View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.67 अरण्यकांड - सप्तषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ सप्तषष्टितमस्सर्गः ।

पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम् ।
सारग्राही महासारं प्रतिजग्राह राघवः ॥ 1 ॥

सन्निगृह्य महाबाहुः प्रवृत्तं कोपमात्मनः ।
अवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत् ॥ 2 ॥

किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण ।
केनोपायेन गच्छेयं सीतामिति विचिंतय ॥ 3 ॥

तं तथा परितापार्तं लक्ष्मणो राममब्रवीत् ।
इदमेव जनस्थानं त्वमन्वेषितुमर्हसि ॥ 4 ॥

राक्षसैर्बहुभिः कीर्णं नानाद्रुमलतायुतम् ।
संतीह गिरिदुर्गाणि निर्दराः कंदराणि च ॥ 5 ॥

गुहाश्च विविधा घोरा नानामृगगणाकुलाः ।
आवासाः किन्नराणां च गंधर्वभवनानि च ॥ 6 ॥

तानि युक्तो मया सार्धं त्वमन्वेषितुमर्हसि ।
त्वद्विधा बुद्धिसंपन्ना महात्मानो नरर्षभ ॥ 7 ॥

आपत्सु न प्रकंपंते वायुवेगैरिवाचलाः ।
इत्युक्तस्तद्वनं सर्वं विचचार सलक्ष्मणः ॥ 8 ॥

क्रुद्धो रामश्शरं घोरं संधाय धनुषि क्षुरम् ।
ततः पर्वतकूटाभं महाभागं द्विजोत्तमम् ॥ 9 ॥

ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम् ।
तं दृष्ट्वा गिरिशृंगाभं रामो लक्ष्मणमब्रवीत् ॥ 10 ॥

अनेन सीता वैदेही भक्षिता नात्र संशयः ।
गृध्ररूपमिदं रक्षो व्यक्तं भवति कानने ॥ 11 ॥

भक्षयित्वा विशालाक्षीमास्ते सीतां यथासुखम् ।
एनं वधिष्ये दीप्तास्यैर्घोरैर्बाणैरजिह्मगैः ॥ 12 ॥

इत्युक्त्वाभ्यपतद्गृध्रं संधाय धनुषि क्षुरम् ।
क्रुद्धो रामस्समुद्रांतां कंपयन्निव मेदिनीम् ॥ 13 ॥

तं दीनं दीनया वाचा सफेनं रुधिरं वमन् ।
अभ्यभाषत पक्षी तु रामं दशरथात्मजम् ॥ 14 ॥

यामोषधिमिवायुष्मन्नन्वेषसि महावने ।
सा देवी मम च प्राणा रावणेनोभयं हृतम् ॥ 15 ॥

त्वया विरहिता देवी लक्ष्मणेन च राघव ।
ह्रियमाणा मया दृष्टा रावणेन बलीयसा ॥ 16 ॥

सीतामभ्यवपन्नोऽहं रावणश्च रणे मया ।
विध्वंसितरथश्चात्र पातितो धरणीतले ॥ 17 ॥

एतदस्य धनुर्भग्नमेतदस्य शरावरम् ।
अयमस्य रथो राम भग्नसांग्रामिको मया ॥ 18 ॥

अयं तु सारथिस्तस्य मत्पक्षनिहतो युधि ।
परिश्रांतस्य मे पक्षौ छित्त्वा खड्गेन रावणः ॥ 19 ॥

सीतामादाय वैदेहीमुत्पपात विहायसम् ।
रक्षसा निहतं पूर्वं न मां हंतुं त्वमर्हसि ॥ 20 ॥

रामस्तस्य तु विज्ञाय बाष्पपूर्णमुखस्तदा ।
द्विगुणीकृततापार्तस्सीतासक्तां प्रियां कथाम् ॥ 21 ॥

गृध्रराजं परिष्वज्य परित्यज्य महद्धनुः ।
निपपातावशो भूमौ रुरोद सहलक्ष्मणः ॥ 22 ॥

एकमेकायने दुर्गे निश्श्वसंतं कथंचन ।
समीक्ष्य दुःखिततरो रामस्सौमित्रिमब्रवीत् ॥ 23 ॥

राज्यं भ्रष्टं वने वासस्सीता नष्टा हतो द्विजः ।
ईदृशीयं ममालक्ष्मीर्निर्दहेदपि पावकम् ॥ 24 ॥

संपूर्णमपि चेदद्य प्रविशेयं महोदधिम् ।
सोऽपि नूनं ममालक्ष्म्या विशुष्येत्सरितांपतिः ॥ 25 ॥

नास्त्यभाग्यतरो लोके मत्तोऽस्मिन्सचराचरे ।
येनेयं महती प्राप्ता मया व्यसनवागुरा ॥ 26 ॥

अयं पितृवयस्यो मे गृध्रराजो जरान्वितः ।
शेते विनिहतो भूमौ मम भाग्यविपर्ययात् ॥ 27 ॥

इत्येवमुक्त्वा बहुशो राघवस्सहलक्ष्मणः ।
जटायुषं च पस्पर्श पितृस्नेहं विदर्शयन् ॥ 28 ॥

निकृत्तपक्षं रुधिरावसिक्तं स गृध्रराजं परिरभ्य रामः ।
क्व मैथिली प्राणसमा ममेति विमुच्य वाचं निपपात भूमौ ॥ 29 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे सप्तषष्टितमस्सर्गः ॥




Browse Related Categories: