View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.17 युद्धकाण्ड - सप्तदश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ सप्तदशस्सर्गः ।

इत्युक्त्वापरुषंवाक्यंरावणंरावणानुजः ।
आजगाममुहूर्तेनयत्ररामस्सलक्ष्मणः ॥ 1 ॥

तम्मेरुशिखराकारन्दीप्तामिवशतह्रदाम् ।
गगनस्थम्महीस्थास्तेददृशुसर्ववानराः ॥ 2 ॥

ते चाप्यनुचरास्तस्य चत्वारो भीमविक्रमाः ।
तेऽपि वर्मायुधोपेता भूषणोत्तमभूषिताः ॥ 3 ॥

स च मेघाचलप्रख्यो वज्रायुधसमप्रभः ।
वरायुधधरो वीरो दिव्याभरणभूषितः ॥ 4 ॥

तमात्मपञ्चमन्दृष्टवासुग्रीवोवाहिनीपतिः ।
वानरैस्सहदुर्धर्षचिन्तयामासबुद्धिमान् ॥ 5 ॥

चिन्तयित्वामुहूर्तन्तुवानरांस्तानुवाचह ।
हनुमत्प्रमुखान्सर्वानिदंवचनमुत्तमम् ॥ 6 ॥

एषसर्वायुधोपेतश्चतुर्भिस्सहराक्षसैः ।
राक्षसोऽभ्येतिपश्यध्वमस्मान्हन्तुन्नसंशयः ॥ 7 ॥

सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानर उत्तमाः ।
सालान् उद्यम्य शैलामः च इदं वचनं अब्रुवन् ॥ 8 ॥

शीघ्रंव्यादिशनोराजन्वधायैषान्दुरात्मनाम् ।
निपतन्तुहताश्चैतेधरण्यामल्पतेजसः ॥ 9 ॥

तेषासम्भाषमाणानामन्योन्यंसविभीषणः ।
उत्तरन्तीरमासाद्यखस्थएवव्यतिष्ठत ॥ 10 ॥

उवाचमहाप्राज्ञस्स्वरेणमहतामहान् ।
सुग्रीवन्तांश्चसम्प्रेक्ष्यसर्वान्वानरयूथपान् ॥ 11 ॥

रावणो नाम दुर्वृत्तो राक्षसो राक्षस ईश्वरः ।
तस्य अहं अनुजो भ्राता विभीषण इति श्रुतः ॥ 12 ॥

तेनसीताजनस्थानाद्धृताहत्वाजटायुषम् ।
रुद्दाचविवशादीनाराक्षसीभिस्सुरक्षिता ॥ 13 ॥

तमहंहेतुभिर्वाक्यैर्विविधैश्चन्यदर्शयम् ।
साधुनिर्यात्यतांसीतारामायेतिपुनःपुनः ॥ 14 ॥

स च न प्रतिजग्राह रावणः काल चोदितः ।
उच्यमानो हितं वाक्यं विपरीत इव औषधम् ॥ 15 ॥

सोऽहम्परुषितस्तेनदासवच्चावमानितः ।
त्यक्त्वापुत्रांश्चदारांश्चराघवंशरणङ्गतः ॥ 16 ॥

सर्वलोकशरण्यायराघवायमहात्मने ।
निवेदयतमाङ्क्षिप्रंविभीषणमुपस्थितम् ॥ 17 ॥

एतत्तुवचनंश्रुत्वासुग्रीवोलघुविक्रमः ।
लक्ष्मणस्याग्रतोरामंसम्रब्धमिदमब्रवीत् ॥ 18 ॥

प्रविष्टः शत्रु सैन्यं हि प्राप्तः शत्रुरतर्कितः ।
निहन्यादन्न्तरं लब्ध्वा उलूको वायसानिव ॥ 19 ॥

मन्त्रेव्यूहेनयेचारेयुक्तोभवितुमर्हसि ।
वानराणाञ्चभद्रन्तेपरेषाञ्चपरन्तप ॥ 20 ॥

अन्तर्धानगताह्येतेराक्षसाःकामरूपिणः ।
शूराश्चनिकृतिज्ञाश्चतेषाञ्जातुनविश्वसेत् ॥ 21 ॥

प्रणिधीराक्षसेन्द्रस्यरावणस्यभवेदयम् ।
अनुप्रविश्यसोऽस्मासुभेदङ्कुर्यान्नसंशयः ॥ 22 ॥

अथवास्वयमेवैषछिद्रमासाद्यबुद्धिमान् ।
अनुप्रविश्यविश्वस्तेकदाचित्प्रहरेदपि ॥ 23 ॥

मित्राटवीबलञ्चैवमौलभृत्यबलन्तथा ।
सर्वमेतद्बलङ्ग्राह्यंवर्जयित्वाद्विषद्बलम् ॥ 24 ॥

प्रकृत्याराक्षसेन्द्रस्यभ्राताऽमित्रस्यतेप्रभोः ।
आगतश्चरिपोस्साक्षात्कथमस्मिन्हिविश्वसेत् ॥ 25 ॥

रावणेनप्रणिहितन्तमवेहिविभीषणम् ।
तस्याहन्निग्रहम्मन्येक्षमङ्क्षमवतांवर ॥ 26 ॥

राक्षसोजिह्मयाबुद्ध्यासन्दिष्टोऽयमुपागतः ।
प्रहर्तुम्माययाच्छन्नोविश्वस्तेत्वयिराघव ॥ 27 ॥

प्रविष्टश्शत्रुसैन्यंहिप्राप्तश्शत्रुरतर्कितः ।
निहन्यादन्तरंलब्ध्वाउलूकवायसानिव ॥ 28 ॥

वध्यतामेषतीव्रेणदण्डेनसचिवैस्सह ।
रावणस्यनृशंसस्यभ्राताह्येषविभीषणः ॥ 29 ॥

एवमुक्त्वातुतंरामंसम्रब्धोवाहिनीपतिः ।
वाक्यज्ञोवाक्यकुशलन्ततोमौनमुपागमत् ॥ 30 ॥

सुग्रीवस्यतुतद्वाक्यंश्रुत्वारामोमहायशाः ।
समीपस्थानुवाचेदंहनुमत्प्रमुखान्हरीन् ॥ 31 ॥

यदुक्तङ्कपिराजेनरावणावरजम्प्रति ।
वाक्यंहेतुमदत्यर्थञ्चभवद्भिरपितच्छ्रुतम् ॥ 32 ॥

सुहृदामर्थकृच्छेषुयुक्तम्बुद्धिमतासदा ।
समर्थेनोपनिर्देष्टुंशाश्वतीम्भूतिमिच्छता ॥ 33 ॥

इत्येवम्परिपृष्टास्तेस्वंस्वम्मतमतन्द्रिताः ।
सोपचारन्तदाराममूचुर्हितचिकीर्षवः ॥ 34 ॥

अज्ञातन्नास्तितेकिञ्चित्त्रिषुलोकेषुराघवः ।
आत्मानंसूचयन्रामः पृच्छस्यस्मान् सुहृत्तया ॥ 35 ॥

त्वंहिसत्यव्रतश्शूरोधार्मिकोदृढविक्रमः ।
परीक्ष्यकारीस्मृतिमान्निसृष्टात्मासुहृत्सुच ॥ 36 ॥

तस्मादेकैकशस्तावद्ब्रुवन्तुसचिवास्तव ।
हेतुतोमतिसम्पन्नास्समर्थाश्चपुनः पुनः ॥ 37 ॥

इत्युक्तेराघवायाऽथमतिमानङ्गदोऽग्रतः ।
विभीषणपरीक्षार्थमुवाचवचनंहरिः ॥ 38 ॥

शत्रोस्सकाशात्सम्प्राप्तस्सर्वथाशङ् क्यएवहि ।
विश्वासयोग्यस्सहसानकर्तव्योविभीषणः ॥ 39 ॥

छादयित्वाऽत्मभावंहिचरन्तिशठबुद्धयः ।
प्रहरन्तिचरन्ध्रेषुसोऽनर्थस्सुमहान्भवेत् ॥ 40 ॥

अर्थानर्थौविनिश्चित्यव्यवसायम्भजेतह ।
गुणतस्सङ्ग्रहङ्कुर्याद्दोषतस्तुविसर्जयेत् ॥ 41 ॥

यदिदोषोमहांस्तस्मिंस्त्यज्वतामविशङ्कितम् ।
गुणान्वापिबहून् ज्ञात्वासङ्ग्रहःक्रियतान्नृप ॥ 42 ॥

शरभस्त्वथनिश्चित्यसार्थंवचनमब्रवीत् ।
क्षिप्रमस्मिन्नरव्याघ्र चारःप्रतिविधीयताम् ॥ 43 ॥

प्रणिधायहिचारेणयथावत्सूक्ष्मबुद्धिना ।
परीक्ष्यचततःकार्योयथान्यायम्परिग्रहः ॥ 44 ॥

जाम्बवांस्त्वथसम्प्रेक्ष्यशास्त्रबुध्याविचक्षणः ।
वाक्यंविज्ञापयामासगुणवद्दोषवर्जितम् ॥ 45 ॥

बद्धवैराच्चपापाच्चराक्षेसेन्द्राद्विभीषणः ।
अदेशकालेसम्प्राप्तस्सर्वथाशङ् क्यतामयम् ॥ 46 ॥

ततोमैन्दस्तुसम्प्रेक्ष्यनयापनयकोविदः ।
वाक्यंवचनसम्पन्नोबभाषेहेतुमत्तरम् ॥ 47 ॥

वजनन्नामतस्यैषरावणस्यविभीषणः ।
पृच्छयताम्मधुरेणायंशनैर्नरपतीश्वर ॥ 48 ॥

भावमस्यतुविज्ञायतत्त्वतस्त्वङ्करिष्यसि ।
यदिदुष्टोनदुष्टोवाबुद्धिपूर्वन्नरर्षभ ॥ 49 ॥

अथसंस्कारसम्पन्नोहनुमान् सचिवोत्तमः ।
उवाचवचनंश्लक्ष्णमर्थवन्मधुरंलघु ॥ 50 ॥

नभवन्तम्मतिश्रेष्ठंसमर्थंवदतांवरम् ।
अतिशाययितुंशक्तोबृहस्पतिरपिब्रुवन् ॥ 51 ॥

नवादान्नपिसङ्घर्षान्नाधिक्यान्नचकामतः ।
वक्ष्यामिवचनंराजन्यथार्थंरामगौरवात् ॥ 52 ॥

अर्थानर्थनिमित्तंहियदुक्तंसचिवैस्तव ।
तत्रदोषम्प्रपश्यामिक्रियानह्युपपद्यते ॥ 53 ॥

ऋतेनियोगात्सामर्थ्यमवबोद्धुन्नशक्यते ।
सहसाविनियोगोहिदोषवान्प्रतिभातिमे ॥ 54 ॥

चारप्रणिहितंयुक्तंयदुक्तंसचिवैस्तव ।
अर्थस्यासम्भवात्तत्रकारणन्नोपयुज्यते ॥ 55 ॥

अदेश काले सम्प्राप्त इति अयं यद् विभीषणः ।
विवक्षा च अत्र मे अस्ति इयं तां निबोध यथा मति ॥ 56 ॥

सएषदेशः कालश्चभवतीतियथातथा ।
पुरुषात्पुरुषम्प्राप्यतथादोषगुणावपि ॥ 57 ॥

त्म्यंरावणेदृष्टवाविक्रमञ्चतथात्वयि ।
युक्तमागमनंह्यत्रसदृशन्तस्यबुद्धितः ॥ 58 ॥

अज्ञातरूपैःपुरुषैस्सराजन्पृच्छ् यतामिति ।
यदुक्तमत्रमेप्रेक्षाकाचिदस्तिसमीक्षिता ॥ 59 ॥

पृच्छयमानोविशङ्केतसहसाबुद्धिमान्वचः ।
तत्रमित्रम्प्रदुष्येतमिथ्यापृष्टंसुखागतम् ॥ 60 ॥

अशक्यस्सहसाराजन्भावोबोद्धुम्परस्यवै ।
अन्तस्स्वभावैर्गीतैस्तैर्नैपुण्यम्पश्यताम्भृशम् ॥ 61 ॥

नत्वस्यब्रुवतोजातुलक्ष्यतेदुष्टभावता ।
प्रसन्नंवदनञ्चापितस्मान्मेनास्तिसंशयः ॥ 62 ॥

अशङ्कितमतिस्स्वस्थोनशठःपरिसर्पति ।
नचास्यदुष्टावाक्चापितस्मान्नास्तीहसंशयः ॥ 63 ॥

आकारश्चाद्यमानोऽपिनशक्योविनिगूहितम् ।
बलाद्धिविवृणोत्येवभावमन्तर्गतन्नृणाम् ॥ 64 ॥

देशकालोपपन्नञ्चकार्यङ्कार्यविदांवरः ।
स्वफलङ्कुरुतेक्षिप्रम्प्रयोगेणाभिसंहितम् ॥ 65 ॥

उद्योगन्तवसम्प्रेक्ष्यमिथ्यावृत्तञ्चरावणम् ।
वालिनञ्चहतंश्रुत्वासुग्रीवञ्चाभिषेचितम् ॥ 66 ॥

राज्यम्प्रार्थयमानश्चबुद्धिपूर्वमिहागतः ।
एतावत्तुपुरस्कृत्ययुज्यतेतस्यसङ्ग्रहः ॥ 67 ॥

यथाशक्तिमयोक्तन्तुराक्षसस्यार्जवम्प्रति ।
प्रमाणन्त्वन्तुशेषस्यशृत्वाबुद्धिमतांवरः ॥ 68 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे सप्तदशस्सर्गः ॥




Browse Related Categories: