श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ एकत्रिंशस्सर्गः ।
त्वरमाणस्ततो गत्वा जनस्थानादकम्पनः ।
प्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत् ॥ 1 ॥
जनस्थानस्थिता राजन्राक्षसा बहवो हताः ।
खरश्च निहतस्सङ्ख्ये कथञ्चिदहमागतः ॥ 2 ॥
एवमुक्तो दशग्रीवः क्रुद्ध स्संरक्तलोचनः ।
अकम्पनमुवाचेदं निर्दहन्निव चक्षुषा ॥ 3 ॥
केन रम्यं जनस्थानं हतं मम परासुना ।
को हि सर्वेषु लोकेषु गतिं चाधिगमिष्यति ॥ 4 ॥
न हि मे विप्रियं कृत्वा शक्यं मघवता सुखम् ।
प्राप्तुं वैश्रवणेनापि न यमेन न विष्णुना ॥ 5 ॥
कालस्य चाप्यहं कालो दहेयमपि पावकम् ।
मृत्युं मरणधर्मेण संयोजयितुमुत्सहे ॥ 6 ॥
दहेयमपि सङ्कृद्धस्तेजसाऽदित्यपावकौ ।
वातस्य तरसा वेगं निहन्तुमहमुत्सहे ॥ 7 ॥
तथा क्रुद्धं दशग्रीवं कृताञ्जलिरकम्पनः ।
भयात्सन्दिग्धया वाचा रावणं याचतेऽभयम् ॥ 8 ॥
दशग्रीवोऽभयं तस्मै प्रददौ रक्षसां वरः ।
स विस्रब्धोऽब्रवीद्वाक्यमसन्दिग्धमकम्पनः ॥ 9 ॥
पुत्रो दशरथस्यास्ति सिंहसंहननो युवा ।
रामो नाम वृषस्कन्धो वृत्तायतमहाभुजः ॥ 10 ॥
वीरः पृथुयशाश्श्रीमानतुल्यबलविक्रमः ।
हतं तेन जनस्थानं खरश्च सह दूषणः ॥ 11 ॥
अकम्पनवच श्रुत्वा रावणो राक्षसाधिपः ।
नागेन्द्र इव निश्वस्य वचनं चेदमब्रवीत् ॥ 12 ॥
स सुरेन्द्रेण संयुक्तो रामस्सर्वामरैस्सह ।
उपयातो जनस्थानं ब्रूहि कच्चिदकम्पन ॥ 13 ॥
रावणस्य पुनर्वाक्यं निशम्य तदकम्पनः ।
आचचक्षे बलं तस्य विक्रमं च महात्मनः ॥ 14 ॥
रामो नाम महातेजा श्रेष्ठस्सर्वधनुष्मताम् ।
दिव्यास्त्रगुणसम्पन्नः पुरन्दरसमो युधि ॥ 15 ॥
तस्यानुरूपो बलवान्रक्ताक्षो दन्दुभिस्वनः ।
कनीयान्लक्ष्मणो नाम भ्राता शशिनिभाननः ॥ 16 ॥
स तेन सह संयुक्तः पावकेनानिलो यथा ।
श्रीमान्राजवरस्तेन जनस्थानं निपातितम् ॥ 17 ॥
नैव देवा महात्मानो नात्र कार्या विचारणा ।
शरा रामेण तूत्सृष्टा रुक्मपुङ्खाः पतत्रिणः ॥ 18 ॥
सर्पाः पञ्चानना भूत्वा भक्षयन्ति स्म राक्षसान् ।
येन येन च गच्छन्ति राक्षसा भयकर्शिताः ॥ 19 ॥
तेन तेन स्म पश्यन्ति राममेवाग्रतः स्थितम् ।
इत्थं विनाशितं तेन जनस्थानं तवानघ ॥ 20 ॥
अकम्पनवचश्रुत्वा रावणो वाक्यमब्रवीत् ।
जनस्थानं गमिष्यामि हन्तुं रामं सलक्ष्मणम् ॥ 21 ॥
अथैवमुक्ते वचने प्रोवाचेदमकम्पनः ।
शृणु राजन्यथावृत्तं रामस्य बलपौरुषम् ॥ 22 ॥
असाध्यः कुपितो रामो विक्रमेण महायशाः ।
आपगायास्सुपूर्णाया वेगं परिहरेच्छरैः ॥ 23 ॥
सतारग्रहनक्षत्रं नभश्चाप्यवसादयेत् ।
असौ रामस्तु सीदन्तीं श्रीमानभ्युद्धरेन्महीम् ॥ 24 ॥
भित्त्वा वेलां समुद्रस्य लोकानाप्लावयेद्विभुः ।
वेगं वापि समुद्रस्य वायुं वा विधमेच्छरैः ॥ 25 ॥
संहृत्य वा पुनर्लोकान्विक्रमेण महायशाः ।
शक्तस्सपुरुषव्याघ्रः स्रष्टुं पुनरपि प्रजाः ॥ 26 ॥
न हि रामो दशग्रीव शक्यो जेतुं त्वया युधि ।
रक्षसां वापि लोकेन स्वर्गः पापजनैरिव ॥ 27 ॥
न तं वध्यमहं मन्ये सर्वैर्देवासुरैरपि ।
अयं तस्य वधोपायस्तन्ममैकमनाश्शृणु ॥ 28 ॥
भार्या तस्योत्तमा लोके सीता नाम सुमध्यमा ।
श्यामा समविभक्ताङ्गी स्त्रीरत्नं रत्नभूषिता ॥ 29 ॥
नैव देवी न गन्धर्वी नाप्सरा नापि दानवी ।
तुल्या सीमन्तिनी तस्या मानुषीषु कुतो भवेत् ॥ 30 ॥
तस्यापहर भार्यान्त्वं प्रमथ्य तु महावने ।
सीतया रहितः कामी रामो हास्यति जीवितम् ॥ 31 ॥
अरोचयत तद्वाक्यं रावणो राक्षसाधिपः ।
चिन्तयित्वा महाबाहुरकम्पनमुवाच ह ॥ 32 ॥
बाढं काल्यं गमिष्यामि ह्येकस्सारथिना सह ।
आनयिष्यामि वैदेहीमिमां हृष्टो महापुरीम् ॥ 33 ॥
अथैवमुक्त्वा प्रययौ खरयुक्तेन रावणः ।
रथेनादित्यवर्णेन दिशस्सर्वाः प्रकाशयन् ॥ 34 ॥
स रथो राक्षसेन्द्रस्य नक्षत्रपथगो महान् ।
सञ्चार्यमाणश्शुशुभे जलदे चन्द्रमा इव ॥ 35 ॥
स मारीचाश्रमं प्राप्य ताटकेयमुपागमत् ।
मारीचेनार्चितो राजा भक्ष्यभोज्यैरमानुषैः ॥ 36 ॥
तं स्वयं पूजयित्वा तु आसनेनोदकेन च ।
अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत् ॥ 37 ॥
कच्चित्सुकुशलं राजन्लोकानां राक्षसेश्वर ।
आशङ्के नाथ जाने त्वं यतस्तूर्णमिहागतः ॥ 38 ॥
एवमुक्तो महातेजा मारीचेन स रावणः ।
ततः पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः ॥ 39 ॥
आरक्षो मे हतस्तात रामेणाक्लिष्टकर्मणा ।
जनस्थानमवध्य तत्सर्वं युधि निपातितम् ॥ 40 ॥
तस्य मे कुरु साचिव्यं तस्य भार्यापहारणे ।
राक्षसेन्द्रवचश्श्रुत्वा मारीचो वाक्यमब्रवीत् ॥ 41 ॥
आख्याता केन सीता सा मित्ररूपेण शत्रुणा ।
त्वया राक्षसशार्दूल को न नन्दति नन्दितः ॥ 42 ॥
सीतामिहानयस्वेति को ब्रवीति ब्रवीहि मे ।
रक्षोलोकस्य सर्वस्य कश्शृङ्गं छेत्तुमिच्छति ॥ 43 ॥
प्रोत्साहयति कश्च त्वां स च शत्रुरसंशयः ।
अशीविषमुखाद्दंष्ट्रामुद्धर्तुं चेच्छति त्वया ॥ 44 ॥
कर्मणा केन केनासि कापथं प्रतिपादितः ।
सुखसुप्तस्य ते राजन् प्रहृतं केन मूर्धनि ॥ 45 ॥
विशुद्धवंशाभिजनाग्रहस्त स्तेजोमदस्संस्थितदोर्विषाणः ।
उदीक्षितुं रावण नेह युक्तः स संयुगे राघवगन्धहस्ती ॥ 46 ॥
असौ रणान्तः स्थितिसन्धिवालो विदग्धरक्षोमृगहा नृसिंहः ।
सुप्तस्त्वया बोधयितुं न युक्तः शराङ्गपूर्णो निशितासिदंष्ट्रः ॥ 47 ॥
चापापहारे भुजवेगपङ्के शरोर्मिमाले सुमहाहवौघे ।
न रामपातालमुखेऽतिघोरे प्रस्कन्दितुं राक्षसराज युक्तम् ॥ 48 ॥
प्रसीद लङ्केश्वर राक्षसेन्द्र लङ्कां प्रसन्नो भव साधु गच्छ ।
त्वं स्वेषु दारेषु रमस्व नित्यं रामस्सभार्यो रमतां वनेषु ॥ 49 ॥
एवमुक्तो दशग्रीवो मारीचेन स रावणः ।
न्यवर्तत पुरीं लङ्कां विवेश च गृहोत्तमम् ॥ 50 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे एकत्रिंशस्सर्गः ॥