्राताऽयं लक्ष्मणो नाम यवीयान्मामनुव्रतः ॥ 17 ॥

इयं भार्या च वैदेही मम सीतेति विश्रुता ।
नियोगात् तु नरेंद्रस्य पितुर्मातुश्च यंत्रितः ॥ 18 ॥

धर्मार्थं धर्मकांक्षी च वनं वस्तुमिहागतः ।
त्वां तु वेदितुमिच्छामि कस्य त्वं कासि कस्य वा ॥ 19 ॥

त्वं हि तावन्मनोज्ञांगी राक्षसी प्रतिभासि मे ।
इह वा किंनिमित्तं त्वमागता ब्रूहि तत्त्वतः ॥ 20 ॥

साब्रवीद् वचनं श्रुत्वा राक्षसी मदनार्दिता ।
श्रूयतां राम वक्ष्यामि तत्त्वार्थं वचनं मम ॥ 21 ॥

अहं शूर्पणखा नाम राक्षसी कामरूपिणी ।
अरण्यं विचरामीदमेका सर्वभयंकरा ॥ 22 ॥

रावणो नाम मे भ्राता बलीयान्राक्षसेश्वरः ।
वीरो विश्रवसः पुत्रो यदि ते श्रोत्रमागतः ॥ 23 ॥

प्रवृद्धनिद्रश्च सदा कुंभकर्णो महाबलः ।
विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टितः ॥ 24 ॥

प्रख्यातवीर्यौ च रणे भ्रातरौ खरदूषणौ ।
तानहं समतिक्रांता राम त्वा पूर्वदर्शनात् ॥ 25 ॥

समुपेतास्मि भावेन भर्तारं पुरुषोत्तमम् ।
अहं प्रभावसंपन्ना स्वच्छंदबलगामिनी ॥ 26 ॥

चिराय भव मे भर्ता सीतया किं करिष्यसि ।
विकृता च विरूपा च न चेयं सदृशी तव ॥ 27 ॥

अहमेवानुरूपा ते भार्या रूपेण पश्य माम् ।
इमां विरूपामसतीं करालां निर्णतोदरीम् ॥ 28 ॥

अनेन ते सह भ्रात्रा भक्षयिष्यामि मानुषीम् ।
ततः पर्वतशृंगाणि वनानि विविधानि च ॥ 29 ॥

पश्यन्सह मया कांत दंडकान्विचरिष्यसि ।
इत्येवमुक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम् ॥ 30 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे सप्तदशस्सर्गः ॥




Browse Related Categories: