View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

5.2 सुन्दरकाण्ड - द्वितीय सर्गः

श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ द्वितीयस्सर्गः ।

स सागरमनादृष्यमतिक्रम्य महाबलः ।
त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह ॥ 1 ॥

ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् ।
अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा ॥ 2 ॥

योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः ।
अनिःश्वसन् कपिस्तत्र न ग्लानिमधिगच्छति ॥ 3 ॥

शतान्यहं योजनानां क्रमेयं सुबहून्यपि ।
किं पुनः सागरस्यान्तं सङ्ख्यातं शतयोजनम् ॥ 4 ॥

स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः ।
जगाम वेगवान् लङ्कां लङ्घयित्वा महोदधिम् ॥ 5 ॥

शाद्वलानि च नीलानि गन्धवन्ति वनानि च ।
गण्डवन्ति च मध्येन जगाम नगवन्ति च ॥ 6 ॥

शैलांश्च तरुसञ्छन्नान् वनाराजीश्च पुष्पिताः ।
अभिचक्राम तेजस्वी हनुमान् प्लवगर्षभः ॥ 7 ॥

स तस्मिन्नचले तिष्ठन्वनान्युपवनानि च ।
स नगाग्रे च तां लङ्कां ददर्श पवनात्मजः ॥ 8 ॥

सरलान् कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान् ।
प्रियालून्मुचुलिन्दांश्च कुटजान् केतकानपि ॥ 9 ॥

प्रियंङ्गून् गन्धपूर्णांश्च नीपान् सप्तच्छदांस्तथा ।
आसनान् कोविदारांश्च करवीरांश्च पुष्पितान् ॥ 10 ॥

पुष्पभारनिबद्धांश्च तथा मुकुलितानपि ।
पादपान् विहगाकीर्णान् पवनाधूतमस्तकान् ॥ 11 ॥

हंसकारण्डवाकीर्णा वापीः पद्मोत्मलायुताः ।
आक्रीडान् विविधान् रम्यावन् विविधांश्च जलाशयान् ॥ 12 ॥

सन्ततान् विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः ।
उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः ॥ 13 ॥

समासाद्य च लक्ष्मीवान् लङ्कां रावणपालिताम् ।
परिखाभिः सपद्माभिः सोत्पलाभिरलङ्कृताम् ॥ 14 ॥

सीतापहरणार्थेन रावणेन सुरक्षिताम् ।
समन्ताद्विचरद्भिश्च राक्षसैरुग्रधन्विभिः ॥ 15 ॥

काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम् ।
गृहैश्च ग्रहसङ्काशैः शारदाम्बुदसन्निभैः ॥ 16 ॥

पाण्डुराभिः प्रतोलीभिरुच्चाभिरभिसंवृताम् ।
अट्टालकशताकीर्णां पताकाध्वजमालिनीम् ॥ 17 ॥

तोरणैः काञ्चनैर्दिव्यैर्लतापङ्त्किविचित्रितैः ।
ददर्श हनुमान् लङ्कां दिवि देवपुरीं यथा ॥ 18 ॥

गिरिमूर्ध्निं स्थितां लङ्कां पाण्डुरैर्भवनैः शुभैः ।
ददर्श स कपिश्रेष्ठः पुरमाकाशगं यथा ॥ 19 ॥

पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा ।
प्लवमानमिवाकाशे ददर्श हनुमान् पुरीम् ॥ 20 ॥

वप्रप्राकारजघनां विपुलाम्बुनवाम्बराम् ।
शतघ्नीशूलकेशान्तामट्टालकवतंसकाम् ॥ 21 ॥

मनसेव कृतां लङ्कां निर्मितां विश्वकर्मणा ।
द्वारमुत्तरमासाद्य चिन्तयामास वानरः ॥ 22 ॥

कैलासशिखरप्रख्यामालिखन्तीमिवाम्बरम् ।
डीयमानामिवाकाशमुच्छ्रितैर्भवनोत्तमैः ॥ 23 ॥

सम्पूर्णां राक्षसैर्घोरैर्नागैर्भोगवतीमिव ।
अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा ॥ 24 ॥

दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्टसपाणिभिः ।
रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरिव ॥ 25 ॥

तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः ।
रावणं च रिपुं घोरं चिन्तयामास वानरः ॥ 26 ॥

आगत्यापीह हरयो भविष्यन्ति निरर्थकाः ।
न हि युद्धेन वै लङ्का शक्या जेतुं सुरैरपि ॥ 27 ॥

इमां तु विषमां दुर्गां लङ्कां रावणपालिताम् ।
प्राप्यापि स महाबाहुः किं करिष्यति राघवः ॥ 28 ॥

अवकाशो नसान्त्वस्य राक्षसेष्वभिगम्यते ।
न दानस्य न भेदस्य नैव युद्धस्य दृश्यते ॥ 29 ॥

चतुर्णामेव हि गतिर्वानराणां महात्मनाम् ।
वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः ॥ 30 ॥

यावज्जानामि वैदेहीं यदि जीवति वा न वा ।
तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम् ॥ 31 ॥

ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः ।
गिरिशृङ्गे स्थितस्तस्मिन् रामस्याभ्युदये रतः ॥ 32 ॥

अनेन रूपेण मया न शक्या रक्षसां पुरी ।
प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः ॥ 33 ॥

उग्रौजसो महावीर्या बलवन्तश्च राक्षसाः ।
वञ्चनीया मया सर्वे जानकीं परिमार्गता ॥ 34 ॥

लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्का पुरी मया ।
प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत् ॥ 35 ॥

तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः ।
हनुमान् चिन्तयामास विनिश्चित्य मुहुर्मुहुः ॥ 36 ॥

केनोपायेन पश्येयं मैथिलीं जनकात्मजाम् ।
अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना ॥ 37 ॥

न विनश्येत्कथं कार्यं रामस्य विदितात्मनः ।
एकामेकश्च वश्येयं रहिते जनकात्मजाम् ॥ 38 ॥

भूताश्चार्था विपद्यन्ते देशकालविरोधिताः ।
विक्लबं दूतमासाद्य तमः सूर्योदये यथा ॥ 39 ॥

अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते ।
घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥ 40 ॥

न विनश्येत्कथं कार्यं वैक्लब्यं न कथं भवेत् ।
लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ॥ 41 ॥

मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः ।
भवेद्व्यर्थमिदं कार्यं रावणानर्थमिच्छतः ॥ 42 ॥

न हि शक्यं क्वचित् स्थातुमविज्ञातेन राक्षसैः ।
अपि राक्षसरूपेण किमुतान्येन केनचित् ॥ 43 ॥

वायुरप्यत्र नाज्ञातश्चरेदिति मतिर्मम ।
न ह्य स्त्यविदितं किञ्चिद्राक्षसानां बलीयसाम् ॥ 44 ॥

इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः ।
विनाशमुपयास्यामि भर्तुरर्थश्च हीयते ॥ 45 ॥

तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः ।
लङ्कामभिपतिष्यामि राघवस्यार्थसिद्धये ॥ 46 ॥

रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम् ।
विचिन्वन् भवनं सर्वं द्रक्ष्यामि जनकात्मजाम् ॥ 47 ॥

इति सञ्चिन्त्य हनुमान् सूर्यस्यास्तमयं कपिः ।
आचकाङ्क्षे तदा वीरो वैदेह्या दर्शनोत्सुकः ॥ 48 ॥

सूर्ये चास्तं गते रात्रौ देहं सङ्क्षिप्य मारुतिः ।
पृषदंशकमात्रः सन् बभूवाद्भुतदर्शनः ॥ 49 ॥

प्रदोषकाले हनुमांस्तूर्णमुत्प्लुत्य वीर्यवान् ।
प्रविवेश पुरीं रम्यां सुविभक्तमहापथाम् ॥ 50 ॥

प्रासादमालाविततां स्तम्भैः काञ्चनराजतैः ।
शातकुम्भमयैर्जालैर्गन्थर्वनगरोपमाम् ॥ 51 ॥

सप्तभौमाष्टभौमैश्च स ददर्श महापुरीम् ।
तलैः स्फाटिकसङ्कीर्णैः कार्तस्वरविभूषितैः ॥ 52 ॥

वैडूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः ।
तलैः शुशुभिरे तानि भवनान्यत्र रक्षसाम् ॥ 53 ॥

काञ्चनानि च चित्राणि तोरणानि च रक्षसाम् ।
लङ्कामुद्योतयामासुः सर्वतः समलङ्कृताम् ॥ 54 ॥

अचिन्त्यामद्भुताकारां दृष्टवा लङ्कां महाकपिः ।
आसीद्विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः ॥ 55 ॥

स पाण्डुराविद्धविमानमालिनीं महार्हजाम्बूनदजालतोरणाम् ।
यशस्विनीं रावणबाहुपालितां क्षपाचरैर्भीमबलैः समावृताम् ॥ 56 ॥

चन्द्रोऽपि साचिव्यमिवास्य कुर्वंस्तारागणैर्मध्यगतो विराजन् ।
ज्योत्स्नावितानेन वितत्य लोक मुत्तिष्ठते नैकसहस्ररश्मिः ॥ 57 ॥

शङ्खप्रभं क्षीरमृणालवर्ण मुद्गच्छमानं व्यवभासमानम् ।
ददर्श चन्द्रं स हरिप्रवीरः पोप्लूयमानं सरसीव हंसम् ॥ 58 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे द्वितीयस्सर्गः ॥




Browse Related Categories: