View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.103 युद्धकाण्ड - त्र्यधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ त्र्यधिकशततमस्सर्गः ।

लक्ष्मणेनतुतद्वाक्यमुक्तंश्रुत्वा स राघवः ।
सन्दधेपरवीरघ्नोधनुरादायवीर्यवान् ॥ 1 ॥

रावणायशरानघोरान्विससर्जचमूमुखे ।
अधान्यंरथमास्थायरावणोराक्षसाधिपः ॥ 2 ॥

अभ्यधावतकाकुत्स्थंस्वर्भानुरिवभास्करम् ।
दशग्रीवोरधस्थस्तुरामंवज्रोपमैश्शरैः ॥ 3 ॥

आजघानमहाशैलन्धाराभिरिवतोयदः ।
दीप्तपावकसङ्काशैःशरैःकाञ्चनभूषणैः ॥ 4 ॥

अभ्यवर्षद्रणरामोदशग्रीवंसमाहितः ।
भूमौस्थितस्यरामस्यरथस्थस्य च रक्षसः ॥ 5 ॥

न समंयुद्धमित्याहुर्देवगन्धर्वकिन्नराः ।
ततोदेववरर्श्रीमान् श्रुत्वातेषांवचोऽमृतम् ॥ 6 ॥

आहूयमातलिंशक्रोवचनञ्चेदमब्रवीत् ।
रथेनममभूमिष्ठंशीघ्रंयाहिरघूत्तमम् ॥ 7 ॥

आहूयभूतलंयातःकुरुदेवहितम्महत् ।
इत्युक्तोदेवराजेनमातलिर्देवसारथिः ॥ 8 ॥

प्रणम्यशिरसादेवन्ततोवचनमब्रवीत् ।
शीघ्रंयास्यामिदेवेन्द्रसारथ्यं च करोम्यहम् ॥ 9 ॥

ततोहयैश्चसम्योज्यहरितैःस्यन्दनोत्तमम् ।
ततःकाञ्चनचित्राङ्गःकिङ्किणीशतभूषितः ॥ 10 ॥

तरुणादित्यसङ्काशोवैदूर्यमयकूबरः ।
सदश्वैःकाञ्चनापीडैर्युक्तश्श्वेतप्रकीर्णकैः ॥ 11 ॥

हरिभिःसूर्यसङ्काशैर्हेमजालविभूषितैः ।
रुक्मवेणुध्वज्श्रीमन्देवराजरथोवरः ॥ 12 ॥

देवराजेनन्दिष्टोरथमारुह्यमातलिः ।
अभ्यवर्ततकाकुत्स्थमवतीर्यत्रिवष्टपात् ॥ 13 ॥

अब्रवीच्चतदारामंसप्रतोदोरथेस्थितः ।
प्राञ्जलिर्मातलिर्वाक्यंसहस्राक्षस्यसारथिः ॥ 14 ॥

सहस्राक्षेणकाकुत्थ्सरथोऽयंविजयायते ।
दत्तस्तवमहासत्त्वश्रीमन् शत्रुनिबर्हण ॥ 15 ॥

इदमैन्द्रम्महच्चापङ्कवचञ्चानगिसन्निभम् ।
शराश्चादित्यसङ्काशाःशक्तिश्चविमलाशिवा ॥ 16 ॥

शूरोऽहमिति चात्मानमवगच्छसि दुर्मते ।
नैव लज्जास्ति ते सीतान् चोरवद्व्यपकर्षतः ॥ 17 ॥

इत्युक्तःसम्परिक्रम्यरथन्तमभिवाद्य च ।
आरुरोहतदारामोलोकान् लक्ष्मविराजयन् ॥ 18 ॥

तद्भभूवाद्भुतंयुद्धन्तुमुलंरोमहर्षणम् ।
रामस्य च महाबाहोरावणस्य च रक्षसः ॥ 19 ॥

स गान्धर्वेणगान्धर्वन्दैवन्दैवेनराघवः ।
अस्त्रंराक्षसराजस्यजघानपरमास्त्रवित् ॥ 20 ॥

अस्त्रन्तुपरमङ्घोरंराक्षसंराक्षसाधिपः ।
ससर्जपरमक्रुद्धःपुनरेवनिशाचरः ॥ 21 ॥

तेरावणधनुर्मुक्ताःशराःकाञ्चनभूषणाः ।
अभ्यवर्तन्तकाकुत्स्थंसर्पाभूत्वामहाविषाः ॥ 22 ॥

तेदीप्तवदनादीप्तंसमन्तोज्वलनम्मुखैः ।
राममेवाभ्यवर्तन्तव्यादितास्याभयानकाः ॥ 23 ॥

तैर्वासुकिसमस्पर्शैर्दीप्तभोगैर्महाविषैः ।
दिशश्चसन्ततास्सर्वाप्रदिशश्चसमावृताः ॥ 24 ॥

तान् दृष्टवापन्नगान् रामःसमापततआहवे ।
अस्त्रङ्गारुत्मतङ्घोरम्प्रादुश्चक्रेभयावहम् ॥ 25 ॥

तेराघवधनुर्मुक्तारुक्मपुङ्खाःशिखिप्रभाः ।
सुपर्णाःकाञ्चनाभूत्वाविचेरुःसर्पशत्रवः ॥ 26 ॥

तेतान्सर्वान् जघ्नुस्सर्परूपान्महाजवान् ।
सुपर्णरूपारामस्यविशिखाःकामरूपिणः ॥ 27 ॥

अस्त्रेप्रतिहतेक्रुद्धोरावणोराक्षसाधिपः ।
अभ्यवर्षत्तदारामङ्घोराभिःशरवृष्टिभिः ॥ 28 ॥

ततश्शरसहस्रेणराममक्लिष्टकारिणम् ।
अर्दयित्वाशरौघेणमातलिम्प्रत्यविध्यत ॥ 29 ॥

चिच्छेदकेतुमुद्धिश्यशरेणैकेनरावणः ।
पातयित्वारथोपस्थेरथात्केतुं च काञ्चनम् ॥ 30 ॥

ऐन्द्रानपिजघानाश्वान्शरजालेनरावणः ।
तदृष्ट्वासुमहातत्कर्मरावणस्यदुरात्मनाः ।
विषेदुर्देवगन्धर्वाचारणादानवैस्सह ॥ 31 ॥

राममार्तन्तदादृष्टवासिद्धाश्चपरमर्षयः ।
व्यथितावानरेन्द्राश्चबभूवुस्सविभीषणाः ॥ 32 ॥

रामचन्द्रमसन्दृष्टवाग्रस्तंरावणराहुणा ।
प्राजात्यं च नक्षत्रंरोहिणीङ्कशशिनःप्रियाम् ॥ 33 ॥

समाक्रम्यबुधस्तस्थौप्रजानामशुभावहः ।
सधूमपरिवृत्तोर्मिःप्रज्वलन्निवसागरः ॥ 34 ॥

उत्पपाततदाक्रुद्धस्स्पृशन्निवदिवाकरम् ।
शस्त्रवर्णस्सुपरुषोमन्दरश्मिद्दिवाकरः ॥ 35 ॥

अदृश्यतकबन्धाङ्कःसंसक्तोधूमकेतुना ।
कोसलानां च नक्षत्रंव्यक्तमिन्द्राग्निदैवतम् ॥ 36 ॥

आक्रम्याङ्गारकस्तस्थौविशाखामपिचाम्बरे ।
दशास्योविंशतिभुजःप्रगृहीतशरासनः ॥ 37 ॥

अदृशास्यःदशग्रीवःमैनाकःपर्वतःइव निरस्यमानोरामस्तुदशग्रीवेणरक्षसा ॥ 38 ॥

नाशक्नोदभिसन्धातुंसायकान्रणमूर्धनि ।
सःकृत्वाभ्रुकुटिङ्क्रुद्धःकिञ्चित्सम्रक्तलोचनः ॥ 39 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे त्र्यधिकशततमस्सर्गः ॥




Browse Related Categories: